41026: संख्याव्ययादेर्ङीप्

Padacheda: संख्या-अव्ययादेः | S | 5 | 1 |

ङीप् | S | 1 | 1 |

Sutrartha

यस्य बहुव्रीहिसमासस्य उत्तरपदम् ‘ऊधस्’ इति शब्दः तथा च पूर्वपदस्य प्रारम्भः सङ्ख्यावाचकशब्देन, अव्ययवाचकशब्देन वा भवति, तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते ।

स्त्रियाम् (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण पाठ्यते । यस्य बहुव्रीहिसमासस्य उत्तरपदम् “ऊधस्” (क्षीरशयः, udder) इति शब्दः विद्यते तथा च पूर्वपदस्य प्रारम्भः सङ्ख्यावाचकशब्देन, अव्ययवाचकशब्देन वा भवति, तत्र स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति — इति अस्य सूत्रस्य अर्थः । अत्र बहुव्रीहेरूधसो ङीष् (4.1.25) इत्यनेन प्राप्तं ङीष्-प्रत्ययं बाधित्वा ङीप्-प्रत्ययविधानार्थम् इदं सूत्रं रचितम् अस्ति । उदाहरणानि एतानि — 1. “ द्वे ऊधसी यस्याः” अत्र “द्व्यूध्नी” इति अन्तिमम् रूपम् एतादृशं सिद्ध्यति —

द्वे ऊधसी अस्याः सा
→ द्वि + ऊधस्  [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिसमासः]
→ द्वि + ऊध + अनङ् + ङीप् [**ऊधसोऽनङ्** (5.4.131) इति अनङ् (अन्) आदेशः । **ङिच्च** (1.1.53) इति अन्त्यादेशः । ततः स्त्रीत्वं द्योतयितुम् **बहुव्रीहेरूधसो ङीष्** (4.1.25) इति ङीष्-प्रत्यये प्राप्ते; तद्बाधित्वा **संख्याव्ययादेर्ङीप्** (4.1.26) इति ङीप्-प्रत्ययः]
→ द्वि + ऊधन् + ई  [**अतो गुणे** (6.1.97) इति पररूपैकादेशः]
→ द्वि + ऊध्न् + ई [ई-प्रत्यये परे ऊधन्-शब्दस्य भसंज्ञा, अतः **अल्लोपोऽनः** (6.4.134) इति अकारलोपः]
→ द्व्यूध्नी [**इको यणचि** (6.1.77) इति यणादेशः ।]
  1. “द्विविधे ऊधसी यस्याः” अत्रापि पूर्वपदम् सङ्ख्यावाचकशब्देन (द्वि-इत्यनेन) प्रारभ्यते; अतः अत्रापि प्रकृतसूत्रेण ङीप्-प्रत्ययः एव भवति, येन “द्विविधोध्नी” इति शब्दः सिद्ध्यति —

द्विविधे ऊधसी अस्याः सा
→ द्विविध + ऊधस्  [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिसमासः]
→ द्विविध + ऊध + अनङ् + ङीप् [**ऊधसोऽनङ्** (5.4.131) इति अनङ् (अन्) आदेशः । **ङिच्च** (1.1.53) इति अन्त्यादेशः । ततः स्त्रीत्वं द्योतयितुम् **बहुव्रीहेरूधसो ङीष्** (4.1.25) इति ङीष्-प्रत्यये प्राप्ते; तद्बाधित्वा **संख्याव्ययादेर्ङीप्** (4.1.26) इति ङीप्-प्रत्ययः]
→ द्विविध + ऊधन् + ई  [**अतो गुणे** (6.1.97) इति पररूपैकादेशः]
→ द्विविध + ऊध्न् + ई [ई-प्रत्यये परे ऊधन्-शब्दस्य भसंज्ञा, अतः **अल्लोपोऽनः** (6.4.134) इति अकारलोपः]
→ द्विविधोध्नी [**आद्गुणः** (6.1.87) इति गुणैकादेशः ।]
  1. “अतिगतम् ऊधः अस्याः” इत्यत्र पूर्वपदम् ‘अति’ इति अव्ययसंज्ञकम् अस्ति, अतः अत्र प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति, येन “अत्यूध्नी” इति शब्दः सिद्ध्यति —

अतिगतम् ऊधः अस्याः
→ अति + ऊध [**अनेकमन्यपदार्थे** (2.2.24) इत्यत्र निर्दिष्टेन  <!प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः!> इति वार्त्तिकेन बहुव्रीहिसमासः विधीयते, तथा च एतादृशे समासे 'गत' इत्यस्य लोपः भवति ।
→ अति + ऊध + अनङ् + ङीप् [**ऊधसोऽनङ्** (5.4.131) इति अनङ् (अन्) आदेशः । **ङिच्च** (1.1.53) इति अन्त्यादेशः । ततः स्त्रीत्वं द्योतयितुम् **बहुव्रीहेरूधसो ङीष्** (4.1.25) इति ङीष्-प्रत्यये प्राप्ते; तद्बाधित्वा **संख्याव्ययादेर्ङीप्** (4.1.26) इति ङीप्-प्रत्ययः]
→ अति + ऊधन् + ई  [**अतो गुणे** (6.1.97) इति पररूपैकादेशः]
→ अति + ऊध्न् + ई [ई-प्रत्यये परे ऊधन्-शब्दस्य भसंज्ञा, अतः **अल्लोपोऽनः** (6.4.134) इति अकारलोपः]
→ अत्यूध्नी [**इको यणचि** (6.1.77) इति यणादेशः ।]
  1. “निर्गतम् ऊधः अस्याः” इत्यत्र पूर्वपदम् ‘निर्’ इति अव्ययसंज्ञकम् अस्ति, अतः अत्र प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति, येन “निरूध्नी” इति शब्दः सिद्ध्यति —

निर्गतम् ऊधः अस्याः
→ निर् + ऊध [**अनेकमन्यपदार्थे** (2.2.24) इत्यत्र निर्दिष्टेन  <!प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः!> इति वार्त्तिकेन बहुव्रीहिसमासः विधीयते, तथा च एतादृशे समासे 'गत' इत्यस्य लोपः भवति ।
→ निर् + ऊध + अनङ् + ङीप् [**ऊधसोऽनङ्** (5.4.131) इति अनङ् (अन्) आदेशः । **ङिच्च** (1.1.53) इति अन्त्यादेशः । ततः स्त्रीत्वं द्योतयितुम् **बहुव्रीहेरूधसो ङीष्** (4.1.25) इति ङीष्-प्रत्यये प्राप्ते; तद्बाधित्वा **संख्याव्ययादेर्ङीप्** (4.1.26) इति ङीप्-प्रत्ययः]
→ निर् + ऊधन् + ई  [**अतो गुणे** (6.1.97) इति पररूपैकादेशः]
→ निर् + ऊध्न् + ई [ई-प्रत्यये परे ऊधन्-शब्दस्य भसंज्ञा, अतः **अल्लोपोऽनः** (6.4.134) इति अकारलोपः]
→ निरूध्नी

सूत्रे आदिग्रहणस्य प्रयोजनम्

प्रकृतसूत्रे विद्यमानः “आदि” इति शब्दः “सङ्ख्या” तथा च “अव्ययम्” इति उभाभ्यां सह अन्वेति । इत्युक्ते, यस्य बहुव्रीहिसमासस्य पूर्वपदम् सङ्ख्यादिः / अव्ययादिः वा अस्ति (beings with a सङ्ख्या or an अव्यय) तस्य विषये इदं सूत्रं प्रसज्यते । अतएव “द्विविध”, “त्रिविध” एतादृशाः शब्दाः पूर्वपदरूपेण सन्ति चेदपि प्रकृतसूत्रस्य प्रयोगः सम्भवति । यदि अस्मिन् सूत्रे “आदि” इति शब्दः न भवेत्, तर्हि तत्र केवलं तादृशस्य एव बहुव्रीहि समासस्य ग्रहणं स्यात् यत्र साक्षात् सङ्ख्यावाचकः अव्ययवाचकः शब्दः एव पूर्वपदरूपेण विद्येत । अतएव अत्र न्यासकारः स्पष्टी करोति — <source> यदि आदिग्रहणं न क्रियेत, तदा संख्याव्ययाभ्याम् इति पञ्चमीनिर्देशात् संख्याया अनन्तरः य ऊधःशब्दः तदन्तादेव स्यात्। यत्र तु व्यवधानं तत्र तु न स्यात्, आदिग्रहणात्तु तत्रापि भवति । <light>— न्यासः</light> </source> <note>यद्यपि आदिग्रहणम् “अव्ययम्” इति शब्देन सह अपि अन्वेति, तथापि तस्य उदाहरणानि व्याख्यानेषु नैव दृश्यन्ते । तादृशानि उदाहरणानि भाषायां न हि भवन्ति इत्येव तस्य कारणम् ।</note>

बाध्यबाधकभावः

यस्य बहुव्रीहिसमास्य उत्तरपदम् “ऊधस्” इति शब्दः अस्ति, तस्य विषये स्त्रीत्वं द्योतयितुम् वस्तुतः बहुव्रीहेरूधसो ङीष् (4.1.25) इत्यनेन ङीष्-प्रत्ययः विधीयते । परन्तु यदि अस्य समासस्य पूर्वपदम् सङ्ख्यादिः, अव्ययादिः वा शब्दः अस्ति; तर्हि तं ङीष्-प्रत्ययं बाधित्वा प्रकृतसूत्रेण तत्र ङीप्-प्रत्ययः एव भवति । <note>प्रकृतसूत्रस्य उदाहरणेषु अन्-इत्यस्य अकारः लुप्यते, अतः अत्र (अग्रे वक्ष्यमाणेन) अन उपधालोपिनोन्यतरस्याम् (4.1.28) इत्यनेन ङीप्-प्रत्ययः वस्तुतः विकल्पेन प्राप्नोति; परन्तु प्रकृतसूत्रेण कृतं तस्य नित्यविधानम् एतादृशं वैकल्पिकं विधानम् अपि बाधते; अतः प्रकृतसूत्रेण निर्दिष्टेषु स्थलेषु नित्यः एव ङीप्-प्रत्ययः भवति ।</note>

ङीप्/ङीष्-प्रत्यययोः भेदः

ङीप्-प्रत्ययस्य योजनेन यद् रूपं सिद्ध्यति, तदेव रूपम् ङीष्-प्रत्ययस्य योजनेन अपि सिद्ध्यति । परन्तु तत्र द्वयोः अपि प्रत्यययोः उच्चारणे भेदः विद्यते । ङीप्-प्रत्ययस्य ईकारः अनुदात्तौ सुप्पितौ (3.1.4) इत्यनेन अनुदात्तसंज्ञकः अस्ति । ङीष्-प्रत्ययस्य ईकारः तु आद्युदात्तश्च (3.1.3) इत्यनेन उदात्तसंज्ञकः अस्ति । एतादृशं स्वरभेदम् दर्शयितुम् एव आचार्येण एतौ द्वौ पृथक्-प्रत्ययौ कृतौ स्तः ।

Vasu English Summary

The affix ङीप् comes in the feminine after a बहुव्रीहि समास ending in the word ऊधस् ‘an udder’, beginning with a Numeral or indeclinable.

Vasu English Translation

The affix ङीप् comes in the feminine after a बहुव्रीहि समास ending in the word ऊधस् ‘an udder’, beginning with a Numeral or indeclinable. This sutra ordains ‘nip’, where by the last sutra there would have been ‘nish’. Thus द्वी + ऊधस् + अनङ् + ङीप् (5.4.131) = द्व्यूध्नी ‘having two udders’; so also त्र्यूध्नी, ‘having three udders’. The above are Bahuvrihi compounds beginning with a Numeral. Similarly अत्यूध्नी ‘many-uddered.; निरूध्नी ‘having no udders’.

Why do we say ‘beginning with’? So that the rule may apply to compounds like द्विविधोध्नी and त्रिविधोध्नी, in which the words ‘dvividha’ and ‘trividha’, though not Sankhya are words which begin with a Sankhya.

Kashika

पूर्वेण ङीषि प्राप्ते ङीब् विधीयते। संख्यादेरव्ययादेश्च बहुव्रीहेरूधःशब्दान्ताद् ङीष् प्रत्ययो भवति। संख्यादेस्तावत् — द्व्यूध्नी। त्र्यूध्नी। अव्ययादेः — अत्यूध्नी। निरूध्नी। आदिग्रहणं किम्? द्विविधोध्नी। त्रिविधोध्नीत्यत्रापि यथा स्यात्॥

Siddhanta Kaumudi

ङीषोऽपवादः । द्व्यूध्नी । अत्यूध्नी । बहुव्रीहेरित्येव । ऊधोऽतिक्रान्ता अत्यूधाः ॥

Balamanorama

संख्याऽव्ययादेर्ङीप् - सङ्ख्याव्ययादेर्ङीप् । सङ्ख्याव्ययादेरूधोऽन्तात्स्त्रियां ङीप् स्यादित्यर्थः । ङीषोऽपवाद इति ।बहुव्रीहेरूधसो ङी॑षित्यस्यापवाद इत्यर्थः । स्वरे विशेषः । सङ्ख्यादेरुदाहरति — द्व्यूध्नीति । द्वे ऊधसी यस्या इति विग्रहः । बहुव्रीहेरित्येवेति ।बहुव्रीहे॑रित्यनुवर्तते एवेत्यर्थः । ऊधोऽतिक्रान्तेति ।अत्यादयः क्रान्ताद्यर्थे द्वितीयया॑ इति समासस्य अबहुव्रीहित्वान्न ङीप् । अत एव नानङ्, नापि ङीष् ।

Tattvabodhini

संख्याऽव्ययादेर्ङीप् - सङ्ख्याऽव्यया । आदिग्रहणत्पदान्तरव्यवधानेऽपि स्यादेव, द्विविधोन्धी ।

Padamanjari

पूर्वेण ङीषि प्राप्ते ङीब् विधीयत इति । यत्र पूर्वपदप्रकृतिस्वरस्तत्र बहुव्रीहौ । अन्तोदाते तु बहुव्रीहौ ङीब्ङीषोर्नास्ति विशेषः, सूध्नी,’नञ्सुभ्याम्’ इत्यन्तोदातत्वम्, तत्राल्लोपे ङीबप्यदातनिवृतनिवृतस्वरेणोदातो भवति । द्व्यूध्नीत्यादि । द्वे ऊधसी यस्याः, अतिगतमूधोऽस्याः, निर्गतमूधोऽस्या इति विग्रहः । आदिग्रहणं किमिति । संख्याव्ययाभ्यामुतरो य ऊधः शब्दस्तदन्ताद्वबहुव्रीहेरिति विज्ञायमाने द्वयूध्नीत्यादि सिद्धमिति प्रश्नः । द्विविधोध्नीति । असत्यादिग्रहणे’संख्याव्ययाभ्याम्’ इति पञ्चमीनिर्देशाताभ्यामनन्तरो य ऊधः -शब्दस्तदन्तादेव स्यात्, पदान्तरव्यवाये तु न स्यादिति भावः ॥

Nyaas

द्व्यूघ्नी`इत्यादि। द्वे ऊधसी अस्याः। त्रीण्यूधांस्यस्याः।अबिगतमूधोऽस्याः।निर्गतमूधोऽस्या इति विग्रहः।`आदिग्रहणं किम् इति। एवं मन्यते - संख्याव्ययाभ्यामित्येव वक्तव्यम्, बहुव्रीहेरूधसः (4.1.25) इति हि वर्तते,, तत्रैवमभिसम्बन्धः करिष्यते - संख्याव्ययाभ्यामुत्तरो य ऊधःशब्दस्तदन्ताबहुव्रीहेर्ङीब्भवतीति, तथा च निष्पलमादिग्रहणम्, विनापि तेन सिद्धत्वादिति। द्विविधोघ्नी इत्यादि। यद्यादिग्रहणं न क्रियेत तदा संख्याव्ययाभ्याम् इति पञ्चमीनिर्देशात् संख्याया अनन्तरो य ऊधःशब्दस्तदन्तादेव स्यात्। यत्र तु व्यवधानं तत्र तु न स्यात्, आदिग्रहणात्तु तत्रापि भवति। द्विविधमूधो यस्या इति विग्रहः। अत्रादिग्रहणे सति विधशब्देन व्यवधानेऽपि भवति॥

Prakriyasarvasvam

संख्यादेरव्ययादेरप्यूधोन्ताद् बहुव्रीहेः स्त्रियां ङीप् स्यात् । ‘ऊधसोऽनङ् (५-४-१३१) । द्व्यूध्नी । निरूध्नी । संख्यादित्वाद् द्विविधोध्नीत्याद्यपि ॥