41034: विभाषा सपूर्वस्य

Padacheda: विभाषा | S | 1 | 1 |

स-पूर्वस्य | S | 6 | 1 |

Sutrartha

‘पति’ इति शब्दः यस्य समस्तपदस्य उत्तरपदरूपेण प्रयुज्यते; तस्मात् स्त्रीत्वं द्योतयितुम् विकल्पेन नकारादेशः भवति

“पति” इति शब्दः यस्य समस्तपदस्य उत्तरपदरूपेण प्रयुज्यते; तस्मात् स्त्रीत्वं द्योतयितुम् विकल्पेन न् इति आदेशः विधीयते । एतादृशे आदेशे कृते नकारान्तप्रातिपदिकं सिद्ध्यति; अतः तस्मात् ऋन्नेभ्यो ङीप् (4.1.5) इत्यनेन ङीप्-प्रत्ययः विधीयते । नकारादेशस्य अभावे ङीप्-प्रत्ययः अपि न सम्भवति; अतः मूलशब्दः एव स्त्रीलिङ्गे अपि प्रयुज्यते । “पतिः” इति शब्दस्य “भर्ता” (husband) इति यथा अर्थः विद्यते; तथैव “नेता” इति अर्थः अपि अस्ति । उभयोः अपि अर्थयोः प्रकृतसूत्रस्य प्रयोगः अवश्यं भवति । यथा — 1. “ग्रामस्य पतिः स्त्री” (leader of the village) इत्यत्र “ग्राम + पति” इति समासे जाते स्त्रीत्वं द्योतयितुम् विकल्पेन नकारादेशे कृते; “ग्रामपत्न्” इति सिद्धे ततः ऋन्नेभ्यो ङीप् (4.1.5) इत्यनेन ङीप्-प्रत्ययः विधीयते; येन “ग्रामपत्नी” इति शब्दः सिद्ध्यति । पक्षे “ग्रामपतिः” इति शब्दः अपि प्रयुुज्यते । अतएव, “इयं ब्राह्मणी ग्रामपत्नी”, तथा च “इयं ब्राह्मणी ग्रामपतिः” इति उभयथा प्रयोगः साधुत्वं प्राप्नोति । 2. “वृद्धस्य पत्नी” इत्यत्र “वृद्ध + पति” इति समासे जाते स्त्रीत्वं द्योतयितुम् “पति”-शब्दस्य विकल्पेन नकारादेशे कृते; “वृद्धपत्न्” इति सिद्धे ततः ऋन्नेभ्यो ङीप् (4.1.5) इत्यनेन ङीप्-प्रत्ययः विधीयते; येन “वृद्धपत्नी” इति शब्दः सिद्ध्यति । पक्षे “वृद्धपतिः” इति शब्दः अपि प्रयुुज्यते । अतएव, “इयं ब्राह्मणी वृद्धपत्नी”, तथा च “इयं ब्राह्मणी वृद्धपतिः” इति उभयथा प्रयोगः साधुत्वं प्राप्नोति ।

बहुव्रीहिसमास्य विषये अपि अस्य सूत्रस्य प्रयोगः

प्रकतसूत्रम् अनुपसर्जनात् (4.1.14) अस्मिन् अधिकारे वर्तते । अतः “स्थूलः पतिः अस्याः सा” एतादृशस्य बहुव्रीहिसमासस्य विषये अस्य सूत्रस्य प्रयोगः वस्तुतः न भवेत् । परन्तु अत्र अनुपसर्जनात् (4.1.14) इति सूत्रम् “पति”-शब्देन सह नैव अन्वेति, अपितु पत्यन्तशब्देन सह अन्वेति । इत्युक्ते, पत्यन्तशब्दः (यथा, स्थूलपतिः, दीनपतिः इत्यादिः) स्वयं बहुव्रीहिसमासस्य उत्तरपदरूपेण नैव विधीयते चेत् प्रकृतसूत्रस्य प्रयोगः अवश्यं कर्तुं शक्यते; तत्र “पति”शब्दः स्वयं बहुव्रीहिसमासे भागं गृह्णाति चेदपि न दोषः — इति आशयः वर्तते । अतएव, “स्थूलः पतिः यस्याः सा” इत्यत्र प्रकृतसूत्रेण विकल्पेन नकारादेशे; तत्सन्नियोगेन च ङीप्-प्रत्यये कृते “स्थूलपत्नी”, तदभावपक्षे च “स्थूलपति” इति उभयथा प्रयोगः सिद्ध्यति । एवमेव, “दृढः पतिः यस्याः सा = दृढःपतिः, दृढपत्नी” इति उभयथा प्रयोगः सिद्ध्यति। ।

अप्राप्तविभाषा इयम्

प्रकृतसूत्रेण उक्ता विभाषा अप्राप्तविभाषा अस्ति इति अत्र काशिकाकारः निर्दिशति । प्रकृतसूत्रेण उक्तः नकारादेशः पत्युर्नो यज्ञसंयोगे (4.1.33) इति पूर्वसूत्रेण नैव उच्यते यतः पूर्वसूत्रे “यज्ञसंयोगः” इति विशिष्टः अर्थः वर्तते । समस्तपदे विद्यमानः पतिशब्दः न हि यज्ञसंयोगविशिष्टम् अर्थम् अपेक्षते उत गृह्णाति । अतः अत्र पूर्वम् अप्राप्तः विधिः विकल्प्यते — इति स्वीकृत्य अप्राप्तविभाषा स्वीक्रियते ।

दलकृत्यम्

सपूर्वस्य इति किमर्थम् ? यत्र पति-शब्दः समासे न विद्यते (पृथक् रूपेण विद्यते) तत्र प्रकृतसूत्रस्य प्रसक्तिः नास्ति । तत्र पत्युर्नो यज्ञसंयोगे (4.1.33) इति पूर्वसूत्रेण यज्ञसंयोगस्य विषये (= wife इत्यस्मिन् अर्थे) एव नकारादेशे कृते “पत्नी” इति शब्दः सिद्ध्यति । अन्येषु अर्थेषु (यथा, नेता, पालकः इत्यस्मिन् अर्थे) तु स्त्रीत्वे अपि “पति” इत्येव शब्दः प्रयुज्यते ।

बाध्यबाधकभावः

प्रकृतसूत्रेण प्राप्तं वैकल्पिक-नकारादेशं बाधित्वा केषुचन स्थलेषु नित्यं नकारादेशः भवति । एतानि प्रातिपदिकानि नित्यं सपत्न्यादिषु (4.1.35) इति अग्रिमसूत्रे परिगणितानि सन्ति ।

Vasu English Summary

In forming the feminine with the affix ङीप् , न् is optionally the substitute of the final इ of पति when the latter is preceded by another vowel.

Vasu English Translation

In forming the feminine with the affix ङीप् , न् is optionally the substitute of the final इ of पति when the latter is preceded by another vowel. The word सपूर्वस्य means when the word पति is not an upasarjana, but stands at the end of a compound. Thus वृद्धपतिः or वृद्धपत्नी; स्थूलपतिः or स्थूलपत्नी ॥ This is an example of aprapta-vibhasha. Because it is free from the limitations of ‘yajna-sanyoga’ of the last sutra. Why do we say when it is preceded by another word? Observe पतिरियं ब्राह्मणी ग्रामस्य, this Brahman lady is the mistress of the village.’ Here the feminine is पति and not पत्नी ॥

Bhashya

विभाषा सपूर्वस्य (1301) (विकल्पाधिकरणम्) (5157 पूर्वपक्षवार्तिकम्॥ 1 ॥) - पत्युः सपूर्वादुपसर्जनसमास उपसंख्यानम् - (भाष्यम्) पत्युः सपूर्वादुपसर्जनसमास उपसंख्यानं कर्तव्यम् -वृद्धपतिः,वृद्धपत्नी, स्थूलपतिः, स्थूलपत्नी। वचनाद्भविष्यति॥ अस्ति वचने प्रयोजनम्। किम्? आशापतिः, आशापत्नी॥ (5158 सिद्धान्तवार्तिकम्॥ 2 ॥) - सिद्धं तु पत्युः प्रातिपदिकविशेषणत्वात् - (भाष्यम्) सिद्धमेतत्॥ कथम्? पत्युः प्रातिपदिकविशेषणत्वात्। नैवं विज्ञायते। अस्त्यस्मात्पतिशब्दात्पूर्वः सोऽयं सपूर्वः, सपूर्वात्पतिशब्दादनुपसर्जनादिति॥ कथं तर्हि? अस्त्यस्मिन् प्रातिपदिके पूर्वं तदिदं सपूर्वम्, सपूर्वात्प्रातिपदिकात्पत्यन्तादनुपसर्जनादिति॥

Kashika

पत्युर्न इति वर्तते। पतिशब्दान्तस्य प्रातिपदिकस्य सपूर्वस्यानुपसर्जनस्य स्त्रियां विभाषा नकारादेशो भवति, ङीप् तु लभ्यत एव। वृद्धपत्नी, वृद्धपतिः। स्थूलपत्नी, स्थूलपतिः। अप्राप्तविभाषेयमयज्ञसंयोगत्वात्। सपूर्वस्येति किम्? पतिरियं ब्राह्मणी ग्रामस्य॥

Siddhanta Kaumudi

पतिशब्दान्तस्य सपूर्वस्य प्रातिपदिकस्य नो वा स्यात् । गृहस्य पतिः गृहपतिः । गृहपत्नी । अनुपसर्जनस्येतीहोत्तरार्थमनुवृत्तमपि न पत्युर्विशेषणं किन्तु तदन्तस्य । तेन बहुव्रीहावपि । दृढपत्नी । दृढपतिः । वृषलपत्नी । वृषलपतिः । अथ वृषलस्य पत्नीति व्यस्ते कथमिति चेत् । पत्नीव पत्नीत्युपचारात् । यद्वा । आचारक्विबन्तात्कर्तरि क्विप् । अस्मिंश्च पक्षे । पत्नियौ । पत्नियः । इतीयङ्विषये विशेषः । सपूर्वस्य किम् ? गवां पतिः स्त्री ॥

Balamanorama

विभाषा सपूर्वस्य - विभाषा सपूर्वस्य । ‘पत्युर्न’ इत्यनुवर्तते । प्रातिपदिकादित्यनुवृत्तं षष्टआ विपरिणतं पत्युरित्यनेन विशेष्यते, तदन्तविधिः । सपूर्वस्येत्येतत्पतिशब्दान्तप्रातिपदिकेऽन्वेति । पूर्वावयवसहितस्येत्यर्थः । तदाह — पतिशब्दान्तस्येत्यादिना । यज्ञसंयोगाऽभावेऽपि अप्राप्तविभाषेयम् । गृहपतिः गृहपत्नीति । नत्वपक्षे ‘ऋन्नेभ्य’ इति ङीप् । अत्र गृहपतिशब्दः पतिशब्दान्तो गृहशब्दात्मकपूर्वावयवसहितश्चेति भावः । नचग्रहणवता प्रातिपदिकेने॑ति निषेधः शङ्क्यः,शूद्रा चामहत्पूर्वा॑ इति लिङ्गेन तस्य स्त्रियामित्यधिकारेऽप्रवृत्तेरुक्तत्वात् । ननु दृढः पतिर्यस्या इति बहुव्रीहौ दृढपतिः दृढपत्नीति नत्वविकल्प इष्यते, स तु न संभवति, अनुपसर्जना॑दित्यधिकारात्, पतिशब्दस्यात्रोपसर्जनत्वात् । नच अनुपसर्जनादिति नात्र संबध्यते इति वाच्यम्, उत्तरत्रानुवृत्तये इहापि तदनुवृत्तेरावश्यकत्वादित्यत आह — अनुपसर्जनस्येत्यादि । किं तु तदन्तस्येति । सपूर्वस्येति पत्यन्तस्य श्चुतत्वेन तद्विशेषणताया एव न्याय्यत्वात् । अवान्तरवाक्यार्थबोधोत्तरमेव अनुपसर्जनत्वविशेषणप्रवृत्त्या तत्काले सपूर्वस्य श्रुतत्वेन तेनैव संबन्धे जाते सति पश्चात्पतिशब्देऽपि पुनव्र्यापारे मानाऽभावादिति भावः । तेनेति । अनुपसर्जनत्वस्य पत्यन्तविशेषणत्वेनेत्यर्थः । यज्ञसंयोगग्रहणमनुवर्त्त्य प्राप्तविभाषो कुतो न स्यादित्यत आह — वृषलपत्नीति । पाति रक्षतीति पतिः, वृषलस्य पतिः स्त्री इति विग्रहः । अपशूद्राधिकरणे शूद्राणां यज्ञाधिकारनिराकरणादिह यज्ञसंयोगाऽभावादप्राप्तमेव नत्वं विभाष्यत इति भावः । आक्षिपति — अथेति । आक्षेपारम्भद्योतकोऽथशब्दः, प्रश्नद्योतको वा ।मह्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अत॑ इत्यमरः । व्यस्ते इति । विग्रहवाक्ये इत्यर्थः । ततश्च सपूर्वत्वाऽडभावान्न प्रकृतसूत्रेण नत्वविकल्पः । यज्ञसंयोगाऽभावाच्च न पूर्वसूत्रेण, अकतो वूषलस्य पत्नीत्यनुपपन्नमित्याक्षेपः । इति चेन्नेति । इत्याक्षिपसि चेन्नैतद्युक्तमित्यर्थः । पत्नीवेति । यज्ञसंयुक्तायां द्विजभार्यायां यः पत्नीशब्दो व्युत्पादितस्तस्यैव शूद्रस्त्रियामपि अयज्ञसंयुक्तायां पाणिग्रहणादिधर्मपुरस्कारेण गौण्या वृत्त्या प्रयोगः । यथा गङ्गायामिति स्त्रीलिङ्गस्य तीरे प्रयोगः । उक्तं च भाष्ये-॒तुषजकस्य पत्नीत्युपमानात्सिद्ध॑मिति । यद्वेति । प्रौढिवादमात्रमिदम्, स्त्रियामाचारक्विबन्तप्रकृतिकक्विबन्तशब्दां न सन्तीतिअनुपसर्जना॑दित्यत्रोक्तात्वेता । सपूर्वस्येति किमिति । प्रातिपदिकविशेषणतया पतिशब्दस्य तदन्तलाभे सति पतिशब्दान्तस्य सपूर्वत्वाऽव्यभिचारात्सपूर्वस्येति किमर्थमिति प्रस्नः । गवां पतिः स्त्रीति । स्वामिनी, रक्षित्री वेत्यर्थः । असमस्तत्वाद्गवामित्यस्य न पूर्वावयवत्वमिति भावः । यद्यपियत्र सङ्घाते पूर्वो भागः पदं तत्र चेत्प्रातिपदिकसंज्ञा भवति तर्हि समासस्यैवे॑ति नियमेन गवां पतिरिति समुदायस्य पत्यन्तत्वेऽपि प्रातिपदिकत्वाऽभावादेवात्र नत्वविकल्पो न भवति तथापि गवां पतिरित्यत्र पतिशब्दस्यैव व्यपदेशिवत्त्वेन तदन्ततया नत्वविकल्पप्राप्तौ तन्निवृत्त्यर्थं सपूर्वस्येति वचनमिति भावः । वस्तुतस्तुव्यपदेशिवद्भावोऽप्रातिपदिकेने॑ति निषेधादिह केवलपतिशब्दस्य पतिशब्दान्तत्वाऽभावादेव नत्वविकल्पनिवृत्तिसिद्धेः सपूर्वस्येति स्पष्टार्थमित्याहुः ।

Tattvabodhini

विभाषा सपूर्वस्य - विभाषा सपूर्वस्य । अप्राप्तविभाषेयम्, अयज्ञसंयोगत्वात् । पूर्वेण सहितः सपूर्वस्तस्य । यस्य समुदायस्य पूर्वावयवो विद्यते तस्येत्यर्थः । स च समुदायः पतिशब्दो नभवतीति पतिशब्देन तदन्तविधिरित्याह -पतिशब्दान्तस्येति । ननुपत्यु॑रिति प्रातिपदिकविशेषणेन तदन्तलाभात्पत्यन्तस्येत्येवास्तु किमनेन सपूर्वग्रहणेन । अत्राहुः — केवलपतिशब्दस्यापि व्यपदेशिवद्भावेन पत्यन्तत्वादतिप्रसङ्गः स्यात्तद्वारणाय सपूर्वग्रहणमिति । अत्र पूर्वशब्दः पूर्वावयवपर इथि ध्वनयन्प्रत्युदाहरति -गवां पतिः स्त्रीति । पातीति पतिरिति क्रियाशब्दस्य त्रिलिङ्गत्वादिह स्त्रीत्वम् । तथा च तैत्तिरीयैर्नपुंसकेऽपि प्रयुज्यते -॒अन्नं साम्राज्यानामधिपति तन्मावतु॑इति । व्यस्ते कथमिति । प्राचा तु समस्तेऽप्युपचार इत्युक्तं तद्वृथैवेति भावः ।

Padamanjari

सहशब्दोऽयमस्ति तुल्ययोगे, यथा - सशिष्यो गुरुरागत इति; अस्ति च विद्यमानवचनः, यथा -‘सहैव दशभिः पुत्रैर्भारं वहति गर्दभी’ इति, इत्थम्भूतलक्षणे तृतीया, विद्यमानेष्वेव पुत्रेष्वित्यर्थः । पूर्वशब्दोऽप्यस्ति व्यवस्थावचनः - पूर्वं मधुरायाः पाटलिपुत्रमिति; अस्ति चावयवशब्दः - पूर्वं कायस्येति । तत्र तुल्ययोगे सहशब्दः, पूर्वशब्दश्च व्यवस्थायामिति पक्षे ग्रामस्य पतिरियमिति वाक्ये प्राप्नोति, पूर्वस्य चापि प्राप्नोति, विद्यमानवचनसहशब्दः पूर्वशब्दश्च व्यवस्थावचन इति पक्षे पूर्वस्य मा भूत्, वाक्ये तु स्यादेव । अपयववचनः पूर्वशब्दः तुल्ययोगे सहशब्द इति पक्षे वाक्येऽपि स्यात्, तत्रापि पतिशब्दस्य पूर्वोऽवयवः पकारस्तस्यापि स्यात्, तस्माद्विद्यमानवचनः सहशब्दः पूर्वशब्दश्चावयववचन इति पक्ष आश्रीयते ।’तेन सह’ इत्यत्र’तुल्योगे’ इति विशेषणस्य प्रायिकत्वात्समासः । एवं च स्थिते’सपूर्वस्य’ इति पतिशब्दविशेषणं नोपपद्यते, कथम् ? पकारेण सपूर्वत्वमव्यभिचारादविशेषणम् । शब्दान्तरं तु पतिशब्दस्यावयवो न सम्भवति, ततश्च सामर्थ्यात् प्रातिपदिकं पतिशब्देन विशेष्यते, न तु तेन । पतिशब्द इति । पतिशब्देन तदन्तस्य ग्रहणम्, अनुपसर्जनग्रहणेनापि तदन्तं प्रातिपदिकमेव विशेष्यते, न विशेषणभूतः पतिशब्दः, अन्यथा बहुंड्व्रीहौ न स्यात् - जीवः पतिरस्याः जीवपतिर्जीवपत्नीति । षष्ठी समास एव तु स्याद् - आशापतिः, आशापत्नीति । तदेतत् सर्वमालोच्याह - पतिशब्दान्तस्य सपूर्वस्यानुपसर्जनस्येति । ग्रामस्य पतिरियमिति । असति सपूर्वग्रहणे तदन्तविधेरभावादत्रैव स्यात् । अथाप्यमहत्पूर्वेति ज्ञापकातदन्तेऽपि भवेत् केवलस्यापि स्यादेव । तस्मात्’सपूर्वस्य’ इति वक्तव्यम् ॥

Nyaas

पतिशब्दान्तस्य`इत्यादि। एतेन पतिशब्दस्य ग्रहणम्, सपूर्वग्रहणम्, अनुपसर्जनग्रहणञ्च - त्रयमप्येतत् प्रातिपदिकस्य विशेषणमिति दर्शयति। सहशब्दोऽयमस्त्येव तुल्ययोगे - सशिष्यो गुरुरागत इति, गुरोः शिष्यस्य चागमनेन तुल्ययोगः प्रतीयते; अस्ति च सत्तावचनः, यथा - सहैव दशभिः पुत्रैर्भारं वहति गर्दभी इति, विद्यमनैरेवेत्यर्थः। तदिह सत्तावचनो गृह्रते, सपूर्वस्य विद्यमानपूर्वस्येत्वर्थः। यदि हि तुल्ययोगे वर्तमानो गृह्रते, ततोऽयमर्थः स्यात् - सहपूर्वेण पतिशब्दान्तस्य नकारो भवतीति। ततश्च पतिशब्दात् पूर्वस्यापि वृद्धादिशब्दस्य नकारः स्यात्। एवं हि तुल्ययोगो भवति यदि नकार उभयोरपि भवति। पूर्वशब्दोऽयमस्त्येव व्यवस्थाशब्दः, यथा -पूर्वं मथुरायाः पाटलिपुत्रमिति; अस्त्यवयववचनः, यथा - पूर्वं कायस्येति। तदिहावयववचनो गृह्रते। सह विद्यमानः पूर्वोऽवयवो यस्य तत् सपूर्वमित्युच्यते। यदि व्यवस्थाशब्दो गृह्रेत, तत्रायमर्थः स्यात् - विद्यमानः पूर्वो यस्मात् तस्य पतिशब्दान्तस्य नकारो भवतीति। ततस्च दृढपत्नीत्यत्र न स्यात्, न हि पतिशब्दान्तादिहकश्चित् पूर्वोऽस्तीति। अथ पतिशब्दस्यैव सपूर्वत्वमनुपसर्जनत्वञ्च विशेषणं कस्मान्न विज्ञायते? अशक्यत्वात्। स ह्रवयववचनं वा पूर्वशब्दं गृहीत्वा विशिष्येत, व्यवस्थाशब्दं वा। तत्र पूर्वस्तावदयुक्तः कल्पः अव्यभिचारात्, असम्भवाच्च। कथम्? यदि पकारं पूर्वमभिप्रेत्य विद्यमानः पूर्वोऽवयवो यस्येति विशिष्येत, ततोऽव्यभिचारादयुक्तं विशेषणम्। न हि पकारेण यस्य पूर्वत्वं तत्पतिशब्दो व्यभिचरति। अथ शब्दान्तरम्? तदसम्भवादयुक्तं विशेषणम्। न हि शब्दान्तरं पतिशब्दस्यावयव उपपद्यते। व्यवस्थाशब्दपक्षे तु विद्यमानः पूर्वो यस्मात् तदिति विशिष्यते। युज्यते च विशेष्यविशेषणभावः। किन्तु वाक्येऽपि नकारः प्राप्नोति - ग्रामस्य पतिरियं ब्राआहृणीति; अस्ति ह्यत्र पतिशब्दात् पूर्वो ग्रामशब्द-। अनुपसर्जनग्रहणेनापि पतिशब्दे विशिष्यमाने बहुव्रीहौ विकल्पो न प्राप्नोति - दृढः पतिरस्या दृढपतिः, दृढपत्नीति। न ह्यत्रानुपसर्जनं पतिशब्दः, सर्वोपसर्जनत्वाद्बहुव्रीहेरिति बहुव्रीह्रवयवानामप्युपसर्जनत्वात्। तस्मात् प्रातिपदिकस्यैव विशेषणं युक्तम्।पतिरियं ब्राआहृणी ग्रामस्य इति। ननु च व्यपदेशिवद्भावादिदमपि सपूर्वमिति शक्यते व्यपदेष्टुम्। न च व्यपदेशिवद्भावोऽप्रतिपदिकेन (शाक्।प।65) इति व्यपदेशिवद्भावाभावः; प्रातिपदिकत्वात्। यद्येवम्, पतिशब्दान्ततापि नास्तीति, अतो द्व्यङ्गविकलता? नैतदस्ति; सपूर्वग्रहणे हि क्रियमाणे पतिशब्दान्तस्येत्येषोऽर्थो लभ्यते। अक्रियमाणे तु तस्मिन् शब्दस्यैव शुद्धस्य नकारो विज्ञायते॥

Praudhamanorama

व्यस्ते कथमिति चेदिति। यत्तु प्राचा समस्तेऽप्युपचार इति वर्णितं, तन्मुधेति भावः। न त्विति। अन्यथा— वृषाकपिशब्दो ‘लघावन्ते द्वयोश्च बह्वषो गुरुः’ इति मध्योदात्त उदात्तत्वं प्रयोजयति। अग्न्यादिषु त्रिषु ‘स्थानेऽन्तरतम’ इत्येव सिद्धमिति प्राचां ग्रन्था विरुध्येरन्निति भावः। उदात्तैकार इति। मनुशब्दो ह्याद्युदात्तः ‘शॄस्वृस्निहि’ इत्यादौ मनेरुप्रत्ययविधायके सूत्रे ‘धान्ये नित्’ इत्यधिकारात्। समासनिर्देशेनैतद्दर्शयति— उदात्त इत्यनुवर्तमानं सम्बन्धानुवृत्तेरैकारेणैव सम्बध्यते न त्वौकरेणापीति। ततश्च यदुक्तं प्राचा ऐकारौकारावुदात्तौ स्त इति, तदुपेक्ष्यं वृत्तिपदमञ्जर्यादिविरोधादिति भावः। मनायीति। मध्योदात्तम्। इतरद्द्वयमाद्युदात्तम्। एता- कर्बुरा।

Prakriyasarvasvam

पूर्वपदयुक्तस्य पत्युर्नो वा स्यात् । महीपतिः महीपत्नी । वशीकृतपतिः वशीकृतपत्नीति बहुव्रीहावपि ।

Sutra Prayogas

  • राम-पतिः (भट्टिकाव्यम्): विभाषा सपूर्वस्य इति नकाराभावपक्षे रूपम्।