41030: केवलमामकभागधेयपापापरसमानार्यकृत-सुमङ्गलभेषजाच्च¶
Padacheda: केवल-मामक-भागधेय-पाप-अपर-समान-आर्यकृत-सुमङ्गल-भेषजात् | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
केवल, मामक, भागधेय, पाप, अपर, समान, आर्यकृत, सुमङ्गल, भेषज - एतेभ्यः नवभ्यः प्रातिपदिकेभ्यः संज्ञानिर्देशार्थम्, वैदिकप्रयोगसिद्ध्यर्थं च स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति ।
स्त्रियाम् (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति अन्यतमः प्रत्ययः अनेन सूत्रेण दीयते । “केवल”, “मामक”, “भागधेय”, “पाप”, “अपर”, “समान”, “आर्यकृत”, “सुमङ्गल”, “भेषज” — एतेभ्यः नवभ्यः प्रातिपदिकेभ्यः संज्ञानिर्देशार्थम्, वैदिकप्रयोगसिद्ध्यर्थं च स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति — इति अस्य सूत्रस्य अर्थः । क्रमेण उदाहरणानि एतानि — 1. केवल</qt> — केवल + ङीप् → **केवली । ऋग्वेदे 10.173.6 इत्यत्र “अथोत इन्द्रः केवली विशः” इति प्रयोगः दृश्यते । भाषायाम् तु “केवल + टाप् → केवला” इति प्रयोक्तव्यम् । 2. <hl>मामक</qt> — मामक + ङीप् → मामकी । पैप्पलादसंहितायां १.६.८ इत्यत्र “मामकी तनूः” इति प्रयोगः दृश्यते । प्रक्रिया इयम् —
मम इयम्
= अस्मद् + अण् + ङीप् [**तस्येदम्** (4.3.120) इति अण्, ततः स्त्रीत्वं द्योतयितुम् संज्ञाछन्दसोः विषये **केवलमामकभागधेयपापापरसमानार्यकृत-सुमङ्गलभेषजाच्च** (4.1.30) इति ङीप्]
→ ममक + अ + ई [**तवकममकावेकवचने** (4.3.3) इति ममक-आदेशः]
→ मामक + अ + ई [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः]
→ मामक् + अ + ई [**यस्येति च** (6.4.148) इति अण्-प्रत्यये परे अकारलोपः]
→ मामक् + ० + ई [**यस्येति च** (6.4.148) इति ईकारे परे अकारलोपः]
→ मामकी
वस्तुतः “मामक”-शब्दः अण्-प्रत्ययान्तः अस्ति, अतः **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यनेनैव ङीप्-प्रत्यये सिद्धे अस्य शब्दस्य प्रकृतसूत्रे ग्रहणम् व्यर्थं भवति । व्यर्थं सत् इदं ज्ञापयति — <hl>मामकशब्दात् संज्ञाछन्दसोः एव ङीप्-प्रत्ययः भवति, न अन्यत्र**** । अतः भाषायाम् तु “मामक + टाप् → मामिका” इति प्रयोक्तव्यम् । अत्र प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः (7.3.44) इत्यत्र पाठितेन <!मामकनरकयोरुपसङ्ख्यानमप्रत्ययस्थत्वात्!> इति वार्त्तिकेन इकारादेशे कृते रूपं सिद्ध्यति । 3. <hl>भागधेय</qt> — भागधेय + ङीप् → भागधेयी । अस्य प्रयोगः “मित्रावरुणयोर्भागधेयी स्थ” इति तैत्तिरीयसंहितायां १.३.१२.१ इत्यत्र कृतः दृश्यते । भाषायाम् तु “भागधेय + टाप् → भागधेया” इति प्रयोक्तव्यम् । “भागधेय”-शब्दः पादार्घाभ्यां च (5.4.25) इत्यत्र पाठितेन <!भागरूपानामभ्यो धेय प्रत्ययो वक्तव्यः!> इति वार्त्तिकेन स्वार्थे धेय-प्रत्यये कृते सिद्ध्यति । 4. <hl>पाप</qt> (दुष्टः / evil इत्यर्थः) — पाप + ङीप् → पापी । “तन्वः सन्ति पापीः” इति प्रयोगः ऋग्वेदे 10.108.6 इत्यत्र दृश्यते । भाषायां तु “पाप + टाप् → पापा” इति भवति । 5. <hl>अपर</qt> — अपर + ङीप् → अपरी । ऋग्वेदे 1.32.13 इत्यत्र “उताऽपरीभ्यो मघवा विजिग्ये” एतादृशः अस्य शब्दस्य प्रयोगः दृश्यते ।भाषायां “अपर + टाप् → अपरा” इति भवति । 6. <hl>समान</qt> — समान + ङीप् → समानी । यथा, ऋग्वेदे 10.191.4 इत्यत्र “समानी व आकूतिः समाना हृदयानि वः” इत अस्य प्रयोगः दृश्यते । भाषायां “समान + टाप् → समाना” इति भवति । 7. <hl>आर्यकृत</qt> — आर्यकृत + ङीप् → आर्यकृती । अयं शब्दः मैत्रायणीसंहितायाम् 1.8.3 इत्यत्र दृश्यते । भाषायां “आर्यकृत + टाप् → आर्यकृता” इति भवति । 8. <hl>सुमङ्गल</qt> — सुमङ्गल + ङीप् → सुमङ्गली । अयं शब्दः ऋग्वेदे “सु॒म॒ङ्ग॒लीर्बिभ्रती देववीतिमिहाद्योषः” (1.113.12) इत्यत्र दृश्यते । भाषायाम् “सुमङ्गल + टाप् → सुमङ्गला” इति भवति । <note>**षिद्गौरादिभ्यश्च** (4.1.41) इत्यत्र निर्दिष्टे गौरादिगणे सुमङ्गलात् संज्ञायाम् इति गणसूत्रं विद्यते; अतः “सुमङ्गल”-शब्दात् संज्ञानिर्देशार्थम् ङीष्-प्रत्ययः अपि भवति ।</note> 9. <hl>भेषज</qt> — भेषज + ङीप् → भेषजी । अयं शब्दः ऋग्वेदे 10.137.6 इत्यत्र “आपः सर्वस्य भेषजी” इति प्रयुक्तः दृश्यते ।
Vasu English Summary¶
The affix ङीप् necessarily comes denoting the feminine after the following प्रातिपदिक (Nominal Stems) when used to express a Name or in the छन्दस् (Vedas).
Vasu English Translation¶
The affix ङीप् necessarily comes denoting the feminine after the following प्रातिपदिक (Nominal Stems) when used to express a Name or in the छन्दस् (Vedas). The phrase संज्ञा छन्दसोः of the last sutra is understood here also. Thus केवली in the Chhandas, as opposed to केवला in the ordinary language, when not denoting a Name; so also मामकी and मामिका; भागधेयी as मित्रावरुणयोर्भागधेयी and भागधेया; पापी and पापा; अपरी as उताऽपरीभ्योमघवा विजिग्ये; (Rigveda. I.1.13) and अपरा; समानी प्रवाणी and समाना; आर्यकृती and आर्यकृता्; सुमङ्गली (Rigveda X. 85.33) सुमङ्गला; भेषजी and भेषजा ॥ सुमङ्गल takes ङीष् also by (4.1.41), as belonging to Gauradi class No. 86.
Bhashya¶
केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च (1297) (ङीबधिकरणम्) (आक्षेपभाष्यम्) मामकग्रहणं किमर्थम्, नाणन्तादित्येव सिद्धम्? (समाधानभाष्यम्) नियमार्थोऽयमारम्भः -मामकशब्दात्संज्ञाछन्दसोरेव॥ (प्रत्युदाहरणभाष्यम्) क्व मा भूत्? मामिका बुद्धिरिति॥
Kashika¶
संज्ञाछन्दसोरित्येव। केवलादिभ्यः प्रातिपदिकेभ्यः संज्ञायां छन्दसि विषये स्त्रियां ङीप् प्रत्ययो भवति। केवली (पै०सं०१६.२०.१)। केवलेति भाषायाम्। मामकी (पै० सं० ६.६.८)। मामिकेति भाषायाम्। मि॒त्रावरु॑णयोर्भाग॒धेयीः॑स्थ (तै०सं०१.३.१२.१)। भागधेयेति भाषायाम्। सा॑ पा॒पी॑ (मै०सं० ४.२.१४)। पापेति भाषायाम् । उ॒ताऽप॒रीभ्यो॑ म॒घवा॒ विजि॑ग्ये (ऋ० १.३२.१३)। अपरेति भाषायाम्। समा॒नी (ऋ० १०.१९१.३) प्रवाणी। समानेति भाषायाम्। आर्यकृ॒ती॑ (मै०सं० १.८.३)। आर्यकृतेति भाषायाम्। सु॒म॒ङ्ग॒ली (ऋ० १०.८५.३३)। सुमङ्गलेति भाषायाम्। भेष॒जी (तै०सं० ४.५.१०.१)। भेषजेति भाषायाम्॥
Siddhanta Kaumudi¶
एभ्यो नवभ्यो नित्यं ङीप् स्यात्सञ्ज्ञाछन्दसोः । अथोत इन्द्रः केवलीर्विशः । मामकी । भागधेयी । पापी । अपरी । समानी । आर्यकृती । सुमङ्गली । भेषजी । अन्यत्र केवला इत्यादि । मामकग्रहणं नियमार्थम् । अण्णन्तत्वादेव सिद्धेः । तेन लोकेऽसंज्ञायां मामिका ॥
Balamanorama¶
केवलमामकभागधेयपापापरसमानार्यकृत- सुमङ्गलभेषजाच्च - केवलमामक । नित्यं संज्ञाच्छन्दसोः॑ इति पूर्वसूत्रमनुवर्तते । एवंचअन उपधालोपिनोऽन्यतरस्या॑मित्यन्यतरस्यांग्रहणं निवृत्तम् ।सङ्ख्याव्ययादेर्ङी॑बित्यतो ङीबित्यनुवर्तते । तदाह-एभ्य इति । केवल, मामक, भागधेय, पाप, अपर, समान, आर्यकृत, सुमङ्गल, भेषज-इत्येतेभ्यो नवब्य इत्यर्थः । छन्दस्युदाहरति — अथोत इन्द्रः केवलीरिति । मामकी तनू इति । मदीयायामित्यर्थः ।युष्मदस्मदोरन्यतरस्यां खञ् चे॑त्यणि ‘तवकममकावेकवचने’ इति प्रकृतेर्ममकादेशः, ङीप्,सुपां सुलुगि॑ति सप्तम्या लुक् ।मित्रावरुणोर्भागधेयी स्थ॑ । ‘भागरूपनामभ्योधेयः’ इति स्वार्थिको धेयप्रत्ययः । भागशब्दस्य पुंलिङ्गत्वेऽपिस्वार्थिकाः प्रकृतेः क्वचिल्लिङ्गवचनान्यतदिवन्र्तते॑ इति स्त्रीत्वं, ङीप् ।तन्वः सन्तु पापीः॑ । पापमस्यास्तीत्यर्थे अर्श आद्यजन्तात्स्त्रीत्वे ङीप् ।उत वापरीभ्यो मघवा विजिग्ये॑ । अपरशब्दः पवर्गमध्यः । ‘समानीव आकूतिः ।’ आर्यकृतीति क्वचिद्वेदेऽन्वेषणीयम् । एवं सुमङ्गलीति च । ‘सुमङ्गलीरियं वधूः’ इत्यत्र ‘छन्दसीवनिपौ च’ इति मत्वर्थे ईप्रत्ययः ।शिवा रुद्रस्य भेषजा.॑ भेषजशब्दो रोगनिवर्तके औषधे प्रसिद्धः । अत एव सूत्र#आत्स्त्रीत्वमपि । यद्वा भिषज इयमित्यर्थेऽणि इकारस्य एकारोऽत एव निपातनात् । संज्ञायामप्येवमेव सर्वत्र ङीबुदाहार्यः ष संज्ञाच्छन्दोभ्यामन्यत्र सु केवला मामिका इत्यादि । नन्वणन्तत्वादेवटिड्ढाणञि॑ति ङीपि सिद्धे मामकग्रहणं व्यर्थमित्यत आह — मामकग्रहणमिति । लोकेऽसंज्ञायां च ङीब्निवृत्त्यर्थमिति भावः । एवं भेषजशब्दस्य अणन्तत्वेऽपि ज्ञेयम् । एतदर्थमेव वैदिकप्रक्रियायामिदं नोपन्यस्तम् ।
Tattvabodhini¶
केवलमामकभागधेयपापापरसमानार्यकृत- सुमङ्गलभेषजाच्च - केवल । छन्दसिमामकी तनू॑ ।मित्रावरुणयोर्भागधेयी॒॑तन्वः सन्तु पापीः॑ ।॒उतापरूभ्यः॑ ।समानी व आकूतिः॑ । आर्यकृती । सुमङ्गली ।सुमङ्गलीरियं वधूः॑इत्यत्र तुछन्दसीवनिपौ॑इति मत्वर्थे ईप्रत्ययो बोध्यः ।शिवा रुद्रस्य भेषजी॑ । अन्यत्र केवलेत्यादीति । मामकनरकयोरुपसङ्ख्यानादित्वम् । मामिका.भागशब्दात्पुंलिङ्गात्स्वार्थे धेयप्रत्ययः ।स्वार्थिकाः क्वचित्प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते॑इति स्त्रीत्वम् । भागधेया । अभेदोपचारात्तद्वति वर्तमानः पापशब्दो विशेष्यनिघ्नः । पापा । अपरा । समाना । आर्येण कृतेति प्राक् सुबुत्पत्तेः कृदन्तेन समासः । टाप् । आर्यकृता । भिषज इयमित्यणि आदिवृद्धेरपवादोऽस्मादेव निपातनादेकारः ।संज्ञाछन्दसो॑रिति नियमादन्यत्र — भेषजा ।
Padamanjari¶
केवलेति भाषायामिति । असंज्ञाविषये इति भावः । मामकीति । ममेयमिति’युष्मदस्मदोरन्यतस्यां खञ्च’ इत्यम्,’तवकममकावेकवचने’ इति ममकादेशः, तत्राणन्तत्वात्’टिड्ढाणञ्’ इत्येव सिद्धे नियमार्थं मामकग्रहणम् - संज्ञाच्छन्दसोरेव ङीब्नान्यत्रेति । मामिकेति । टापि’मामकनरकयोरुपसंख्यानम्’ इतीत्वम् । भागधेयीति । भागशब्दापुंल्लिङ्गात्स्वार्थे धेयप्रत्ययः, स्वाथिकाश्च क्वचिदतिवर्तन्ते प्रकृतितो लिङ्गमिति स्त्रीलिङ्गता । पापेति । अभेदोपचारातद्वति वर्तमानः पापशब्दोऽभिधेयवल्लिङ्गः । अवरीत्यत्र द्वितीयो वर्णो दन्त्योष्ठयः, न पवर्ग्यः । आर्येण कृतेति । प्राक् सुबुत्पतेः समासेऽकारान्तत्वम् । भेषजीति । भिषज इयमित्यणि आदिवृद्धेरभावोऽस्मादेव निपातनादेकारः । एवं च भेषजग्रहणमपि नियमार्थम् ॥
Nyaas¶
अथ मामकग्रहणं किमर्थम्, यावताऽस्मदः तस्येदम् (4.3.120) इत्यणि कृते तवकममकावेकवचने (4.3.3) इतिममकादेशेन मामक इति भवति, ततश्च टिड्ढाणञ् (4.1.15) इत्येव ङीप्सिद्धेः? सत्यमेतत्; नियमार्थं तु मामकशब्दस्य ग्रहणम्; संज्ञाच्छन्दसोर्यथा स्यात्, अन्यत्र मा भूदिति॥
Praudhamanorama¶
अद्ध्यस्यां मामकी तनू। मित्रावरुणयोर्भागधेयी। अनिषेव्यास्तन्वः सन्तु पापीः। उतापरिभ्यो मघवा विजिग्ये। समानीव आकूतिः । आर्यकृती। सुमङ्गली। शिवा रुद्रस्य भेषजी।
Prakriyasarvasvam¶
एषां संज्ञाच्छन्दसोर्ङीप् स्यात् । तत्र संज्ञायां केवली, मामकी आर्यकृतीत्यादि । <karika>अनाम्नि टाप् स्यात् सर्वेभ्यो यौ तु मामकभेषजौ । तस्येदमाद्यणन्तौ द्वौ तयोश्चानाम्नि टाब् भवेत् ॥ ४७९ ॥ तत्रोक्ता मामिका पूर्वं भेषजां पश्यतौषधिम् । भिषजोऽणि कृतेऽप्यादेरेत्त्वमत्र निपातनात् ॥ ४८० ॥</karika> एभ्यः संज्ञाछन्दसोर्नित्यं ङीप् स्यात् । संज्ञायां मृग्यम् । अथोऽत इन्द्रः केवली । अधस्यां मामकी तनूः । मित्रावरुणयोर्भागधेयी (य⁵: ?) तन्वः स⁶न्त्वपापी । उतापरीभ्यः समानी व१ः । २आर्यंकृतीं । सुमङ्गलीरियं वधूः । आप३ः सर्वस्य भेषजीः ।