41037: वृषाकप्यग्निकुसितकुसिदानामुदात्तः ======================================== **Padacheda:** वृषाकपि-अग्नि-कुसित-कुसिदानाम् | S | 6 | 3 | उदात्तः | S | 1 | 1 | Sutrartha --------- **वृषाकपि, अग्नि, कुसित, कुसिद - एतेभ्यः शब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः, तत्सन्नियोगेन च प्रकृतेः उदात्तः ऐकारादेशः विधीयते ।** "वृषाकपि" (= हरः / विष्णुः), "अग्नि", "कुसित", "कुसिद" एतेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते; तथा च प्रक्रियायाम् एतेषां शब्दानाम् अन्तिमवर्णस्य उदात्तसंज्ञकः **ऐकारादैशः** अपि भवति । **अस्य सूत्रस्य प्रयोगः केवलं पुंयोगे एव भवति** । इत्युक्ते, वृषाकप्यादीनाम् पत्न्याः निर्देशार्थम् एव इदं सूत्रं प्रयुज्यते । क्रमेण उदाहरणानि एतानि — 1. **वृषाकपेः पत्नी** = वृषाकप् + ऐ + ङीप् → वृषाकप् + ऐ + ई → **वृषाकपायी** । लक्ष्मीः तथा गौरी इत्येतयोः अर्थे अयं शब्दः प्रयुज्यते । 2. **अग्नेः पत्नी** = अग्न् + ऐ + ङीप् → अग्न् + ऐ + ई → **अग्नायी** । 3. **कुसितस्य पत्नी** = कुसित् + ऐ + ङीप् → कुसित् + ऐ + ई → **कुसितायी** । 4. **कुसिदस्य पत्नी** = कुसिद् + ऐ + ङीप् → कुसिद् + ऐ + ई → **कुसिदायी** । **उदात्तस्वरविधानस्य प्रयोजनम्** प्रकृतसूत्रेण **ऐ** इति **उदात्तसंज्ञकः** आदेशः विधीयते । **अस्य प्रयोजनम् "वृषाकपायी" इति शब्दस्य स्वरविधानसमये दृश्यते** । "वृषाकपि" इति शब्दे मूलरूपेण **लघावन्ते द्वयोश्च बह्वषो गुरुः** (फिट्सूत्रम् 2.19) इत्यनेन षकारोत्तरः आकारः उदात्तसंज्ञकः अस्ति, अन्ये वर्णाः अनुदात्ताः सन्ति । अस्यां स्थितौ **वृषाकपायी** इत्यत्र पकारोत्तस्य आकारस्य उदात्तसंज्ञाविधानार्थम् प्रकृतसूत्रेण ऐकारः उदात्तसंज्ञकः विधीयते । एकवारं ऐकारः उदात्तः विधीयते चेत् तस्य स्थाने जायमानः आकारः अपि स्थानिवद्भावेन उदात्तसंज्ञां प्राप्नोति । अन्येषु त्रिषु शब्देषु अन्तिमस्वरः (इत्युक्ते, "अग्नि" इत्यत्र नकारोत्तरः इकारः, "कुसित" इत्यत्र तकारोत्तरः अकारः, तथा च "कुसिद" इत्यत्रापि तकारोत्तरः अकारः) मूलरूपेणैव उदात्तसंज्ञकः अस्ति, अतः तस्य स्थाने जायमानः ऐकारादेशः अपि स्थानिवद्भावेन उदात्तसंज्ञाम् एव स्वीकरोति । इत्युक्ते, एतेषां त्रयाणाम् शब्दानां विषये ऐकारस्य उदात्तसंज्ञा तादृशी एव सम्भवति, तदर्थम् प्रकृतसूत्रे उदात्तग्रहणम् नैव आवश्यकम् । ऐकारस्य उदात्तसंज्ञायां प्राप्तायां पुनः स्थानिवद्भावनेन तत्स्थाने जायमानः आकारः अपि उदात्तसंज्ञकः भवति । अनेन प्रकारेण "अग्नायी" इत्यत्र नकारोत्तरः आकारः, "कुसितायी" इत्यत्र तकारोत्तरः आकारः, तथा च "कुसिदायी" इत्यत्र दकारोत्तरः आकारः —‌ एते वर्णाः उदात्तसंज्ञकाः भवन्ति । **वार्त्तिकम् — ** प्रकृतसूत्रात् पूर्वं विद्यमानं सूत्रम् **पूतक्रतोरै च** (4.1.36), प्रकृतसूत्रात् अनन्तरं विद्यमानं सूत्रम् **मनोरौ वा** (4.1.38) तथा च प्रकृतसूत्रम् — इति त्रीणि सूत्राणि केवलं **पुंयोगे एव** स्त्रीप्रत्ययं विदधति — इति अस्य वार्त्तिकस्य अर्थः । **पुंलिङ्गवाचिनि शब्दे गुणस्य आरोपणं कृत्वा ततः 'तस्य पत्नी' इत्यस्मिन् अर्थे स्त्रीप्रत्ययस्य विधानम् — इति पुंयोगः नाम्ना ज्ञायते** । यथा, प्रकृतसूत्रस्य सन्दर्भे **वृषाकपेः पत्नी** — इत्यस्य निर्देशार्थम् एव ङीप्-प्रत्ययः भवति; अतः अत्र "वृषाकपेः पत्नी वृषाकपायी" इति वाक्यं दीयते । या स्त्री स्वयं "वृषाकपिः" इति नाम्ना ज्ञायते, तस्याः निर्देशार्थम् तु प्रकृतसूत्रं नैव प्रयुज्यते — यतः तत्र पुंयोगस्य निर्देशः नास्ति । अतः तत्र "इयं वृषाकपिः" इत्येव निर्देशः सम्भवति । अन्ययोः द्वयोः सूत्रयोः विषये अपि एतादृशमेव ज्ञेयम् । Vasu English Summary -------------------- In forming the feminine with the affix ङीप् the letter ऐ having उदात्त accent is the substitute of the finals 1. वृषाकपि 2. अग्नि 3. कुसति and 3. कुसीद । Vasu English Translation ------------------------ In forming the feminine with the affix ङीप् the letter ऐ having उदात्त accent is the substitute of the finals 1. वृषाकपि 2. अग्नि 3. कुसति and 3. कुसीद । The words वृषाकपि and कुसीद have *udatta* accent on the middle vowel (*Phit* *Su* II.19), the feminine of these has *udatta*, however, on the final. The words '*agni*' and the rest have the *udatta* on the final (*Phit* *su* 1.1), their substitute ऐ will necessarily be *udatta*, by the rule of *sthanivat* *bhava*, even if the present *sutra* had not explicitly declared it to be so. Thus वृषाकपायी (*Rig* *Veda* X. 86.13) 'the wife of *Vrishakapi*', अग्नायी, (*Rig* *Ved*. I.22.12) the wife of '*Agni*', कुसितायी 'wife of *Kusita*', कुसिदायी 'the wife of *Kusidai*'. The present rule only applies when the sense of the feminine word is that of 'wife of'. Otherwise we have वृषाकपिः स्त्री 'the women *Vrishakapi*' and not वृषाकपायी ॥ For the accent of the word वृष, See (6.1.203). Kashika ------- वृषाकप्यादीनामुदात्त ऐकारादेशो भवति स्त्रियाम् , ङीप् च प्रत्ययः। वृषाकपिशब्दो मध्योदात्त उदात्तत्वं प्रयोजयति। अग्न्यादिषु पुनरन्तोदात्तेषु स्थानिवद्भावादेव सिद्धम्। वृषाकपेः स्त्री वृ॒षा॒क॒पायी॑। अ॒ग्नायी॑। कु॒सि॒तायी॑। कु॒सी॒दायी॑। पुंयोग इत्येव — वृ॒षाक॑पिः स्त्री॥ Siddhanta Kaumudi ----------------- एषामुदात्त ऐ आदेशः स्यात् ङीप् च । वृषाकपेः स्त्री वृषाकपायी । हरविष्णू वृषाकपी इत्यमरः । वृषाकपायी श्रीगौर्योरिति च । अग्नायी । कुसितायी । कुसिदायी । कुसिदशब्दो ह्रस्वमध्यो नतु दीर्घमध्यः ॥ Balamanorama ------------ **वृषाकप्यग्निकुसितकुसीदानामुदात्तः** - वृषाकपायीति । ङीप्, प्रकृतेरुदात्त ऐकारोऽन्तादेशः, तस्य आयादेशः, तस्य एकारस्थानिकत्वात्तदाकारोऽप्युदात्तः,अनुदात्तं पदमेकवर्ज॑मित्यवशिष्टानामचामनुदात्तत्वम् । उदात्त इति किम् ।लघावन्ते द्वयोश्च वह्वषो गुरुः॑ इति वृषाकपिशब्दो मध्योदात्तः,नाहमिन्द्राणि रारण सख्युर्वृषाकपेः॑ इति यथा । अन्ते एकस्मिन् लघौ सति द्वयोर्वा लध्वोः सतोः पूर्वो बह्वच्कस्य गुरुरुदात्तः स्यादिति तदर्थः । ततश्च षकारादाकारस्य उदात्तत्वेअनुदात्तं पदमेकवर्जमित्यवशिष्टानामचामनुदात्तत्वमिति स्थितिः । तथा च पकारादिकारस्यानुदात्तत्वात्तत्स्थाने एकारोऽनुदात्तः स्यात् । ततस्च तदादेशभूतायादेशाकारस्याप्यनुदात्तत्वं स्यात् । अतोऽत्र उदात्तत्वविधिः । ग्नायीति । 'अग्निर्मूर्धा' इत्यादौ अग्निशब्दोऽन्तोदात्तः, ततो ङीप्, प्रकृतेरैकारोऽन्तादेशः, स च भवन्नान्तर्यादुदात्त एव भवति । अतस्तदादेशाऽऽयादेशाकारस्य उदात्तत्वसिद्धेरुदात्त इत्येतदग्निशब्दे अन्वयं न लभते, प्रयोजनाऽभावात् । कुसितायी कुसिदायीति । कुसितकुसिदे अव्युत्पन्नप्रातिपदिके देवताविशेषस्य नामधेये, फिट्स्वरेणान्तोदात्ते । ततो ङीप् ऐकारश्चान्तादेशः, सच भवन्नान्तर्यादुदात्त एवेति कुसितकुसिदशब्दयोरपि उदात्त इत्यस्य नान्वय इति वृत्त्यादिग्रन्थेषु स्थितम् । अत एवाह — न तु दीर्घमध्य इति । दीर्घमध्यत्वे हि 'लघावन्ते' इति मध्योदात्ततया शिष्टस्वरेण दकारादकारस्यानुदात्ततया तत्स्थाने ऐकारस्यानुदात्ततया तत्स्थाने आयाकारस्यानुदात्तत्वापत्त्या तन्निवृत्त्यर्थं तत्राप्युदात्तग्रहणस्यावश्यकत्वादुदाहृतवृत्त्यादिग्रन्थविरोधः स्पष्ट एवेति भावः । Tattvabodhini ------------- **वृषाकप्यग्निकुसितकुसीदानामुदात्तः** - उदात्तैकार इति ।शृस्वृस्निहीत्यादिना मनेरुप्रत्ययविधौधान्ये नि ॑दित्यधिकारान्मनुशब्द आद्युदात्तः । समासनिर्देशेनैतद्दर्शयति — उदात्त इत्यनुवर्तमानं संबन्धानुवृत्तेरैकारणेव संबध्यते त्वैकारेणापीति । ततश्चैकारौकारावृदात्तौ स्त इति प्राचोक्तं वृत्तिपदमञ्जर्यानामिति । एथः । शोणः । पृश्निः । पृषत् । इति क्रमेणोदाहरणानि । आद्युदात्त इति ।अनुदात्तं पदमेकवर्ज॑मिति शेषनिघातेनाऽनुदात्तान्त एत शब्द इति भावः । त्र्येण्येति । अत्र एतशब्दस्योपसर्जनत्वामिति भावः ।पूर्वपदात्संज्ञाया॑मिति णत्वम् । गृह्रमिति ।गृहू ग्रहणे॒॑ऋदुपधाच्चाऽकॢपिचृतेः॑ इति क्यप् । त्रीण्येतानि यस्या इति । ननुचित्रं किर्मिरकल्माषशबलैताश्च कर्वुरे॑इति चित्रपर्याय एतशब्दः । तथा च शकल्यां चित्रत्रयाऽभावादर्थाऽस,ङ्गतिरित्याशङ्क्या केचिदिह व्याचक्षते — एतशब्दोऽत्र एतावयवपर इति नास्त्यत्रार्थाऽसङ्गतिः । न चैवमपि गुणविषयेनपुंसकपर्योगो न सङ्गच्छतेगुणे शुल्कादयः पुंसि॑इत्युक्तेरिति वाच्यम्, एतानि — एतावयवाधिकरणानीति ब्याख्यया गुणिलिङ्गपरत्वादेतशब्दस्य नपुंसकमप्युपपद्यत इति ।प्शङ्गादुपसङ्ख्यानम् । पिशङ्गादिति ।लघावन्ते॑इति पिशङ्गशब्दस्य मध्योदात्तत्वात्अन्यको ङी॑षिति ङीषि प्राप्ते ङीबुपसङ्ख्यायते । स्वरे विशेषः ।छन्दसि क्नमेके । क्नमेके इति । असितपलितयोस्तकारस्यवर्णादनुदत्ता॑दिति नकारे प्राप्ते तं बाधित्वा तकारस्थाने क्नमादेशं तत्संनियोगेन ङीपं चेच्छन्त्येके आचार्या इत्यर्थः । अत्रछन्दस्येके॑इत्यन्वयाद्भाषायां न्को भवत्येव । छन्दस्येवैके इच्छन्त्यन्ये तु भाषायामपीत्यर्थपर्यवसानात् । अन्यथा एकग्रहणं भाष्यकारो न कुर्यात् । न हि छन्दसिपलिन्किरिद्युवतयः॑इत्यादिप्रयोगेषु कश्चिद्विप्रतिपद्यते । एवं चगतो गणस्तूर्णमसिक्निकाना॑मिति प्रयोगो नाऽनुपन्नः । विशुद्धवाचीति ।दैप् शोधने॑इत्युक्तेः । अमरेण तु विशुद्धत्वसाधम्र्यात्अवदातः सितो गौरः॑इत्युक्तमिति भावः । Padamanjari ----------- वृषाकपिशब्दो मध्योदात इति ।'लघावन्ते द्वयोश्च बह्वषो गुरुः' इति वचनात् । अस्यार्थः - अन्ते एकस्मिन्लघौ द्वयोश्च लघ्वोः परतो बह्वषः शब्दस्य गुरुरुदातो भवतीति ।'बह्वषः' इति वह्वच इत्यर्थः । योऽस्माकं चकारेण प्रत्याहारः सोऽन्येषां षकारेण । अग्न्यादिषु पुनरिति ।'फिषः' इत्यनेनाग्न्यादीनामन्तोदातत्वम् । फिषिति प्रातिपदिकस्यान्याचार्यसंज्ञा । ये तु कुसीदेति मध्ये गुरुमधीयते तेषाम्'लघावन्ते' इति मध्योदातप्रसङ्गः ॥ Nyaas ----- `वृषाकपिशब्दो मध्योदात्तः` इति। `लघावन्ते द्वयोश्च बह्वषो गुरुः` (फिट्।2।42) इति वचनात्। अस्यायमर्थः - लघावन्ते परतो द्वयोश्च लघ्वोः परतो बह्वच्शब्दस्य यो गुरुः स उदात्तो भवतीति। `बह्वष्` इति बह्वजित्यर्थः। पाणिनेर्यश्चकारेण प्रत्याहारः सोऽन्येषामाचार्याणां मतेन षकारेण। वृषाकपिशब्दे कपिशब्दसम्बन्धिनोर्लघ्वोः परतः पूर्व आकारो गुरुतर उदात्तो भवति, शेषमनुदात्तम्। तत्र यद्युदात्तग्रहणं न क्रियेतानुदात्तस्य स्थाने य आदेशः स्थानिवद्भावेन सोऽनुदात्त एव स्यात्। तस्माद्वृषाकपि शब्द उदात्तत्वं प्रयोजयति। `अग्न्यादिषु पुनरन्तोदात्तेषु` इति। `फिषः` (फि।सू।1।1) इत्यादिनाग्न्यादीनामन्तोदात्तत्वम्। आदिशब्देन कुसितकुसीदयोग्र्रहणम्। `फिष्` इति प्रातिपदिकस्यैव पुनरन्याचार्याकृता संज्ञा॥ Prakriyasarvasvam ----------------- एषामुदात्त ऐकारो ङीप् च स्यात् । हरो विष्णुरिन्द्रपुत्रश्च कश्चिद् वृषाकपिः । तेषां स्त्री वृषाकपायी । अग्नायी । कुसितायी । कुसीदायी ॥ Sutra Prayogas -------------- * **अग्नायी** (भट्टिकाव्यम्): `वृषाकप्यग्नि- कुसित - कुसिद` इत्यादिना ऐर्।