41069: ऊरूत्तरपदादौपम्ये

Padacheda: ऊरू-उत्तरपदात् | S | 5 | 1 |

औपम्ये | S | 7 | 1 |

Sutrartha


Vasu English Summary

When the feminine affix ऊङ् comes after a stem ending in ऊरु when comparison with something (expressed by the first term) is meant.

Vasu English Translation

When the feminine affix ऊङ् comes after a stem ending in ऊरु when comparison with something (expressed by the first term) is meant. Thus कदलास्तम्भोरूः ‘a female with thighs like plantain-stem’. नागनासोरूः ‘a female with thighs like the nose of an elephant’; करभोरूः ‘female with thighs like the ulnar or tapering fleshy side of the hand’.

Why do we say “when expressing an object of comparison”? Witness वृत्तोरूः स्त्री ‘a woman with round thighs’. The word करेणुकरोरु “thigh like the proboscis (कर)of an elephant (करेणु)” is a poetic irregularity in the following विचकरे च करेणुकरोरुभिः ॥

Kashika

ऊरूत्तरपदात् प्रातिपदिकादौपम्ये गम्यमाने स्त्रियामूङ् प्रत्ययो भवति । कदली — स्तम्भोरूः। नागनासोरूः। करभोरूः। औपम्य इति किम्? वृत्तोरुः स्त्री॥

Siddhanta Kaumudi

उपमानवाचिपूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ् स्यात् । करभोरूः ॥

Laghu Siddhanta Kaumudi

उपमानवाची पूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ् स्यात्। करभोरूः॥

Balamanorama

ऊरूत्तरपदादौपम्ये - ऊरुत्तर । ऊरुः-उत्तरपदं यस्येति बहुव्रीहिः । प्रातिपदिकादित्यनुवर्तते । उत्तरपदेत्यनेन पूर्वपदमाक्षिप्तम्, औपम्ये इति तत्रान्वेति । उपमीयते अनयेत्युपमा=उपमानम्, उपमैव औपम्यं, स्वार्थे ष्यञ् । तदाह — उपमानवाचीति । करभोरूरिति । करभाविव ऊरू यस्या इति विग्रहः ।मणिबन्धादाकनिष्ठं करस्य करभो बहिः॑ इत्यमरः । करभोरुत्वस्याऽजातित्वादप्राप्तौ वचनम्, ऊर्वाकृतेः करभसदृशपुरुषोरुसाधारणत्वेन करभसादृश्यघटितकरभोरुत्वस्य आकृतिग्राह्रत्वाऽभावात्, असर्वलिङ्गत्वाद्यभावाच्च । उपमानवचीति किम् । वृत्तोरुः । करभोपमोरुरित्यादौ नोङ्, करभशब्दस्य करभसदृशेऽवृत्त्या उपमानवाचित्वाऽभावात् ।

Tattvabodhini

ऊरूत्तरपदादौपम्ये - ऊरूत्तपदात् । उपमीयतेऽनयेत्युपमा, तस्या भाव औपम्यम् । उत्तरपदेन पूर्वपदमिहाक्षिप्यते । तदेतत्फलितमाह -उपमानवाचिपूर्वपदमिति । करभोरूरिति ।माणिबन्धादाकनिष्ठं करस्य करभो बहिः॑ । तद्वदूरू यस्याः सा ।धात्री कराभ्यां करभोपमोरु॑रित्यत्र तूङ् न, करभशब्दस्योपमानवाचित्वेऽपि पूर्वपदत्वाऽभावात् । औपम्ये किम् । वृत्तोरुः ।ऊर्वन्ता॑दिति वक्तव्ये उत्तरपदग्रहणंहस्तितस्वाम्यूरु॑रित्यत्र माभूदित्येवमर्थम् । अत्र हि हस्तिन इव स्वाम्यूरु अस्या इति विग्रहः । तथा चोर्वन्तत्वेऽपि ऊरुत्तरपदत्वमिह नास्ति ।स्वाम्यूरु॑शब्दस्यैवोत्तरपदत्वात् ।

Padamanjari

उपमीयतेऽनयेत्युपमा, तद्भाव औपम्यम् । कथं’विचकरे च करेणुकरोरुभिः’ इति ? निरङ्कुशाः कवयः;’करेण वरोरुभिः’ इति पाठः - करेण विचकरे वरोरुभिरिति ॥

Nyaas

वृत्तोरुः इति। वृत्तौ {परिमण्डला ऊरू इति मुद्रितः पाठ।} परिमण्डलाबूरू यस्याः सा वृत्तोरुः। लाघवार्थमूर्वन्तादिति वक्तव्य ऊरूत्तरपदादित्युक्तम् - यत्र केवल ऊरुब्द उत्तरपदं तत्र यथा स्यादित्येवमर्थम्; अन्यथा हि यद्यर्वन्तादित्युच्येत,तदा स्वामिन ऊरू स्वाम्यूरू, हस्तिन इव स्वम्यूरू यस्याः सा हस्तिस्वम्यूरुरित्यत्रापि स्यात्, भवति ह्रेतदूर्वन्तं प्रातिपदिकम्। उत्तरपदग्रहणे तु न दोषः, न ह्रेतदूरूत्तरपदं प्रातिपदिकम्, किं तर्हि? स्वाम्यूरूत्तरपदम्॥

Praudhamanorama

उपमानवाचिपूर्वपदमिति। ‘धात्रीकराभ्यां करभोपमोरुः’ इत्यत्र तु न, करभशब्दस्योपमानवाचित्वेऽपि पूर्वपदत्वाभावात्।

Prakriyasarvasvam

औपम्ये द्योत्ये ऊर्वन्तात् स्त्रियामूङ् स्यात् । रम्भोरूः ।।

Sutra Prayogas

  • रम्भोरु (रघुवंशम्): ऊरूत्तरपदादौपम्ये इत्यूङ्प्रत्ययः।

  • करभोपमोरूः (रघुवंशम्): ऊरूत्तरपदादौपम्ये इत्यूङ्प्रत्ययः।

  • करभोरु (रघुवंशम्): ऊरूत्तरपदादौपम्ये इत्यङ्।

  • नासोरू (भट्टिकाव्यम्): ऊरूत्तरपदादौपम्ये इति ऊङ्।