41029: नित्यं संज्ञाछन्दसोः

Padacheda: नित्यम् | S | 1 | 1 |

संज्ञा-छन्दसोः | S | 7 | 2 |

Sutrartha

यस्य बहुव्रीहिसमासस्य अन्ते ‘अन्’ इति विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्यये कृते यदि अन्-इत्यस्य अकारलोपः सम्भवति, तर्हि तस्मात् समस्तपदात् संज्ञानिर्देशे कर्तव्ये; वेदेषु वा ङीप्-प्रत्ययः नित्यं भवति ।

स्त्रियाम् (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति अन्यतमः प्रत्ययः अनेन सूत्रेण दीयते । यदि कस्यचित् बहुव्रीहिसमासस्य अन्ते “अन्” इति शब्दः विद्यते, तथा च तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्यये कृते यदि प्रक्रियायाम् “अन्”-इत्यस्य अकारस्य लोपः सम्भवति, तर्हि तत्र संज्ञायाः निर्देशः करणीयः अस्ति चेत्; अथवा वैदिकप्रयोगः साधनीयः अस्ति चेत् ङीप्-प्रत्ययः नित्यं भवति — इति अस्य सूत्रस्य अर्थः । अन उपधालोपिनोन्यतरस्याम् (4.1.28) इति सूत्रेण प्राप्तं वैकल्पिकं ङीप्-प्रत्ययं बाधित्वा प्रकृतसूत्रेण ङीप्-प्रत्ययस्य नित्यं विधानं भवति । प्रकृतसूत्रस्य प्रयोगः केवलं द्वयोः स्थलयोः एव भवति — (1) संज्ञायाः निर्देशार्थम्, (2) वैदिकप्रयोगसिद्ध्यर्थम् । यथा — <hlb>1. संज्ञानिर्देशे ङीप्‌ —</hlb> “सुराज्ञी” इति कस्याश्चन नगर्याः नाम । अस्य सिद्धिः एतादृशी —

शोभनाः राजानः यस्यां सा [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिसमासः]
→ सु + राजन् + ङीप् [**नित्यं संज्ञाछन्दसोः** (4.1.29) इति संज्ञानिर्देशार्थम् ङीप्]
→ सु + राज् न् + ई [**अल्लोपोऽनः** (6.4.134) इति अकारलोपः]
→ सु + राज् ञ् + ई [**स्तोः श्चुना श्चुः** (8.4.40) इति श्चुत्वम्]
→ सुराज्ञी

एवमेव, “अतिक्रान्ताः राजानः यस्यां नगर्यां सा = अतिराज्ञी” इति अन्या संज्ञा अपि सिद्ध्यति । संज्ञाभिन्नेषु स्थलेषु तु अन उपधालोपिनोन्यतरस्याम् (4.1.28) इति ङीप्-प्रत्ययः विकल्पेन भवति । ङीप्-प्रत्ययस्य अभावपक्षे डाबुभाभ्यामन्यतरस्याम् (4.1.13) इति डाप्-प्रत्ययः अपि विकल्पेनैव भवति, अतः “सुराज्ञी”, “सुराज्ञा”, “सुराजन्” इति त्रयः शब्दाः सिद्ध्यन्ति । <hlb>2. वैदिकप्रयोगसिद्ध्यर्थं ङीप्‌ —</hlb> “पञ्चमूर्ध्नी” इति कश्चन वैदिकप्रयोगः । अस्य सिद्धिः इयम् —

पञ्च मूर्धानः यस्याः सा  [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिसमासः]
→ पञ्चन् + मूर्धन् + ङीप् [**नित्यं संज्ञाछन्दसोः** (4.1.29) इति संज्ञानिर्देशार्थम् ङीप्]
→ पञ्चन् + मूर्ध् न् + ई [**अल्लोपोऽनः** (6.4.134) इति अकारलोपः]
→ पञ्च + मूर्ध् न् + ई [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारलोपः]
→ पञ्चमूर्ध्नी

एवमेव, “समानं मूर्धानः अस्याः सा = समानमूर्ध्नी” इति अन्यः वैदिकप्रयोगः अपि सिद्ध्यति । अवैदिकेषु संज्ञाभिन्नस्थलेषु तु अन उपधालोपिनोन्यतरस्याम् (4.1.28) इति ङीप्-प्रत्ययः विकल्पेन भवति । ङीप्-प्रत्ययस्य अभावपक्षे डाबुभाभ्यामन्यतरस्याम् (4.1.13) इति डाप्-प्रत्ययः अपि विकल्पेनैव भवति, अतः “पञ्चमूर्ध्नी”, “पञ्चमूर्धा”, “पञ्चमूर्धन्” इति त्रयः शब्दाः सिद्ध्यन्ति ।

Vasu English Summary

The affix ङीप् necessarily comes in the छन्दस् (Vedas) and in forming Names after that बहुव्रीहि समास which ending in the syllable अन् loses its penultimate अ।

Vasu English Translation

The affix ङीप् necessarily comes in the छन्दस् (Vedas) and in forming Names after that बहुव्रीहि समास which ending in the syllable अन् loses its penultimate अ। This is an exception to the last rule; for while that enjoined the optional, the present enjoins the compulsory application of the affix ङीप् ॥ Thus सुराज्ञी ‘the city called Surajni’; अतिराज्ञी ‘the city of Atirajni’. Similarly in the Chhandas we have गौः पञ्चदाम्नी, एकदाम्नी, द्विदाम्नी ‘a cow having five udders, one udder, or three udders’. एकमूर्ध्रा समानमूर्ध्री ॥

Kashika

अन्नन्ताद् बहुव्रीहेरुपधालोपिनः संज्ञायां विषये छन्दसि च नित्यं ङीप् प्रत्ययो भवति। विकल्पस्यापवादः। सुराज्ञी। अतिराज्ञी नाम ग्रामः। छन्दसि — गौः पञ्चदाम्नी। एकदाम्नी। द्विदाम्नी। एक॑मूर्ध्नी (शौ०सं० ८.९.१५)। स॑मा॒नमू॑र्ध्नी (तै०सं० ४.३.११.४)॥

Siddhanta Kaumudi

अन्नन्ताद्बहुव्रीहेरुपधालोपिनो ङीप् । सुराज्ञी नाम नगरी । अन्यत्र पूर्वेण विकल्प एव । वेदे तु शतमूर्ध्नी ॥

Tattvabodhini

नित्यं संज्ञाछन्दसोः - नित्यं सञ्ज्ञाछन्दसोः ।अन उपधालोपिनः॑इति विकल्पस्याऽपवादः । आरम्भसामर्थ्यात्सिद्धेऽपि नित्यत्वे नित्यग्रहणमुत्तरत्र विकल्पाननुवृत्तितसूचनाय कृतमित्याहुः । शतमूर्न्धीति । इहपञ्चदाम्नि॑ति क्वचित्पाठः, स चाऽयुक्तःदामहायनान्ताच्चे॑त्यनेनैव सिद्धत्वात् ।

Padamanjari

ननु च्छन्दसि दृष्टमेवानुविधीयते नापूर्वमुत्प्रेक्ष्यते; तत्र च ङीबेव चेद् दृश्यते तस्य च लक्षणमस्ति, क इदानीं तदभावं प्रयोक्तुअं प्रभवति, संज्ञाशब्दा अप्यनदिप्रयुक्ता नियतानुपूर्वीकास्तत्रापि ङबेव चायं दृश्यते न तदभावः शक्यते कर्तुम्, किमर्थमिदं सूत्रम् ? संज्ञाच्छन्दसोरिति पदमुतरार्थं वक्तव्यम् । नित्यग्रहणमुतरत्र विकल्पनिवृत्यर्थम् ॥

Nyaas

नित्यग्रहणं विस्पष्टार्थम्। पूर्वणैव हि विकल्पेन ङीप् सिद्धः, तदारम्भसामर्थ्यादेव ङीब्नित्यं भविष्यति, अन्यथा हीदं वचनमनर्थकं स्यात्॥

Prakriyasarvasvam

अन्नन्ताद् बहुव्रीहेः संज्ञाछन्दसोर्नित्यं ङीप् स्यात् । अधिराशी नाम ग्रा⁴मः । छन्दसि — समानमूर्ध्नी ।