41028: अन उपधालोपिनोन्यतरस्याम्¶
Padacheda: अनः | S | 5 | 1 |
उपधा-लोपिनः | S | 5 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
यस्य बहुव्रीहिसमासस्य अन्ते ‘अन्’ इति विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्यये कृते यदि अन्-इत्यस्य अकारलोपः सम्भवति, तर्हि तस्मात् समस्तपदात् ङीप्-प्रत्ययः विकल्पेन भवति ।
स्त्रियाम् (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति अन्यतमः प्रत्ययः । अस्य प्रत्ययस्य वैकल्पिकविधानम् प्रकृतसूत्रेण पाठितः अस्ति</b> । यदि कस्यचित् बहुव्रीहिसमासस्य अन्ते “अन्” इति शब्दः विद्यते, तर्हि तस्मात् स्त्रीत्वं द्योतयितुम् ऋन्नेभ्यो ङीप् (4.1.5) इत्यनेन ङीप्-प्रत्यये प्राप्ते; अनो बहुव्रीहेः (4.1.12) इत्यनेन वस्तुतः सः निषिध्यते । परन्तु, एतादृशे ङीप्-प्रत्यये (कथञ्चित्) कृते यदि प्रक्रियायाम् “अन्”-इत्यस्य अकारस्य लोपः सम्भवति, तर्हि तस्मात् बहुव्रीहिसमस्तपदात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययस्य निषेधं विकल्पेन बाधित्वा, ङीप्-प्रत्ययः अवश्यं विधीयते, तदनुषङ्गेन च अकारलोपं कृत्वा अन्तिमं रूपं सिद्ध्यति — इति अस्य सूत्रस्य अर्थः । यथा, “बहवः राजानः अस्याः” इत्यत्र अन्तिमम् रूपम् एतादृशं सिद्ध्यति —
बहवः राजानः अस्याः [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिसमासः]
→ बहु + राजन् + ङीप् [अन्नन्त-बहुव्रीहिसमस्तपदात् ङीप्-प्रत्यये कृते अग्रिमसोपाने अकारलोपः सम्भवति, अतः **अन उपधालोपिनोन्यतरस्याम्** (4.1.28) इत्यनेन अत्र ङीप्-प्रत्ययः अवश्यं क्रियते]
→ बहु + राज् न् + ई [**अल्लोपोऽनः** (6.4.134) इति भसंज्ञकस्य नकारान्तशब्दस्य उपधायां विद्यमानस्य अकारस्य लोपः]
→ बहु + राज् ञ् + ई [**स्तोः श्चुना श्चुः** (8.4.40) इति श्चुत्वम्]
→ बहुराज्ञी
पक्षे, प्रकृतसूत्रस्य प्रयोगं विना, अनो बहुव्रीहेः (4.1.12) इत्यनेन ङीप्-प्रत्ययस्य निषेधे कृते “बहुराजन्” इत्यपि प्रातिपदिकं स्त्रीलिङ्गे सिद्ध्यति । अपि च, डाबुभाभ्यामन्यतरस्याम् (4.1.13) इत्यनेन विकल्पेन डाप्-प्रत्यये कृते “बहुराजा” इत्यपि प्रातिपदिकं सिद्ध्यति ।
एवमेव, “बहवः तक्ष्णः यस्याः” इत्यत्रापि अल्लोपोऽनः (6.4.134) इत्यनेन जनिष्यमाणम् उपधालोपं दृष्ट्वा ङीप्-प्रत्ययस्य वैकल्पिकविधानम् अवश्यं भवति, येन “बहुतक्ष्णी” इति स्त्रीलिङ्गवाची शब्दः सिद्ध्यति । पक्षे ङीप्-प्रत्ययस्य निषेधे जाते “बहुतक्ष्णन्”, तथा च पक्षे डाप्-प्रत्यये कृते “बहुतक्ष्णा” इत्यपि प्रातिपदिके सिद्ध्यतः ।
<note>प्रकृतसूत्रे विद्यमानः “उपधालोपिन्” इति शब्दः “उपधालोपः अस्य सम्भवति” इत्यस्मिन् अर्थे प्रयुक्तः अस्ति, न हि “उपधालोपः यस्य जातः” इत्यस्मिन् अर्थे । अतः ङीप्-प्रत्यये कृते यस्य विषये उपधालोपः सम्भवति, तस्य अन्नन्त-बहुव्रीहिसमासस्य अस्मिन् सूत्रे ग्रहणं कृतम् ज्ञेयम् ।</note>
दलकृत्यम्
अनः इति किमर्थम् ? यस्य बहुव्रीहिसमासस्य अन्ते ‘अन्’ इति नास्ति, तस्य विषये उपधालोपस्य सम्भवे अपि प्रकृतसूत्रं नैव प्रवर्तते, अतः ऋन्नेभ्यो ङीप् (4.1.5) इत्यनेन ङीप्-प्रत्ययः नित्यमेव भवति । यथा, “बहवः मत्स्याः यस्या” इत्यत्र “बहु + मत्स्य + ङीप् = बहुमत्स्यन्” इति प्रातिपदिकं सिद्ध्यति । “बहुमत्स्यानः ब्राह्मण्यः” इति वाक्यप्रयोगः ।
उपधालोपिनः इति किमर्थम्? यस्य अन्नन्त-बहुव्रीहिसमासस्य विषये ङीप्-प्रत्यये कृते उपधालोपः नैव सम्भवति, तस्य विषये प्रकृतसूत्रस्य प्रसक्तिः नास्ति, अतः तस्य विषये अनो बहुव्रीहेः (4.1.12) इत्यनेन ङीप्-प्रत्ययः अवश्यं प्रतिषिध्यते । यथा, “बहवः यज्वानः यस्याः सा” इत्यत्र ङीप्-प्रत्यये कृते अपि अल्लोपोऽनः (6.4.134) इत्यनेन प्राप्तः उपधालोपः न संयोगाद्वमन्तात् (6.4.137) इत्यनेन निषिध्यते, अतः अत्र ङीप्-प्रत्ययः नैव भवति, किञ्च अन्ते “बहुयज्वन्” इत्येव प्रातिपदिकं सिद्ध्यति । “बहुयज्वानः ब्राह्मण्यः” इति वाक्यप्रयोगः ।
** अन्यतरस्याम् इति किमर्थम् ?** प्रकृतसूत्रेण विहितः ङीप्-प्रत्ययः केवलं विकल्पेनैव भवति, ङीप्-प्रत्ययं विना अपि अवश्यं रूपं सम्भवति । यथा, “बहवः राजानः अस्याः सा” इत्यत्र ङीप्-प्रत्यये कृते “बहुराज्ञी” तथा च ङीप्-प्रत्ययं विना “बहुराजन्” इति द्वे अपि प्रातिपदिके भवतः । पक्षे डाबुभाभ्यामन्यतरस्याम् (4.1.13) इत्यनेन विकल्पेन डाप्-प्रत्यये कृते “बहुराजा” इत्यपि प्रातिपदिकं सिद्ध्यति ।
Vasu English Summary¶
The affix ङीप् comes after that बहुव्रीहि समास which ending in the syllable अन् loses its penultimate अ।
Vasu English Translation¶
The affix ङीप् comes after that बहुव्रीहि समास which ending in the syllable अन् loses its penultimate अ। Thus बहुराजन् is a Bahuvrihi compound ending in अन्; in applying nip, it loses is penultimate by (6.4.134) (अल्लोपोऽनः there is elision of अ of अन् when a bha affix follows). Thus बहुराज्ञी ‘having many kings’. In the alternative, when nip is not added, we may add the affix डाप् by (4.1.13). Thus बहुराजा, बहुराजे, बहुराजाः ॥ Or we may apply the prohibition contained in (4.1.12) and have बहुराजा, बहुराजानौ, बहुराजानः ॥ when the penultimate is not elided we cannot apply the affix ङीप् at all : in cases of such compounds there are only two forms of the feminine noun as सुपर्वा, सुपर्वे, सुपर्वाः or सुपर्वा सुपर्वाणौ, सुपर्वाणः ॥ That is to say we apply (4.1.13) and (4.1.12) only; for in the case of सुपर्वन् &c. rule (6.4.137) prevents the elision of the penultimate न्; (न संयोगाद्वमनन्तात्, there is not elision of the अ of अन् when it comes after a conjunct consonant ending in व or म)॥
Kashika¶
बहुव्रीहेरित्येव। अन्नन्तो यो बहुव्रीहिरुपधालोपी, तस्मादन्यरस्यां ङीप् प्रत्ययो भवति। ङीपा मुक्ते डाप्प्रतिषेधौ भवतः। किमर्थं तर्हीदमुच्यते, ननु सिद्धा एव डाप्प्रतिषेधङीपः? अनुपधालोपिनो ङीप्प्रतिषेधार्थं वचनम्। बहुराजा। बहुराज्ञी। बहुराजे॥ बहुतक्षा। बहुतक्ष्णी। बहुतक्षे। अन इति किम्? बहुमत्स्या। उपधालोपिन इति किम्? सुपर्वा, सुपर्वे, सुपर्वाः। सुपर्वाणौ। सुपर्वाणः। डाप्प्रतिषेधावेवात्र भवतः॥
Siddhanta Kaumudi¶
अन्नन्ताद्बहुव्रीहेरुपधालोपिनो वा ङीप् स्यात् । पक्षे डाब्निषेधौ । बहुराज्ञी । बहुराज्ञौ । बहुराजे । बहुराजानौ ॥
Balamanorama¶
अन उपधालोपिनोन्यतरस्याम् - अथ बहवो राजानो यस्या इति बहुव्रीहौ बहुराजन्शब्दात्अनो बहुव्रीहे॑रिति ङीब्निषेधेडाबुभाभ्या॑मिति डापि च नान्तत्वमाकारान्तत्वं च प्राप्तम्, ङीबन्तत्वमपीष्यते, तदर्थमिदमारभ्यते-अन उपधा । इदं सूत्रं नात्र प्रकरणे पठितम्, किंतुदामहायनान्ताच्चे॑त्युत्तरं पठितं, प्रसङ्गादत्रोपन्यस्तम् ।बहुव्रीहेरूधसो ङी॑षित्यतो बहुव्रीहेरित्यनुवर्तते, किंतुदामहायनान्ताच्चे॑त्युत्तरं पठितं, प्रसङ्गादत्रोपन्यस्तम् ।बहुव्रीहेरूधसो ङी॑षित्यतो बहुव्रीहेरित्यनुवर्तते,संख्याव्ययादेर्ङी वित्यतो ङीबिति च । प्रातिपदिकादित्यदिकृतमन इत्यनेन विशेष्यते, तदन्तविधिः । तदाह — अन्नन्तादित्यादिना । पक्षे डाब्ङीब्निषेधाविति । कदाचिन्ङीब्निषेधः, कदाचिड्डाप्येत्यर्थः । अन्यतरस्याङ्ग्रहणस्य प्रयोजनमिदम् । अकृतेऽत्वन्यतरस्याङ्ग्रहणे बहुयज्वादिशब्दे अनुपधालोपिनि सावकाशस्यअनो बहुव्रीहे॑रिति ङीप्प्रतिषेधस्यडाबुभाभ्या॑मिति डापश्च बहुराजन्शब्दादावुपधालोपिन्यनवकाशेन ङीपा बाधः स्यात् । बहुराज्ञीति । ङीपि अल्लोपे सोर्हल्ङ्यादिलोप इति भावः । बहुराजेति । डापि ङीब्निषेधे च सौ रूपम् । बहुराज्ञ्याविति । ङीप्पक्षे औङि यण् । बह#उराजे इति । डाप्पक्षे औङि रूपम् । बहुराजानाविति ष । ङीब्निषेधे औङि रूपम् ।
Tattvabodhini¶
अन उपधालोपिनोन्यतरस्याम् - अन उपधा ।बहुव्रीहेरूधसो ङी॑षित्यतो बहुव्रीहिग्रहणंसङ्ख्याव्ययादेङी॑बित्यतो ङीप्चानुवर्तत इत्याशयेनाह — अन्नन्तादित्यादि । नियमार्थमिदमित्युक्तम् । न चैवं पूर्वसूत्रेणैव विकल्पसिद्धाविहान्यतरस्याङ्ग्रहणं व्यर्थमिति वाच्यम्, असति ह्रन्यतरस्याङ्ग्रहणे नित्यार्थो विधिरेवायं स्यान्न तु नियम इति ।
Padamanjari¶
इति परत उपधालोपे यस्य सम्भवति स उपधालोपी । ननु सिद्धा एवेत्यादि । एतच्च’डाबुभाभ्याम्’ इत्यत्रैव व्याख्यातम् । अनुपधालोपिनो ङीप्प्रतिषेधार्थं वचनमिति । अनो बहुव्रीहेर्यदन्यतरस्यां ङीब्विधानं तदुपधालोपिन एवेत्येवं नियमार्थमित्यर्थः । अस्य च नियमस्यानुपधालोपिनो ङीब्निवृत्तिः फलमिति फलतः प्रतिषेधवाचो युक्तिः । बहुराजे इति । ठौङ् आपःऽ इति शीभावः । द्विवचननिर्देशो डापोऽभिव्यक्तये; एववचने डाप्प्रतिषेधयो रूपस्य तुल्यवात् । बहुमत्स्येति ।’सूर्यतिष्यागस्त्य’ इत्यादिना उपधालोपविधानादुपधालोप्येष बहुव्रीहिः । सुपर्वेति ।’न संयोगाद्वमन्तात्’ इति निषेधान्नायमुपधालोपी ॥
Nyaas¶
उपधालोपी`इति। उपधालोपो यस्य ङीपि परतः सम्भवति स उपधालोपी।`ननु इत्यादि। अनो बहुव्रीहेः (4.1.12) इति प्रतिषेधः सिद्धः, डाबुभाभ्याममन्यतरस्याम् (4.1.13) इति डाप्, अनयतरस्यांग्रहणाच्च पक्षे ङीप्। यदि तर्हि डाबुभाभ्यामन्यतरस्याम् इत्यनेन ङीबपि विधीयते, तदा दामा पामेत्यत्रापि स्यात्? अन्यतरस्यांग्रहणस्य व्यवस्थितविभाषात्वान्न भविष्यति। अनुपधालोपिनः इत्यादि। यदीदं नोच्येत, अनुपधालोपिनोऽपि ङीप् स्यात्। तस्मादुपधालोपिन एव ङीब्यथा स्यात्, अनुपधलोपिनो मा भूदित्येवमर्थमिदमुच्यते। बहुराजा इति। ङीप्प्रतिषेधः। सर्वनामस्थाने च (6.4.8) इति नोपधाया दीर्घः। बहुराज्ञी इति। ङीप्, अल्लोपोऽनः (6.4.134) । बहुराजे इति। डाप्, औङ आपः (7.1.18) इति शीभावः, आद्गुणः (6.1.87) । द्विवचननिर्देशो डापोऽभिव्यक्तये। एकवचने हि डाप्प्रतिषेधयोर्न कश्चिद्विशेषः; उभयत्रापि तुल्यरूपत्वात्। क्वचित् बहुराजाः इति बहुवचनेन निर्देशः, तस्यापि तेदव प्रयोजनम्।बहुमत्स्या इति। सूर्यातिष्यागस्त्यमस्त्यानां य उपधायाः (6.4.149) इति लोपविधानादुपधालोपीत्येष बहुव्रीहिः। सुपर्वा इति। अयमुपधालोपी न भवति। न संयोगाद्वमन्तात् (6.4.137) इत्युपधालोपप्रतिषेधात्॥
Praudhamanorama¶
‘बहुव्रीहेरूधसो ङीष्’ इत्यतो बहुव्रीहिग्रहणं ‘संख्याव्ययादेर्ङीप्’ इत्यतो ङीप् चानुवर्तते इत्याशयेनाह— अन्नन्तादित्यादि। नियमार्थमिदमित्युक्तम्। न चैवं पूर्वेण विकल्पसिद्धौ इहान्यतरस्यां ग्रहणं व्यर्थमिति वाच्यम्। असति हि तस्मिन् नित्यार्थो विधिरेवायं स्यान्न तु नियमः।
Prakriyasarvasvam¶
अन्नन्तादुपधालोपिनो बहुव्रीहेर्वा ङीप् स्यात् । विकल्पेन डाप् च ङीब्निषेधश्च ‘न संयोगाद् वमन्ता’दित्युपधालोपनिह्नुवात् । तद्वर्जिता इहान्नन्ता उपधालोपिनो मताः ।। ४७८ ।। बहुराज्ञी बहुराज्ञ्यौ । बहुराजा बहुराजे । बहुराजा बहुराजानौ ॥
Sutra Prayogas¶
भूरिधाम्नीम् (किरातार्जुनीयम्): अन उपधालोपिनोऽन्यतरस्याम् इति वा ङीप् ।
तनुमवजितलोकसारधाम्नीं (किरातार्जुनीयम्): अन उपधालोपिनोऽन्यतरस्याम् इति ङीप्।
प्रतीपनाम्नीः (शिशुपालवधम्): अन उपधालोपिनोऽन्यतरस्याम् इति ङीप्।
सु-षाम्नीं (भट्टिकाव्यम्): अन उपधा- लोपिनोऽन्यतरस्याम् इति ङीप् ।