41037: वृषाकप्यग्निकुसितकुसिदानामुदात्तः

Padacheda: वृषाकपि-अग्नि-कुसित-कुसिदानाम् | S | 6 | 3 |

उदात्तः | S | 1 | 1 |

Sutrartha

वृषाकपि, अग्नि, कुसित, कुसिद - एतेभ्यः शब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः, तत्सन्नियोगेन च प्रकृतेः उदात्तः ऐकारादेशः विधीयते ।

“वृषाकपि” (= हरः / विष्णुः), “अग्नि”, “कुसित”, “कुसिद” एतेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते; तथा च प्रक्रियायाम् एतेषां शब्दानाम् अन्तिमवर्णस्य उदात्तसंज्ञकः ऐकारादैशः अपि भवति । अस्य सूत्रस्य प्रयोगः केवलं पुंयोगे एव भवति । इत्युक्ते, वृषाकप्यादीनाम् पत्न्याः निर्देशार्थम् एव इदं सूत्रं प्रयुज्यते । क्रमेण उदाहरणानि एतानि — 1. वृषाकपेः पत्नी = वृषाकप् + ऐ + ङीप् → वृषाकप् + ऐ + ई → वृषाकपायी । लक्ष्मीः तथा गौरी इत्येतयोः अर्थे अयं शब्दः प्रयुज्यते । 2. अग्नेः पत्नी = अग्न् + ऐ + ङीप् → अग्न् + ऐ + ई → अग्नायी । 3. कुसितस्य पत्नी = कुसित् + ऐ + ङीप् → कुसित् + ऐ + ई → कुसितायी । 4. कुसिदस्य पत्नी = कुसिद् + ऐ + ङीप् → कुसिद् + ऐ + ई → कुसिदायी

उदात्तस्वरविधानस्य प्रयोजनम्

प्रकृतसूत्रेण इति उदात्तसंज्ञकः आदेशः विधीयते । अस्य प्रयोजनम् “वृषाकपायी” इति शब्दस्य स्वरविधानसमये दृश्यते । “वृषाकपि” इति शब्दे मूलरूपेण लघावन्ते द्वयोश्च बह्वषो गुरुः (फिट्सूत्रम् 2.19) इत्यनेन षकारोत्तरः आकारः उदात्तसंज्ञकः अस्ति, अन्ये वर्णाः अनुदात्ताः सन्ति । अस्यां स्थितौ वृषाकपायी इत्यत्र पकारोत्तस्य आकारस्य उदात्तसंज्ञाविधानार्थम् प्रकृतसूत्रेण ऐकारः उदात्तसंज्ञकः विधीयते । एकवारं ऐकारः उदात्तः विधीयते चेत् तस्य स्थाने जायमानः आकारः अपि स्थानिवद्भावेन उदात्तसंज्ञां प्राप्नोति । अन्येषु त्रिषु शब्देषु अन्तिमस्वरः (इत्युक्ते, “अग्नि” इत्यत्र नकारोत्तरः इकारः, “कुसित” इत्यत्र तकारोत्तरः अकारः, तथा च “कुसिद” इत्यत्रापि तकारोत्तरः अकारः) मूलरूपेणैव उदात्तसंज्ञकः अस्ति, अतः तस्य स्थाने जायमानः ऐकारादेशः अपि स्थानिवद्भावेन उदात्तसंज्ञाम् एव स्वीकरोति । इत्युक्ते, एतेषां त्रयाणाम् शब्दानां विषये ऐकारस्य उदात्तसंज्ञा तादृशी एव सम्भवति, तदर्थम् प्रकृतसूत्रे उदात्तग्रहणम् नैव आवश्यकम् । ऐकारस्य उदात्तसंज्ञायां प्राप्तायां पुनः स्थानिवद्भावनेन तत्स्थाने जायमानः आकारः अपि उदात्तसंज्ञकः भवति । अनेन प्रकारेण “अग्नायी” इत्यत्र नकारोत्तरः आकारः, “कुसितायी” इत्यत्र तकारोत्तरः आकारः, तथा च “कुसिदायी” इत्यत्र दकारोत्तरः आकारः —‌ एते वर्णाः उदात्तसंज्ञकाः भवन्ति ।

वार्त्तिकम् — <!त्रिसूत्री पुंयोगे एव !>

प्रकृतसूत्रात् पूर्वं विद्यमानं सूत्रम् पूतक्रतोरै च (4.1.36), प्रकृतसूत्रात् अनन्तरं विद्यमानं सूत्रम् मनोरौ वा (4.1.38) तथा च प्रकृतसूत्रम् — इति त्रीणि सूत्राणि केवलं पुंयोगे एव स्त्रीप्रत्ययं विदधति — इति अस्य वार्त्तिकस्य अर्थः । पुंलिङ्गवाचिनि शब्दे गुणस्य आरोपणं कृत्वा ततः ‘तस्य पत्नी’ इत्यस्मिन् अर्थे स्त्रीप्रत्ययस्य विधानम् — इति पुंयोगः नाम्ना ज्ञायते । यथा, प्रकृतसूत्रस्य सन्दर्भे वृषाकपेः पत्नी — इत्यस्य निर्देशार्थम् एव ङीप्-प्रत्ययः भवति; अतः अत्र “वृषाकपेः पत्नी वृषाकपायी” इति वाक्यं दीयते । या स्त्री स्वयं “वृषाकपिः” इति नाम्ना ज्ञायते, तस्याः निर्देशार्थम् तु प्रकृतसूत्रं नैव प्रयुज्यते — यतः तत्र पुंयोगस्य निर्देशः नास्ति । अतः तत्र “इयं वृषाकपिः” इत्येव निर्देशः सम्भवति । अन्ययोः द्वयोः सूत्रयोः विषये अपि एतादृशमेव ज्ञेयम् ।

Vasu English Summary

In forming the feminine with the affix ङीप् the letter ऐ having उदात्त accent is the substitute of the finals 1. वृषाकपि 2. अग्नि 3. कुसति and 3. कुसीद ।

Vasu English Translation

In forming the feminine with the affix ङीप् the letter ऐ having उदात्त accent is the substitute of the finals 1. वृषाकपि 2. अग्नि 3. कुसति and 3. कुसीद । The words वृषाकपि and कुसीद have udatta accent on the middle vowel (Phit Su II.19), the feminine of these has udatta, however, on the final. The words ‘agni’ and the rest have the udatta on the final (Phit su 1.1), their substitute ऐ will necessarily be udatta, by the rule of sthanivat bhava, even if the present sutra had not explicitly declared it to be so. Thus वृषाकपायी (Rig Veda X. 86.13) ‘the wife of Vrishakapi’, अग्नायी, (Rig Ved. I.22.12) the wife of ‘Agni’, कुसितायी ‘wife of Kusita’, कुसिदायी ‘the wife of Kusidai’. The present rule only applies when the sense of the feminine word is that of ‘wife of’. Otherwise we have वृषाकपिः स्त्री ‘the women Vrishakapi’ and not वृषाकपायी ॥ For the accent of the word वृष, See (6.1.203).

Kashika

वृषाकप्यादीनामुदात्त ऐकारादेशो भवति स्त्रियाम् , ङीप् च प्रत्ययः। वृषाकपिशब्दो मध्योदात्त उदात्तत्वं प्रयोजयति। अग्न्यादिषु पुनरन्तोदात्तेषु स्थानिवद्भावादेव सिद्धम्। वृषाकपेः स्त्री वृ॒षा॒क॒पायी॑। अ॒ग्नायी॑। कु॒सि॒तायी॑। कु॒सी॒दायी॑। पुंयोग इत्येव — वृ॒षाक॑पिः स्त्री॥

Siddhanta Kaumudi

एषामुदात्त ऐ आदेशः स्यात् ङीप् च । वृषाकपेः स्त्री वृषाकपायी । हरविष्णू वृषाकपी इत्यमरः । वृषाकपायी श्रीगौर्योरिति च । अग्नायी । कुसितायी । कुसिदायी । कुसिदशब्दो ह्रस्वमध्यो नतु दीर्घमध्यः ॥

Balamanorama

वृषाकप्यग्निकुसितकुसीदानामुदात्तः - वृषाकपायीति । ङीप्, प्रकृतेरुदात्त ऐकारोऽन्तादेशः, तस्य आयादेशः, तस्य एकारस्थानिकत्वात्तदाकारोऽप्युदात्तः,अनुदात्तं पदमेकवर्ज॑मित्यवशिष्टानामचामनुदात्तत्वम् । उदात्त इति किम् ।लघावन्ते द्वयोश्च वह्वषो गुरुः॑ इति वृषाकपिशब्दो मध्योदात्तः,नाहमिन्द्राणि रारण सख्युर्वृषाकपेः॑ इति यथा । अन्ते एकस्मिन् लघौ सति द्वयोर्वा लध्वोः सतोः पूर्वो बह्वच्कस्य गुरुरुदात्तः स्यादिति तदर्थः । ततश्च षकारादाकारस्य उदात्तत्वेअनुदात्तं पदमेकवर्जमित्यवशिष्टानामचामनुदात्तत्वमिति स्थितिः । तथा च पकारादिकारस्यानुदात्तत्वात्तत्स्थाने एकारोऽनुदात्तः स्यात् । ततस्च तदादेशभूतायादेशाकारस्याप्यनुदात्तत्वं स्यात् । अतोऽत्र उदात्तत्वविधिः । ग्नायीति । ‘अग्निर्मूर्धा’ इत्यादौ अग्निशब्दोऽन्तोदात्तः, ततो ङीप्, प्रकृतेरैकारोऽन्तादेशः, स च भवन्नान्तर्यादुदात्त एव भवति । अतस्तदादेशाऽऽयादेशाकारस्य उदात्तत्वसिद्धेरुदात्त इत्येतदग्निशब्दे अन्वयं न लभते, प्रयोजनाऽभावात् । कुसितायी कुसिदायीति । कुसितकुसिदे अव्युत्पन्नप्रातिपदिके देवताविशेषस्य नामधेये, फिट्स्वरेणान्तोदात्ते । ततो ङीप् ऐकारश्चान्तादेशः, सच भवन्नान्तर्यादुदात्त एवेति कुसितकुसिदशब्दयोरपि उदात्त इत्यस्य नान्वय इति वृत्त्यादिग्रन्थेषु स्थितम् । अत एवाह — न तु दीर्घमध्य इति । दीर्घमध्यत्वे हि ‘लघावन्ते’ इति मध्योदात्ततया शिष्टस्वरेण दकारादकारस्यानुदात्ततया तत्स्थाने ऐकारस्यानुदात्ततया तत्स्थाने आयाकारस्यानुदात्तत्वापत्त्या तन्निवृत्त्यर्थं तत्राप्युदात्तग्रहणस्यावश्यकत्वादुदाहृतवृत्त्यादिग्रन्थविरोधः स्पष्ट एवेति भावः ।

Tattvabodhini

वृषाकप्यग्निकुसितकुसीदानामुदात्तः - उदात्तैकार इति ।शृस्वृस्निहीत्यादिना मनेरुप्रत्ययविधौधान्ये नि ॑दित्यधिकारान्मनुशब्द आद्युदात्तः । समासनिर्देशेनैतद्दर्शयति — उदात्त इत्यनुवर्तमानं संबन्धानुवृत्तेरैकारणेव संबध्यते त्वैकारेणापीति । ततश्चैकारौकारावृदात्तौ स्त इति प्राचोक्तं वृत्तिपदमञ्जर्यानामिति । एथः । शोणः । पृश्निः । पृषत् । इति क्रमेणोदाहरणानि । आद्युदात्त इति ।अनुदात्तं पदमेकवर्ज॑मिति शेषनिघातेनाऽनुदात्तान्त एत शब्द इति भावः । त्र्येण्येति । अत्र एतशब्दस्योपसर्जनत्वामिति भावः ।पूर्वपदात्संज्ञाया॑मिति णत्वम् । गृह्रमिति ।गृहू ग्रहणे॒॑ऋदुपधाच्चाऽकॢपिचृतेः॑ इति क्यप् । त्रीण्येतानि यस्या इति । ननुचित्रं किर्मिरकल्माषशबलैताश्च कर्वुरे॑इति चित्रपर्याय एतशब्दः । तथा च शकल्यां चित्रत्रयाऽभावादर्थाऽस,ङ्गतिरित्याशङ्क्या केचिदिह व्याचक्षते — एतशब्दोऽत्र एतावयवपर इति नास्त्यत्रार्थाऽसङ्गतिः । न चैवमपि गुणविषयेनपुंसकपर्योगो न सङ्गच्छतेगुणे शुल्कादयः पुंसि॑इत्युक्तेरिति वाच्यम्, एतानि — एतावयवाधिकरणानीति ब्याख्यया गुणिलिङ्गपरत्वादेतशब्दस्य नपुंसकमप्युपपद्यत इति ।प्शङ्गादुपसङ्ख्यानम् । पिशङ्गादिति ।लघावन्ते॑इति पिशङ्गशब्दस्य मध्योदात्तत्वात्अन्यको ङी॑षिति ङीषि प्राप्ते ङीबुपसङ्ख्यायते । स्वरे विशेषः ।छन्दसि क्नमेके । क्नमेके इति । असितपलितयोस्तकारस्यवर्णादनुदत्ता॑दिति नकारे प्राप्ते तं बाधित्वा तकारस्थाने क्नमादेशं तत्संनियोगेन ङीपं चेच्छन्त्येके आचार्या इत्यर्थः । अत्रछन्दस्येके॑इत्यन्वयाद्भाषायां न्को भवत्येव । छन्दस्येवैके इच्छन्त्यन्ये तु भाषायामपीत्यर्थपर्यवसानात् । अन्यथा एकग्रहणं भाष्यकारो न कुर्यात् । न हि छन्दसिपलिन्किरिद्युवतयः॑इत्यादिप्रयोगेषु कश्चिद्विप्रतिपद्यते । एवं चगतो गणस्तूर्णमसिक्निकाना॑मिति प्रयोगो नाऽनुपन्नः । विशुद्धवाचीति ।दैप् शोधने॑इत्युक्तेः । अमरेण तु विशुद्धत्वसाधम्र्यात्अवदातः सितो गौरः॑इत्युक्तमिति भावः ।

Padamanjari

वृषाकपिशब्दो मध्योदात इति ।’लघावन्ते द्वयोश्च बह्वषो गुरुः’ इति वचनात् । अस्यार्थः - अन्ते एकस्मिन्लघौ द्वयोश्च लघ्वोः परतो बह्वषः शब्दस्य गुरुरुदातो भवतीति ।’बह्वषः’ इति वह्वच इत्यर्थः । योऽस्माकं चकारेण प्रत्याहारः सोऽन्येषां षकारेण । अग्न्यादिषु पुनरिति ।’फिषः’ इत्यनेनाग्न्यादीनामन्तोदातत्वम् । फिषिति प्रातिपदिकस्यान्याचार्यसंज्ञा । ये तु कुसीदेति मध्ये गुरुमधीयते तेषाम्’लघावन्ते’ इति मध्योदातप्रसङ्गः ॥

Nyaas

वृषाकपिशब्दो मध्योदात्तः इति। लघावन्ते द्वयोश्च बह्वषो गुरुः (फिट्।2।42) इति वचनात्। अस्यायमर्थः - लघावन्ते परतो द्वयोश्च लघ्वोः परतो बह्वच्शब्दस्य यो गुरुः स उदात्तो भवतीति। बह्वष् इति बह्वजित्यर्थः। पाणिनेर्यश्चकारेण प्रत्याहारः सोऽन्येषामाचार्याणां मतेन षकारेण। वृषाकपिशब्दे कपिशब्दसम्बन्धिनोर्लघ्वोः परतः पूर्व आकारो गुरुतर उदात्तो भवति, शेषमनुदात्तम्। तत्र यद्युदात्तग्रहणं न क्रियेतानुदात्तस्य स्थाने य आदेशः स्थानिवद्भावेन सोऽनुदात्त एव स्यात्। तस्माद्वृषाकपि शब्द उदात्तत्वं प्रयोजयति। अग्न्यादिषु पुनरन्तोदात्तेषु इति। फिषः (फि।सू।1।1) इत्यादिनाग्न्यादीनामन्तोदात्तत्वम्। आदिशब्देन कुसितकुसीदयोग्र्रहणम्। फिष् इति प्रातिपदिकस्यैव पुनरन्याचार्याकृता संज्ञा॥

Prakriyasarvasvam

एषामुदात्त ऐकारो ङीप् च स्यात् । हरो विष्णुरिन्द्रपुत्रश्च कश्चिद् वृषाकपिः । तेषां स्त्री वृषाकपायी । अग्नायी । कुसितायी । कुसीदायी ॥

Sutra Prayogas

  • अग्नायी (भट्टिकाव्यम्): वृषाकप्यग्नि- कुसित - कुसिद इत्यादिना ऐर्।