41033: पत्युर्नो यज्ञसंयोगे¶
Padacheda: पत्युः | S | 6 | 1 |
नः | S | 1 | 1 |
यज्ञ-संयोगे | S | 7 | 1 |
Sutrartha¶
‘पति’ शब्दात् स्त्रीत्वं द्योतयितुम् यज्ञसन्दर्भे नकारादेशः भवति ।
यज्ञस्य सन्दर्भः अस्ति चेत् “पति” इति शब्दात् स्त्रीत्वं द्योतयितुम् न् इति आदेशः प्रकृतसूत्रेण विधीयते । अलोऽन्त्यस्य (1.1.52) इत्यनेन अयम् आदेशः “पति”-शब्दस्य अन्तिमवर्णस्य स्थाने (इकारस्य स्थाने) भवति । एतादृशे आदेशे कृते “पत्न्” इति नकारान्तशब्दः सिद्ध्यति, यस्मात् ऋन्नेभ्यो ङीप् (4.1.5) इत्यनेन ङीप्-प्रत्यये कृते “पत्नी” इति शब्दः सिद्ध्यति ।
‘यज्ञसंयोगे’ इत्यस्य अर्थः
प्रकृतसूत्रे “यज्ञसंयोगे” इति निर्दिश्यते । अस्य शब्दस्य द्वेधा अर्थसङ्गतिः भवितुम् अर्हति —
सामान्यरूपेण यज्ञकर्मणि यजमानेन सह या तत्र उपविशति, यज्ञस्य फलस्य या अधिकारिणी अस्ति, तस्याः निर्देशार्थम् “पत्नी” शब्दः प्रयुज्यते ।
विवाहसमये यज्ञकुण्डं साक्षिरूपेण स्वीकृत्य यस्याः पाणिग्रहणं क्रियते, सा अपि “पत्नी” इति नाम्ना स्वीक्रियते । येषाम् (शूद्रादीनाम्) यज्ञकर्मणि अधिकारः न वर्तते, तेषां विषये अपि अस्य शब्दस्य प्रयोगं कर्तुम् अयम् अर्थः स्वीकर्तुं शक्यते ।
<note>इदानीन्तनकाले भाषायाम् “पत्नी” इति शब्दः lawfully wedded wife इत्यस्मिन् विस्तृते अर्थे प्रयुज्यते । यद्यपि तत्र यज्ञस्य साक्षात् सन्दर्भः नास्ति ; तथापि यज्ञः क्रियते चेत् तस्य फलस्य अधिकारिणी का — इति प्रश्ने कृते यद् तस्य उत्तरम्, तस्मिन्नेव सन्दर्भे एव वर्तमानकाले प्रयुक्तः “पत्नी”-शब्दः अपि प्रयुज्यते, अतः तत्र अवश्यम् “यज्ञसंयोगः” इति शब्दः चारितार्थ्यं प्राप्नोति ।</note>
‘यज्ञसंयोगे’ इत्यस्य प्रयोजनम्
भाषायाम् “ग्रामस्य पतिः”, “सेनायाः पतिः” इत्यादिषु वाक्येषु “पतिः” इति शब्दः “पालकः / प्रमुखः / नेता” इत्यस्मिन् अर्थे प्रयुज्यते । “पाति / रक्षति सः पतिः” इति अत्र अस्य शब्दस्य व्युत्पत्तिः दीयते । अत्र विवाहस्य (यज्ञस्य) सम्बन्धः नास्ति । अस्मिन् स्थले स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रस्य प्रयोगः न क्रियते — इति स्पष्टीकर्तुम् एव प्रकृतसूत्रे “यज्ञसंयोगः” इति शब्दः स्थापितः अस्ति । अत्र ग्रामस्य नेतृत्वं कुर्वाणायाः ब्राह्मण्याः निर्देशार्थम् न कोऽपि स्त्रीप्रत्ययः प्रयुज्यते इति अत्र आशयः । अतएव “इयं ब्राह्मणी ग्रामस्य पतिः” इति प्रयोगः साधुत्वं प्राप्नोति । अनेन प्रकारेण “पति”-शब्दः स्त्रीलिङ्गे अपि प्रयुज्यते इति अपि स्पष्टी भवति ।
Vasu English Summary¶
The substitute न् replaces the final इ of पति before the feminine affix ङीप् when the word so formed means ‘a wife’ who takes part in the sacrifices of her husband.
Vasu English Translation¶
The substitute न् replaces the final इ of पति before the feminine affix ङीप् when the word so formed means ‘a wife’ who takes part in the sacrifices of her husband. Thus पत्नि वाचं यच्छ ॥ The feminine पत्नी means legitimate wife, she who is entitled to take part in the sacrifices of her husband. The word यज्ञसंयोग is an Instrumental Tatpurusha compound and means “related through sacrifice” i. e who shares the fruits of and is entitled to participate in, the sacrifices of her husband. But when the sense is not that of ‘wife’, the feminine of पति will be पति as ग्रामस्य पतिरियं ब्राह्मणी ‘this Brahmani is the head or mistress of this village’. If the word पत्नी means ‘the wife who takes part in the sacrifices of her husband’, it cannot be applied to the wife of a Sudra, for a Sudra cannot perform a sacrifice, a fortiori not his wife? The term पत्नी is, however, extended to the wife of a Sudra also, by analogy, as the marriage of a Sudra also takes place by offering sacrifice to Fire and making it a witness.
Bhashya¶
पत्युर्नो यज्ञसंयोगे (1300) (नादेशाधिकरणम्) (आक्षेपभाष्यम्) यज्ञसंयोग इत्युच्यते, तत्रेदं न सिध्यति -ःइयमस्य पत्नी॥ क्व तर्हि स्यात्? पत्नीसंयाजाः इति यत्र यज्ञसंयोगः॥ (समाधानभाष्यम्) नैष दोषः। पतिशब्दोऽयमैश्वर्यवाची। सर्वेण च गृहस्थेन पञ्ञ्च महायज्ञा निर्र्वत्याः, यच्चादः सायंप्रातर्होमचरुपुरोडाशान्निर्वपति तस्यासावीष्टे॥ (अव्याप्तिवारकभाष्यम्) एवमपि तुषजकस्य पत्नी न सिध्यति। उपमानात्सिद्धम् -पत्नीव पत्नीति॥
Kashika¶
पतिशब्दस्य नकारादेशः स्त्रियां विधीयते, ङीप् प्रत्ययस्तु नकारान्तत्वादेव सिद्धः, यज्ञसंयोगे। यज्ञेन संयोगे यज्ञसंयोगः। तत्साधनत्वात् फलग्रहीतृत्वाद् वा यजमानस्य पत्नी। पत्नि वाचं यच्छ। यज्ञसंयोग इति किम्? ग्रामस्य पतिरियं ब्राह्मणी। कथं वृषलस्य पत्नी? उपमानाद् भविष्यति॥
Siddhanta Kaumudi¶
पतिशब्दस्य नकारादेशः स्याद्यज्ञेन सम्बन्धे । वसिष्ठस्य पत्नी । तत्कर्तृकयज्ञस्य फलभोक्त्रीत्यर्थः । दम्पत्योः सहाधिकारात् ॥
Balamanorama¶
पत्युर्नो यज्ञसंयोगे - पत्युर्नो । पत्युरिति षष्ठी । ‘न’ इत्यकार उच्चारणार्थः । स्त्रियामित्यधिकृतम् । तदाह — पतिशब्दस्येति । यज्ञेनेति । यज्ञसंबन्धः=यज्ञेन सह स्वामितया संबन्धः । यज्ञफलभोक्तृत्वमिति यावत् । तदाह — तत्कर्तृकस्येति । वसिष्ठकर्तृकस्येत्यर्थः । ननु वसिष्ठकर्तृकयज्ञस्य वसिष्ठ एव फलभोक्तृत्युचितं, नतु तत्स्त्र्यपि, ‘स्वर्गकामः’ इत्यादिपुंलिङ्गशब्दैः पुंस एवाधिकारावगमादित्यत आह — दम्पत्योः सहाधिकारादिति । एतच्च प्रकृतसूत्रे भाष्ये स्पष्टम् । अत एव पूर्वमीमांसायां षष्ठस्य प्रथमपादेलिङ्गविशेषणिर्देशात्पुंयुक्तमैतिशायनः॑ इत्यधिकरणेस्ववतोस्तु वचनादैककम्र्यं स्यात् इत्यधिकरणे च दम्पत्योः सहाधिकारः सिद्धान्तितः । प्रपञ्चितं चैतदस्माबिरध्वरमीमांसाकुतूहलवृत्तौ ।
Padamanjari¶
यद्यत्र यज्ञशब्देन पतिशब्दस्य सम्बन्धात् यज्ञसंयोग इत्यर्थः स्यात् ? यज्ञस्य पतिरियं ब्राह्मणीत्यत्रैव स्यात्, अस्ति ह्यत्रार्थद्वारकः सम्बन्धः, स्वरूपेण चानन्तर्यलक्षणः । अथ यज्ञवाचिना संयोगो यज्ञसंयोगः ? तथापि पत्नीसंयाज इत्यादावेव स्यात्, न त्वियमस्य पत्नीत्यादौ । तस्माद्यज्ञशब्दस्य योऽर्थस्तेन पतिशब्दार्थस्य सम्बन्धो यज्ञसंयोग इत्याह - यज्ञेन संयोग इति । अन्यथा’यज्ञशब्देन’ इत्यवक्ष्यत् । एवं च पतिशब्दार्थस्येत्यप्युक्तं भवति, न हि पतिशब्दस्य यज्ञेनार्थेन वाच्यवाचकभावः सम्बन्धान्तरं वा सम्भवति । तत्साधनत्वादिति । देवतोद्देशेन स्वद्रव्यत्यागः उयागः । मध्यकंचदम्पत्योर्धनम्,’कुटुअम्बिनौ धनस्येशाते जायापत्योर्न विभागो विद्यते’ इति हि स्मर्यते, ततश्च त्यागे भार्याया अप्यनुमतिरपेक्ष्यत इति तत्रास्या अनुमत्या साधनत्वम् । मदर्थं कर्मेत्येवंरूपोऽधिकारलक्षणसम्बन्धोऽस्तीत्याह - फलग्रहीतृत्वादिति । कर्तृत्वमात्रं विवक्षितम्, न स्त्रीत्वमिति ङीब्न कृतः ।’कर्तरि च’ इति समासप्रतिषेधः कर्मणि षष्ठ।ल एव, न शेषपष्ठ।ल इति तस्यानेनोपपन्नः समासः । फलगृहीतत्वादिति पाठे गृहीतं फलं ययेति बहुव्रीहौ फलशब्दस्य जातिवचनत्वाद् निष्ठायाः पूर्वनिपाते’जातिकालसुखादिभ्यः परवचनम्’ इति गृहीतशब्दस्य परनिपातः । कथमित्यादि । शूद्रस्यैव यज्ञेऽनधिकृतत्वाद्यज्ञेनासंयोगात्कथं तद्भार्याया यज्ञसंयोग इति प्रश्नः । उपमानादिति । अग्निसाक्षिकं यत्पाणिग्रहणं तद् वृषलादीनामप्यस्ति, तदाश्रयमुपमानम् ॥
Nyaas¶
यज्ञसंयोगे इति। यज्ञसम्बन्धे। कस्य पुनर्यज्ञेन संयोगः? पतिशब्दवाच्यार्थस्य। अथ पतिशब्दस्यैव कस्मान्न भवति? असम्भवात्। तयोर्हि वाच्यवाचकभावलक्षणः सम्बन्धः स्यात्, न केवलः पतिशब्दो यज्ञस्य वाचकः। कथं पुनर्यज्ञेन संयोग इत्याह - तत्साधनत्वात् इति। तस्य यज्ञस्य साधनं तत्साधनम्, तद्भावो यज्ञसाधनत्वम्। तस्माद्यज्ञेन संयोगो भवति। यजमानस्य या भार्या तस्या यागं प्रति साधनभावोऽस्तीति; विना तया तदनिष्पत्तेः। न हि भार्याविरहितस्त्रैर्णिकः केवलो यज्ञेऽधिक्रियते। तस्मात् स तया करणभूतया यज्ञं निष्पादयतीत्यस्ति तस्या यज्ञेन सह क्रियाकारकलक्षणः सम्बन्धः। तत्फलग्रहीतृत्वाद्वा इति। यज्ञसंयोगे द्वितीयो हेतुः। अनेन तु स्वस्वामिभावलक्षमः सम्बन्धः प्रतिपाद्यते। यज्ञस्य यत्प्रधानं फलं स्वर्गाख्यं तद्यजमानस्य पत्नी परिगृह्णाति। अतो यद्यपि यज्ञं प्रति तस्याः साधनत्वं न विवक्ष्यते, तथापि तत्फलस्य ग्रहणात्, यथा यजमानस्य यज्ञेन हस स्वस्वामिभावसम्बन्धः, तथा तत्पत्न्या अपि। अथ फलग्रहीतृत्वादिति कथमत्र षष्ठीसमासः? कथञ्च न स्यात्? कर्तरि च (2.2.16) इति तृचा सह षष्ठीसमासप्रतिषेधात्? नैवायं तृजन्तेन षष्ठीसमासः, किं तर्हि? द्वितीयेति योगविभागात् तृन्नन्तेन द्वितीयासमासः। अथ वा - याजकादिषु ग्रहीतृशब्दो द्रष्टव्यः, तेन षष्ठीसमासो भविष्यति। अथापि तत्र न पठते? एवमपि याजकादिभिश्च (2.2.9) इति चकारस्यानुक्तसमुचयार्थत्वाद्भविष्यति। ऋन्नेभ्यो ङीप् (4.1.5) इति ग्रहीतृशब्दादिह ङीप् न भवति, स्त्रीत्वस्याविवक्षितत्वात्। क्वचित् फलगृह्णीतत्वात् इति पाठः।तत्र फलगृहीतशब्दयोर्बहुव्रीहिः। फलशब्दस्य जातिवाचित्वान्निष्ठायाः पूर्वनिपाते प्राप्ते जातिकालसुखादिभ्यः परवचनम् (वा।116) इति गृहीतशब्दस्य परनिपातः।कथम् इत्यादि। एं मन्यते - शूद्रस्यैव तावद्यज्ञेऽनधिकृत्वाद्यज्ञेन संयोगो नास्ति, किं पुनस्तद्भार्यायाः? अतः `वृषलस्य पत्नी इत्येष प्रयोगो नोपपद्यते` इति। उपमानाद्भविष्यति इति। पत्नीवद्धि पत्नी। यथैव हि यजमानस्य पत्न्यग्निसाक्षिपूर्वकेण तत्पत्युः सम्बन्धिनी तत्कार्येषु चाधिकृता तथा वृषलस्य भार्याऽपि। तस्मात् पत्नीसमाधम्र्यात् साऽपि पत्नीत्युच्यते॥
Prakriyasarvasvam¶
यज्ञसंयोगे द्योत्ये स्त्रियां पत्युरन्त्यस्य नः स्यात् । नान्तत्वे ङीप् । पत्नी । अन्यत्र गवां पतिः स्त्री । वृषलस्य पत्नीत्युपमानात् ।
Sutra Prayogas¶
सत्पत्न्यो (कुमारसम्भवम्): पत्युर्नो यज्ञसंयोगे इति ङीप् नकारश्च।
पत्नीषु (भट्टिकाव्यम्): पत्युर्नो यज्ञसंयोगे इति नकारः ।