41068: पङ्गोश्च¶
Padacheda: पङ्गोः | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The feminine affix ऊङ् comes after the word पंगु ‘lame’.
Vasu English Translation¶
The feminine affix ऊङ् comes after the word पंगु ‘lame’. As पंगू ‘a female lame’.
Vart:- The feminine affix ऊङ् is added to श्वशुर, and thereby there is elision of the letter उ and of the letter अ of the word. As श्वश्रूः ‘mother-in-law’ This debars the punyoga ङीष् of (4.1.48).
Kashika¶
पङ्गुशब्दात् स्त्रियामूङ् प्रत्ययो भवति। पङ्गूः॥ श्वशुरस्योकाराकारयोर्लोपश्च वक्तव्यः॥ श्वश्रूः॥
Siddhanta Kaumudi¶
पङ्गूः ।<!श्वशुरस्योकाराकारलोपश्च !> (वार्तिकम्) ॥ चादूङ् । पुंयोगलक्षणस्य ङीषोऽपवादः । लिङ्गविशिष्टपरिभाषया स्वादयः । श्वश्रूः ॥
Laghu Siddhanta Kaumudi¶
पङ्गूः। श्वशुरस्योकाराकारलोपश्च (वार्त्तिकम्) । श्वश्रूः॥
Balamanorama¶
पङ्गोश्च - पङ्गोश्च ।ऊ॑ङिति सूत्रशेषः । भग्नपादत्वं पङ्गुत्वं न जातिः, आसीने शयाने च आकृत्या दुग्र्रहत्वात्, एकस्या व्यक्तौविकलपादोऽयं पङ्गु॑रिति पङ्गुत्वस्योपदेशेऽपि व्यक्त्यन्तरेषु आसनशयनाद्यस्थेषु तस्य दुग्र्रहत्वात्, गोत्रचरणानन्तर्भावाच्च । ततश्च ‘ऊङुतः’ इत्यप्राप्तौ वचनमिदम् ।आशुरस्येति । वृत्त्यादौ पठितमिदम् । चकारादूङनुकृष्यते । आशुरस्य स्त्री इत्यर्थे पुंयोगलक्षणे ङीषि प्राप्ते तदपवाद ऊङ्, तत्संनियोगेन रेफादकारस्य शकारादुकारस्य लोपश्चेत्यर्थः । नच वकारादकारस्य लोपः शङ्क्यः,अन्त्यबाधेऽन्त्यसदेशस्ये॑ति वचनात् ।यस्येति चे॑ति तु नात्र भवति, ईकारे तद्धिते च तद्विधानात् । ननु आशूरित्यत्र कथं स्वादयः,ङ्याप्प्रातिपदिका॑दित्यधिकृत्य तद्विधेः, अस्य च ङ्याबन्तत्वाऽभावात्, ऊङन्तस्य च प्रत्ययान्तत्वेन प्रातिपदिकत्वाऽभावादित्यत आह — लिङ्गविशिष्येति ।प्रातिपदिकग्रहणे लिङ्गविशिष्यस्यापि ग्रहण॑मिति परिभाषयेत्यर्थः । वस्तुतस्तु आशुरस्येति वचनममूलकमेव, भाष्येऽदृष्टत्वात्,ङ्याप्प्रातिपदिका॑दिति सूत्रस्थभाष्यविरोधाच्च । तत्र हिङ्याप्प्रातिपदिका॑दित्यत्र ऊहोऽपि ग्रहणं कर्तव्यमित्याक्षिप्य उवर्णान्तादूङ् विधीयते । तत्र सवर्णदीर्घे एकादेशे कृते पूर्वान्तत्वेन प्रातिपदिकत्वलाभादेव सिद्धमित्युक्तम् । यदि ह्रुक्तरीत्या आश्रूशब्दो व्युत्पाद्यते तर्हि रेफादकारस्य लुप्तत्वेन एकादेशाऽप्रसक्तेस्तदसङ्गतिः स्पष्टैव । तथाच आश्रूरित्यव्युत्पन्नं प्रातिपदिकमिति शब्देन्दुशेखरे स्पष्टम् ।
Tattvabodhini¶
पङ्गोश्च - पङ्गोश्च । अजात्यर्थमिदम् । पङ्गुशब्दो हि गुणवाची ।आशुरस्योकाराऽकारलोपश्च । आशुरस्येति । पुंयोगलक्षणे ङीषि प्राप्ते ऊङ् तत्संनियोगेन च विधीयमानो लोपः संनिहितत्वादन्तस्यैवाऽकारस्य न त्वादेः । एतच्च वचनंआशुरः आश्र्वे॑ति निर्देशसिद्धार्थकथनपरम् । अतोऽपि प्रथमाकारस्य लोपो न शङ्क्यः ।
Padamanjari¶
श्वशुरस्येति । पुंयोगलक्षणस्य ङीषोऽपवाद ऊङ् विधीयते,’शावशेराप्तौ’ शुशब्देऽश्नोतेरुरन् प्रत्ययो भवति । किमिदं शु इति ? आशुशब्दस्यायमादिलोपो निपातितः । आश्वाप्तव्यः श्वशुरः, तस्य स्त्री श्वश्रूः,’श्वशुरः श्वववा’ इत्यदिनिपातनाद्विभक्त्यादि प्रातिपदिककार्यं भवति ॥
Nyaas¶
आशुरस्योकाराकारयोर्लोपश्च इति। अयं तु आशुरः आश्रवा (1.2.71) #इति निपातनादेव सिद्ध इति न वक्तव्यः॥
Praudhamanorama¶
श्वशुरस्येति। पुंयोगलक्षणे ङीषि प्राप्ते ऊङ्। तत्सन्नियोगेन च विधीयमानो लोपः सन्निहितत्वादन्त्यस्यैवाऽकारस्य, न त्वादेः। एतच्च वचनं ‘श्वशुरः श्वश्र्वा’इति निर्देशसिद्धार्थकथनपरम्। अतोऽपि प्रथमाऽकारस्य लोपो न शङ्क्यः।
Prakriyasarvasvam¶
स्त्रियामूङ् स्यात् । पङ्गूः । ‘श्वशुरः श्वश्वा’ (१-२-१७१) इत्युक्तेः श्वश्रूः सिद्धा ।।
Vartika¶
श्वशुरस्योकाराकारलोपश्च ।