41034: विभाषा सपूर्वस्य ======================= **Padacheda:** विभाषा | S | 1 | 1 | स-पूर्वस्य | S | 6 | 1 | Sutrartha --------- **'पति' इति शब्दः यस्य समस्तपदस्य उत्तरपदरूपेण प्रयुज्यते; तस्मात् स्त्रीत्वं द्योतयितुम् विकल्पेन नकारादेशः भवति** "पति" इति शब्दः यस्य समस्तपदस्य उत्तरपदरूपेण प्रयुज्यते; तस्मात् स्त्रीत्वं द्योतयितुम् विकल्पेन **न्** इति आदेशः विधीयते । एतादृशे आदेशे कृते नकारान्तप्रातिपदिकं सिद्ध्यति; अतः तस्मात् **ऋन्नेभ्यो ङीप्** (4.1.5) इत्यनेन ङीप्-प्रत्ययः विधीयते । नकारादेशस्य अभावे ङीप्-प्रत्ययः अपि न सम्भवति; अतः मूलशब्दः एव स्त्रीलिङ्गे अपि प्रयुज्यते । "पतिः" इति शब्दस्य "भर्ता" (husband) इति यथा अर्थः विद्यते; तथैव "नेता" इति अर्थः अपि अस्ति । उभयोः अपि अर्थयोः प्रकृतसूत्रस्य प्रयोगः अवश्यं भवति । यथा — 1. "ग्रामस्य पतिः स्त्री" (leader of the village) इत्यत्र "ग्राम + पति" इति समासे जाते स्त्रीत्वं द्योतयितुम् विकल्पेन नकारादेशे कृते; "ग्रामपत्न्" इति सिद्धे ततः **ऋन्नेभ्यो ङीप्** (4.1.5) इत्यनेन ङीप्-प्रत्ययः विधीयते; येन "ग्रामपत्नी" इति शब्दः सिद्ध्यति । पक्षे "ग्रामपतिः" इति शब्दः अपि प्रयुुज्यते । अतएव, "इयं ब्राह्मणी ग्रामपत्नी", तथा च "इयं ब्राह्मणी ग्रामपतिः" इति उभयथा प्रयोगः साधुत्वं प्राप्नोति । 2. "वृद्धस्य पत्नी" इत्यत्र "वृद्ध + पति" इति समासे जाते स्त्रीत्वं द्योतयितुम् "पति"-शब्दस्य विकल्पेन नकारादेशे कृते; "वृद्धपत्न्" इति सिद्धे ततः **ऋन्नेभ्यो ङीप्** (4.1.5) इत्यनेन ङीप्-प्रत्ययः विधीयते; येन "वृद्धपत्नी" इति शब्दः सिद्ध्यति । पक्षे "वृद्धपतिः" इति शब्दः अपि प्रयुुज्यते । अतएव, "इयं ब्राह्मणी वृद्धपत्नी", तथा च "इयं ब्राह्मणी वृद्धपतिः" इति उभयथा प्रयोगः साधुत्वं प्राप्नोति । **बहुव्रीहिसमास्य विषये अपि अस्य सूत्रस्य प्रयोगः** प्रकतसूत्रम् **अनुपसर्जनात्** (4.1.14) अस्मिन् अधिकारे वर्तते । अतः "स्थूलः पतिः अस्याः सा" एतादृशस्य बहुव्रीहिसमासस्य विषये अस्य सूत्रस्य प्रयोगः वस्तुतः न भवेत् । परन्तु अत्र **अनुपसर्जनात्** (4.1.14) इति सूत्रम् "पति"-शब्देन सह नैव अन्वेति, अपितु **पत्यन्तशब्देन सह अन्वेति** । इत्युक्ते, पत्यन्तशब्दः (यथा, स्थूलपतिः, दीनपतिः इत्यादिः) स्वयं बहुव्रीहिसमासस्य उत्तरपदरूपेण नैव विधीयते चेत् प्रकृतसूत्रस्य प्रयोगः अवश्यं कर्तुं शक्यते; तत्र "पति"शब्दः स्वयं बहुव्रीहिसमासे भागं गृह्णाति चेदपि न दोषः — इति आशयः वर्तते । अतएव, "स्थूलः पतिः यस्याः सा" इत्यत्र प्रकृतसूत्रेण विकल्पेन नकारादेशे; तत्सन्नियोगेन च ङीप्-प्रत्यये कृते "स्थूलपत्नी", तदभावपक्षे च "स्थूलपति" इति उभयथा प्रयोगः सिद्ध्यति । एवमेव, "दृढः पतिः यस्याः सा = दृढःपतिः, दृढपत्नी" इति उभयथा प्रयोगः सिद्ध्यति। । **अप्राप्तविभाषा इयम्** प्रकृतसूत्रेण उक्ता विभाषा **अप्राप्तविभाषा** अस्ति इति अत्र काशिकाकारः निर्दिशति । प्रकृतसूत्रेण उक्तः नकारादेशः **पत्युर्नो यज्ञसंयोगे** (4.1.33) इति पूर्वसूत्रेण नैव उच्यते यतः पूर्वसूत्रे "यज्ञसंयोगः" इति विशिष्टः अर्थः वर्तते । समस्तपदे विद्यमानः पतिशब्दः न हि यज्ञसंयोगविशिष्टम् अर्थम् अपेक्षते उत गृह्णाति । अतः अत्र पूर्वम् अप्राप्तः विधिः विकल्प्यते — इति स्वीकृत्य अप्राप्तविभाषा स्वीक्रियते । **दलकृत्यम्** **सपूर्वस्य इति किमर्थम् ?** यत्र पति-शब्दः समासे न विद्यते (पृथक् रूपेण विद्यते) तत्र प्रकृतसूत्रस्य प्रसक्तिः नास्ति । तत्र **पत्युर्नो यज्ञसंयोगे** (4.1.33) इति पूर्वसूत्रेण यज्ञसंयोगस्य विषये (= wife इत्यस्मिन् अर्थे) एव नकारादेशे कृते "पत्नी" इति शब्दः सिद्ध्यति । अन्येषु अर्थेषु (यथा, नेता, पालकः इत्यस्मिन् अर्थे) तु स्त्रीत्वे अपि "पति" इत्येव शब्दः प्रयुज्यते । **बाध्यबाधकभावः** प्रकृतसूत्रेण प्राप्तं वैकल्पिक-नकारादेशं बाधित्वा केषुचन स्थलेषु नित्यं नकारादेशः भवति । एतानि प्रातिपदिकानि **नित्यं सपत्न्यादिषु** (4.1.35) इति अग्रिमसूत्रे परिगणितानि सन्ति । Vasu English Summary -------------------- In forming the feminine with the affix ङीप् , न् is optionally the substitute of the final इ of पति when the latter is preceded by another vowel. Vasu English Translation ------------------------ In forming the feminine with the affix ङीप् , न् is optionally the substitute of the final इ of पति when the latter is preceded by another vowel. The word सपूर्वस्य means when the word पति is not an *upasarjana*, but stands at the end of a compound. Thus वृद्धपतिः or वृद्धपत्नी; स्थूलपतिः or स्थूलपत्नी ॥ This is an example of *aprapta*-*vibhasha*. Because it is free from the limitations of '*yajna*-*sanyoga*' of the last *sutra*. Why do we say when it is preceded by another word? Observe पतिरियं ब्राह्मणी ग्रामस्य, this *Brahman* lady is the mistress of the village.' Here the feminine is पति and not पत्नी ॥ Bhashya ------- विभाषा सपूर्वस्य (1301) (विकल्पाधिकरणम्) (5157 पूर्वपक्षवार्तिकम्॥ 1 ॥) - पत्युः सपूर्वादुपसर्जनसमास उपसंख्यानम् - (भाष्यम्) पत्युः सपूर्वादुपसर्जनसमास उपसंख्यानं कर्तव्यम् -वृद्धपतिः,वृद्धपत्नी, स्थूलपतिः, स्थूलपत्नी। वचनाद्भविष्यति॥ अस्ति वचने प्रयोजनम्। किम्? आशापतिः, आशापत्नी॥ (5158 सिद्धान्तवार्तिकम्॥ 2 ॥) - सिद्धं तु पत्युः प्रातिपदिकविशेषणत्वात् - (भाष्यम्) सिद्धमेतत्॥ कथम्? पत्युः प्रातिपदिकविशेषणत्वात्। नैवं विज्ञायते। अस्त्यस्मात्पतिशब्दात्पूर्वः सोऽयं सपूर्वः, सपूर्वात्पतिशब्दादनुपसर्जनादिति॥ कथं तर्हि? अस्त्यस्मिन् प्रातिपदिके पूर्वं तदिदं सपूर्वम्, सपूर्वात्प्रातिपदिकात्पत्यन्तादनुपसर्जनादिति॥ Kashika ------- पत्युर्न इति वर्तते। पतिशब्दान्तस्य प्रातिपदिकस्य सपूर्वस्यानुपसर्जनस्य स्त्रियां विभाषा नकारादेशो भवति, ङीप् तु लभ्यत एव। वृद्धपत्नी, वृद्धपतिः। स्थूलपत्नी, स्थूलपतिः। अप्राप्तविभाषेयमयज्ञसंयोगत्वात्। सपूर्वस्येति किम्? पतिरियं ब्राह्मणी ग्रामस्य॥ Siddhanta Kaumudi ----------------- पतिशब्दान्तस्य सपूर्वस्य प्रातिपदिकस्य नो वा स्यात् । गृहस्य पतिः गृहपतिः । गृहपत्नी । अनुपसर्जनस्येतीहोत्तरार्थमनुवृत्तमपि न पत्युर्विशेषणं किन्तु तदन्तस्य । तेन बहुव्रीहावपि । दृढपत्नी । दृढपतिः । वृषलपत्नी । वृषलपतिः । अथ वृषलस्य पत्नीति व्यस्ते कथमिति चेत् । पत्नीव पत्नीत्युपचारात् । यद्वा । आचारक्विबन्तात्कर्तरि क्विप् । अस्मिंश्च पक्षे । पत्नियौ । पत्नियः । इतीयङ्विषये विशेषः । सपूर्वस्य किम् ? गवां पतिः स्त्री ॥ Balamanorama ------------ **विभाषा सपूर्वस्य** - विभाषा सपूर्वस्य । 'पत्युर्न' इत्यनुवर्तते । प्रातिपदिकादित्यनुवृत्तं षष्टआ विपरिणतं पत्युरित्यनेन विशेष्यते, तदन्तविधिः । सपूर्वस्येत्येतत्पतिशब्दान्तप्रातिपदिकेऽन्वेति । पूर्वावयवसहितस्येत्यर्थः । तदाह — पतिशब्दान्तस्येत्यादिना । यज्ञसंयोगाऽभावेऽपि अप्राप्तविभाषेयम् । गृहपतिः गृहपत्नीति । नत्वपक्षे 'ऋन्नेभ्य' इति ङीप् । अत्र गृहपतिशब्दः पतिशब्दान्तो गृहशब्दात्मकपूर्वावयवसहितश्चेति भावः । नचग्रहणवता प्रातिपदिकेने॑ति निषेधः शङ्क्यः,शूद्रा चामहत्पूर्वा॑ इति लिङ्गेन तस्य स्त्रियामित्यधिकारेऽप्रवृत्तेरुक्तत्वात् । ननु दृढः पतिर्यस्या इति बहुव्रीहौ दृढपतिः दृढपत्नीति नत्वविकल्प इष्यते, स तु न संभवति, अनुपसर्जना॑दित्यधिकारात्, पतिशब्दस्यात्रोपसर्जनत्वात् । नच अनुपसर्जनादिति नात्र संबध्यते इति वाच्यम्, उत्तरत्रानुवृत्तये इहापि तदनुवृत्तेरावश्यकत्वादित्यत आह — अनुपसर्जनस्येत्यादि । किं तु तदन्तस्येति । सपूर्वस्येति पत्यन्तस्य श्चुतत्वेन तद्विशेषणताया एव न्याय्यत्वात् । अवान्तरवाक्यार्थबोधोत्तरमेव अनुपसर्जनत्वविशेषणप्रवृत्त्या तत्काले सपूर्वस्य श्रुतत्वेन तेनैव संबन्धे जाते सति पश्चात्पतिशब्देऽपि पुनव्र्यापारे मानाऽभावादिति भावः । तेनेति । अनुपसर्जनत्वस्य पत्यन्तविशेषणत्वेनेत्यर्थः । यज्ञसंयोगग्रहणमनुवर्त्त्य प्राप्तविभाषो कुतो न स्यादित्यत आह — वृषलपत्नीति । पाति रक्षतीति पतिः, वृषलस्य पतिः स्त्री इति विग्रहः । अपशूद्राधिकरणे शूद्राणां यज्ञाधिकारनिराकरणादिह यज्ञसंयोगाऽभावादप्राप्तमेव नत्वं विभाष्यत इति भावः । आक्षिपति — अथेति । आक्षेपारम्भद्योतकोऽथशब्दः, प्रश्नद्योतको वा ।मह्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अत॑ इत्यमरः । व्यस्ते इति । विग्रहवाक्ये इत्यर्थः । ततश्च सपूर्वत्वाऽडभावान्न प्रकृतसूत्रेण नत्वविकल्पः । यज्ञसंयोगाऽभावाच्च न पूर्वसूत्रेण, अकतो वूषलस्य पत्नीत्यनुपपन्नमित्याक्षेपः । इति चेन्नेति । इत्याक्षिपसि चेन्नैतद्युक्तमित्यर्थः । पत्नीवेति । यज्ञसंयुक्तायां द्विजभार्यायां यः पत्नीशब्दो व्युत्पादितस्तस्यैव शूद्रस्त्रियामपि अयज्ञसंयुक्तायां पाणिग्रहणादिधर्मपुरस्कारेण गौण्या वृत्त्या प्रयोगः । यथा गङ्गायामिति स्त्रीलिङ्गस्य तीरे प्रयोगः । उक्तं च भाष्ये-॒तुषजकस्य पत्नीत्युपमानात्सिद्ध॑मिति । यद्वेति । प्रौढिवादमात्रमिदम्, स्त्रियामाचारक्विबन्तप्रकृतिकक्विबन्तशब्दां न सन्तीतिअनुपसर्जना॑दित्यत्रोक्तात्वेता । सपूर्वस्येति किमिति । प्रातिपदिकविशेषणतया पतिशब्दस्य तदन्तलाभे सति पतिशब्दान्तस्य सपूर्वत्वाऽव्यभिचारात्सपूर्वस्येति किमर्थमिति प्रस्नः । गवां पतिः स्त्रीति । स्वामिनी, रक्षित्री वेत्यर्थः । असमस्तत्वाद्गवामित्यस्य न पूर्वावयवत्वमिति भावः । यद्यपियत्र सङ्घाते पूर्वो भागः पदं तत्र चेत्प्रातिपदिकसंज्ञा भवति तर्हि समासस्यैवे॑ति नियमेन गवां पतिरिति समुदायस्य पत्यन्तत्वेऽपि प्रातिपदिकत्वाऽभावादेवात्र नत्वविकल्पो न भवति तथापि गवां पतिरित्यत्र पतिशब्दस्यैव व्यपदेशिवत्त्वेन तदन्ततया नत्वविकल्पप्राप्तौ तन्निवृत्त्यर्थं सपूर्वस्येति वचनमिति भावः । वस्तुतस्तुव्यपदेशिवद्भावोऽप्रातिपदिकेने॑ति निषेधादिह केवलपतिशब्दस्य पतिशब्दान्तत्वाऽभावादेव नत्वविकल्पनिवृत्तिसिद्धेः सपूर्वस्येति स्पष्टार्थमित्याहुः । Tattvabodhini ------------- **विभाषा सपूर्वस्य** - विभाषा सपूर्वस्य । अप्राप्तविभाषेयम्, अयज्ञसंयोगत्वात् । पूर्वेण सहितः सपूर्वस्तस्य । यस्य समुदायस्य पूर्वावयवो विद्यते तस्येत्यर्थः । स च समुदायः पतिशब्दो नभवतीति पतिशब्देन तदन्तविधिरित्याह -पतिशब्दान्तस्येति । ननुपत्यु॑रिति प्रातिपदिकविशेषणेन तदन्तलाभात्पत्यन्तस्येत्येवास्तु किमनेन सपूर्वग्रहणेन । अत्राहुः — केवलपतिशब्दस्यापि व्यपदेशिवद्भावेन पत्यन्तत्वादतिप्रसङ्गः स्यात्तद्वारणाय सपूर्वग्रहणमिति । अत्र पूर्वशब्दः पूर्वावयवपर इथि ध्वनयन्प्रत्युदाहरति -गवां पतिः स्त्रीति । पातीति पतिरिति क्रियाशब्दस्य त्रिलिङ्गत्वादिह स्त्रीत्वम् । तथा च तैत्तिरीयैर्नपुंसकेऽपि प्रयुज्यते -॒अन्नं साम्राज्यानामधिपति तन्मावतु॑इति । व्यस्ते कथमिति । प्राचा तु समस्तेऽप्युपचार इत्युक्तं तद्वृथैवेति भावः । Padamanjari ----------- सहशब्दोऽयमस्ति तुल्ययोगे, यथा - सशिष्यो गुरुरागत इति; अस्ति च विद्यमानवचनः, यथा -'सहैव दशभिः पुत्रैर्भारं वहति गर्दभी' इति, इत्थम्भूतलक्षणे तृतीया, विद्यमानेष्वेव पुत्रेष्वित्यर्थः । पूर्वशब्दोऽप्यस्ति व्यवस्थावचनः - पूर्वं मधुरायाः पाटलिपुत्रमिति; अस्ति चावयवशब्दः - पूर्वं कायस्येति । तत्र तुल्ययोगे सहशब्दः, पूर्वशब्दश्च व्यवस्थायामिति पक्षे ग्रामस्य पतिरियमिति वाक्ये प्राप्नोति, पूर्वस्य चापि प्राप्नोति, विद्यमानवचनसहशब्दः पूर्वशब्दश्च व्यवस्थावचन इति पक्षे पूर्वस्य मा भूत्, वाक्ये तु स्यादेव । अपयववचनः पूर्वशब्दः तुल्ययोगे सहशब्द इति पक्षे वाक्येऽपि स्यात्, तत्रापि पतिशब्दस्य पूर्वोऽवयवः पकारस्तस्यापि स्यात्, तस्माद्विद्यमानवचनः सहशब्दः पूर्वशब्दश्चावयववचन इति पक्ष आश्रीयते ।'तेन सह' इत्यत्र'तुल्योगे' इति विशेषणस्य प्रायिकत्वात्समासः । एवं च स्थिते'सपूर्वस्य' इति पतिशब्दविशेषणं नोपपद्यते, कथम् ? पकारेण सपूर्वत्वमव्यभिचारादविशेषणम् । शब्दान्तरं तु पतिशब्दस्यावयवो न सम्भवति, ततश्च सामर्थ्यात् प्रातिपदिकं पतिशब्देन विशेष्यते, न तु तेन । पतिशब्द इति । पतिशब्देन तदन्तस्य ग्रहणम्, अनुपसर्जनग्रहणेनापि तदन्तं प्रातिपदिकमेव विशेष्यते, न विशेषणभूतः पतिशब्दः, अन्यथा बहुंड्व्रीहौ न स्यात् - जीवः पतिरस्याः जीवपतिर्जीवपत्नीति । षष्ठी समास एव तु स्याद् - आशापतिः, आशापत्नीति । तदेतत् सर्वमालोच्याह - पतिशब्दान्तस्य सपूर्वस्यानुपसर्जनस्येति । ग्रामस्य पतिरियमिति । असति सपूर्वग्रहणे तदन्तविधेरभावादत्रैव स्यात् । अथाप्यमहत्पूर्वेति ज्ञापकातदन्तेऽपि भवेत् केवलस्यापि स्यादेव । तस्मात्'सपूर्वस्य' इति वक्तव्यम् ॥ Nyaas ----- `पतिशब्दान्तस्य`इत्यादि। एतेन पतिशब्दस्य ग्रहणम्, सपूर्वग्रहणम्, अनुपसर्जनग्रहणञ्च - त्रयमप्येतत् प्रातिपदिकस्य विशेषणमिति दर्शयति। सहशब्दोऽयमस्त्येव तुल्ययोगे - सशिष्यो गुरुरागत इति, गुरोः शिष्यस्य चागमनेन तुल्ययोगः प्रतीयते; अस्ति च सत्तावचनः, यथा - सहैव दशभिः पुत्रैर्भारं वहति गर्दभी` इति, विद्यमनैरेवेत्यर्थः। तदिह सत्तावचनो गृह्रते, सपूर्वस्य विद्यमानपूर्वस्येत्वर्थः। यदि हि तुल्ययोगे वर्तमानो गृह्रते, ततोऽयमर्थः स्यात् - सहपूर्वेण पतिशब्दान्तस्य नकारो भवतीति। ततश्च पतिशब्दात् पूर्वस्यापि वृद्धादिशब्दस्य नकारः स्यात्। एवं हि तुल्ययोगो भवति यदि नकार उभयोरपि भवति। पूर्वशब्दोऽयमस्त्येव व्यवस्थाशब्दः, यथा -पूर्वं मथुरायाः पाटलिपुत्रमिति; अस्त्यवयववचनः, यथा - पूर्वं कायस्येति। तदिहावयववचनो गृह्रते। सह विद्यमानः पूर्वोऽवयवो यस्य तत् सपूर्वमित्युच्यते। यदि व्यवस्थाशब्दो गृह्रेत, तत्रायमर्थः स्यात् - विद्यमानः पूर्वो यस्मात् तस्य पतिशब्दान्तस्य नकारो भवतीति। ततस्च दृढपत्नीत्यत्र न स्यात्, न हि पतिशब्दान्तादिहकश्चित् पूर्वोऽस्तीति। अथ पतिशब्दस्यैव सपूर्वत्वमनुपसर्जनत्वञ्च विशेषणं कस्मान्न विज्ञायते? अशक्यत्वात्। स ह्रवयववचनं वा पूर्वशब्दं गृहीत्वा विशिष्येत, व्यवस्थाशब्दं वा। तत्र पूर्वस्तावदयुक्तः कल्पः अव्यभिचारात्, असम्भवाच्च। कथम्? यदि पकारं पूर्वमभिप्रेत्य विद्यमानः पूर्वोऽवयवो यस्येति विशिष्येत, ततोऽव्यभिचारादयुक्तं विशेषणम्। न हि पकारेण यस्य पूर्वत्वं तत्पतिशब्दो व्यभिचरति। अथ शब्दान्तरम्? तदसम्भवादयुक्तं विशेषणम्। न हि शब्दान्तरं पतिशब्दस्यावयव उपपद्यते। व्यवस्थाशब्दपक्षे तु विद्यमानः पूर्वो यस्मात् तदिति विशिष्यते। युज्यते च विशेष्यविशेषणभावः। किन्तु वाक्येऽपि नकारः प्राप्नोति - ग्रामस्य पतिरियं ब्राआहृणीति; अस्ति ह्यत्र पतिशब्दात् पूर्वो ग्रामशब्द-। अनुपसर्जनग्रहणेनापि पतिशब्दे विशिष्यमाने बहुव्रीहौ विकल्पो न प्राप्नोति - दृढः पतिरस्या दृढपतिः, दृढपत्नीति। न ह्यत्रानुपसर्जनं पतिशब्दः, सर्वोपसर्जनत्वाद्बहुव्रीहेरिति बहुव्रीह्रवयवानामप्युपसर्जनत्वात्। तस्मात् प्रातिपदिकस्यैव विशेषणं युक्तम्।`पतिरियं ब्राआहृणी ग्रामस्य` इति। ननु च व्यपदेशिवद्भावादिदमपि सपूर्वमिति शक्यते व्यपदेष्टुम्। न च `व्यपदेशिवद्भावोऽप्रतिपदिकेन` (शाक्।प।65) इति व्यपदेशिवद्भावाभावः; प्रातिपदिकत्वात्। यद्येवम्, पतिशब्दान्ततापि नास्तीति, अतो द्व्यङ्गविकलता? नैतदस्ति; सपूर्वग्रहणे हि क्रियमाणे पतिशब्दान्तस्येत्येषोऽर्थो लभ्यते। अक्रियमाणे तु तस्मिन् शब्दस्यैव शुद्धस्य नकारो विज्ञायते॥ Praudhamanorama --------------- **व्यस्ते कथमिति चेदिति।** यत्तु प्राचा समस्तेऽप्युपचार इति वर्णितं, तन्मुधेति भावः। **न त्विति।** अन्यथा— वृषाकपिशब्दो 'लघावन्ते द्वयोश्च बह्वषो गुरुः' इति मध्योदात्त उदात्तत्वं प्रयोजयति। अग्न्यादिषु त्रिषु 'स्थानेऽन्तरतम' इत्येव सिद्धमिति प्राचां ग्रन्था विरुध्येरन्निति भावः। **उदात्तैकार इति।** मनुशब्दो ह्याद्युदात्तः 'शॄस्वृस्निहि' इत्यादौ मनेरुप्रत्ययविधायके सूत्रे 'धान्ये नित्' इत्यधिकारात्। समासनिर्देशेनैतद्दर्शयति— उदात्त इत्यनुवर्तमानं सम्बन्धानुवृत्तेरैकारेणैव सम्बध्यते न त्वौकरेणापीति। ततश्च यदुक्तं प्राचा ऐकारौकारावुदात्तौ स्त इति, तदुपेक्ष्यं वृत्तिपदमञ्जर्यादिविरोधादिति भावः। **मनायीति।** मध्योदात्तम्। इतरद्द्वयमाद्युदात्तम्। एता- कर्बुरा। Prakriyasarvasvam ----------------- पूर्वपदयुक्तस्य पत्युर्नो वा स्यात् । महीपतिः महीपत्नी । वशीकृतपतिः वशीकृतपत्नीति बहुव्रीहावपि । Sutra Prayogas -------------- * **राम-पतिः** (भट्टिकाव्यम्): `विभाषा सपूर्वस्य` इति नकाराभावपक्षे रूपम्।