41025: बहुव्रीहेरूधसो ङीष्

Padacheda: बहुव्रीहेः | S | 5 | 1 |

ऊधसः | S | 5 | 1 |

ङीष् | S | 1 | 1 |

Sutrartha

यस्य बहुव्रीहिसमासस्य उत्तरपदम् ऊधस् इति शब्दः अस्ति; तस्मात् स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते ।

स्त्रियाम् (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीष् प्रत्ययः प्रकृतसूत्रेण पाठ्यते । यस्य बहुव्रीहिसमासस्य उत्तरपदम् “ऊधस्” (क्षीरशयः, udder) इति शब्दः विद्यते; तत्र **ऊधसोऽनङ् (5.4.131) इत्यनेन “ऊधस्”-शब्दस्य अनङ् इति आदेशे कृते; तस्मात् स्त्रीत्वं द्योतयितुम् डाबुभाभ्यामन्यतरस्याम् (4.1.13) इत्यनेन विकल्पेन डाप्-प्रत्यये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण ङीष् प्रत्ययः विधीयते**। यथा, “ घटः इव उधः अस्याः सा” इत्यत्र एतादृशं रूपं सिद्ध्यति —

घटः इव ऊधः अस्याः सा
→ घट + ऊधस्  [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिसमासः]
→ घट + ऊध + अनङ् + ङीष् [**ऊधसोऽनङ्** (5.4.131) इति अनङ् (अन्) आदेशः । **ङिच्च** (1.1.53) इति अन्त्यादेशः । ततः स्त्रीत्वं द्योतयितुम् **बहुव्रीहेरूधसो ङीष्** (4.1.25) इति ङीष्-प्रत्ययः]
→ घट + ऊधन् + ई  [**अतो गुणे** (6.1.97) इति पररूपैकादेशः]
→ घट + ऊध्न् + ई [ई-प्रत्यये परे ऊधन्-शब्दस्य भसंज्ञा, अतः **अल्लोपोऽनः** (6.4.134) इति अकारलोपः]
→ घटोध्नी [**आद्गुणः** (6.1.87) इति गुणैकादेशः । ]

“घटः एव ऊधः अस्याः सा = घटोध्नी” । एवमेव, “कुण्डम् इव ऊधः अस्याः सा = कुण्डोध्नी” इत्यपि रूपम् अननैव प्रकारेण सिद्ध्यति ।

<note> 1. अत्र उपरिनिर्दिष्टायां प्रक्रियायाम् आदौ अतो गुणे (6.1.97) इति पररूपैकादेशः भवति; ततः अल्लोपोऽनः (6.4.134) इति अकारलोपः क्रियते । यद्यपि**अल्लोपोऽनः** (6.4.134) इति अङ्गकार्यम् अस्ति; तथापि गुणैकादेशस्य अपेक्षया तद् बहिरङ्गम् अस्ति; अतः असिद्धम् बहिरङ्गमन्तरङ्गे इत्यनया परिभाषया आदौ अन्तरङ्गः पररूपैकादेशः एव भवति । 2. अत्र प्रक्रियायाम् अन्-इत्यस्य अकारः लुप्यते, अतः अत्र (अग्रे वक्ष्यमाणेन) अन उपधालोपिनोन्यतरस्याम् (4.1.28) इत्यनेन ङीप्-प्रत्ययः अपि विकल्पेन प्राप्नोति; परन्तु प्रकृतसूत्रेण तस्य अपि बाधः क्रियते । इत्युक्ते, यस्मिन् बहुव्रीहिसमासे ऊधस्-शब्दः उत्तरपदरूपेण विद्यते तत्र स्त्रीत्वं द्योतुयितुम् केवलम् ङीष्-प्रत्ययःएव विधीयते ।</note>

दलकृत्यम्

  1. बहुव्रीहेः इति किमर्थम् ? तत्पुरुषसमासस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा, “प्राप्तं ऊधः सा” इत्यत्र प्राप्तापन्ने च द्वितीयया (2.2.4) इत्यनेन तत्पुरुषसमासे कृते, ततः अजाद्यतष्टाप् (4.1.4) इत्यनेन टाप्-प्रत्ययः एव विधीयते, येन “प्राप्तोधा” इति शब्दः सिद्ध्यति ।

बाध्यबाधकभावः

यस्य बहुव्रीहिसमासे उत्तरपदम् “ऊधस्” शब्दः अस्ति तस्य पूर्वपदस्य प्रारम्भे सङख्यावाचकशब्दः अव्ययसंज्ञकशब्दः वा वर्तते चेत् प्रकृतसूत्रेण प्राप्तं ङीष्-प्रत्ययं बाधित्वा संख्याव्ययादेर्ङीप् (4.1.26) इत्यनेन ङीप्-प्रत्ययः विधीयते । वस्तुतः ङीप्-प्रत्ययेन अपि ङीष्-प्रत्ययसदृशम् एव रूपं भवति, परन्तु तत्र स्वरस्य उच्चारणे भेदः जायते अतः अयम् अपवादः पृथग् रूपेण उक्तः अस्ति ।

ङीष्-प्रत्यये इत्संज्ञकवर्णानां प्रयोजनम्

ङीष्-प्रत्यये ङकारपकारयोः इत्संज्ञा भवति । तत्र —

  1. इत्संज्ञकः ङकारः सामान्यग्रहणार्थः (to capture ङीप् / ङीष् / ङीन् by a common prefix) स्थापितः अस्ति । ङ्याप्प्रातिपदिकात् (4.1.1) इत्यस्मिन् सूत्रे विद्यमानेन ‘ङी’ इत्यनेन ङीप्-ङीष्-ङीन्-प्रत्ययानाम् एकत्ररूपेण ग्रहणं भवेत्, इति अत्र प्रयोजनम् ।

  2. इत्संज्ञकः षकारः सामान्यग्रहणविघातार्थः(to distinguish ङीष् from ङीप् and ङीन्) स्थापितः अस्ति । केवलम् ‘ङी’ इत्युच्यमाने ङ्याप्प्रातिपदिकात् (4.1.1) इत्यत्र; तथा च ङ्यापोः संज्ञाछन्दसोर्बहुलम् (6.3.63) इत्यत्रापि तदनुबन्धके न अतदनुबन्धकस्य अनया परिभाषया ङीप्-प्रत्ययस्य ङीन्-प्रत्ययस्य च इष्टं ग्रहणं नैव स्यात्, अतः अत्र (व्यर्थः) षकारः अनुबन्धरूपेण स्थापितः विद्यते ।

Vasu English Summary

The affix ङीप् is used in the feminine after a बहुव्रीहि समास ending in the word ऊधस् ‘an udder’.

Vasu English Translation

The affix ङीप् is used in the feminine after a बहुव्रीहि समास ending in the word ऊधस् ‘an udder’. Thus the Bahuvrihi compound of कुण्ड ‘a bowl’ and ऊधस् will be कुण्डोधस्; then the final of udhas is replaced by the substitute अनङ् (5.4.131); thus we have कुण्डोधन्; which would have been liable to the rules (4.1.12), (4.1.13) ante ; the present ¬*sutra* enjoins ङीष् instead. Thus कुण्डोध्नी (6.4.134) ‘a woman with full bosom’; घटोध्नी ‘a cow with udders like jars’.

Why do we say ‘after a Bahuvrihi compound’? Observe प्राप्ता ऊधः = प्राप्तोधाः (2.2.4) which is a Tatpurusha compound.

The Sutra (4.1.28) also is debarred in this case: for though the penultimate अ is elided by the (6.4.134), yet rule (4.1.28) does not apply here.

The substitution of अन् for the final of ऊधस् takes place only then, when the feminine nature is to be expressed and not otherwise. Therefore in the masculine we have महोधा पर्जन्यः ‘the big-bosomed cloud’.

Bhashya

बहुव्रीहेरूधसो ङीष् (1295) (ङीषधिकरणम्) (5151 पूर्वपक्षवार्तिकम्॥ 1 ॥) -ऊधसो नकारो लिङ्गाधिकारे - (भाष्यम्)ऊधसो नकारो लिङ्गाधिकारे वक्तव्यः। इह मा भूत् -महोधाः पर्जन्य इति॥ (5152 सिद्धान्तवार्तिकम्॥ 2 ॥) - न वा समासान्ताधिकारे स्त्रीग्रहणात् - (भाष्यम्) न वा लिङ्गाधिकारे नकारः कर्तव्यः। किं कारणम्? समासान्ताधिकारे स्त्रीग्रहणात् -समासान्ताधिकार एव स्त्रीग्रहणं कर्तव्यम्॥ (5153 सिद्धान्तसाधकवार्तिकम्॥ 3 ॥ ) - इतरथा हि कब्विधिप्रसङ्गः - (भाष्यम्) इतरथा हि कब्विधिः प्रसज्येत॥ कस्यां पुनरवस्थायां कप्प्राप्नोति? प्राक् ङीषुत्पत्तेः॥ प्राक्तावन्न प्राप्नोति। किं कारणम्? न हि ङीष्विभाषा॥ उत्पन्ने तर्हि ङीषि प्राप्नोति॥ उत्पन्ने चापि न प्राप्नोति। किं कारणम्? नद्यन्तानां यो बहुव्रीहिरित्येवं तत्। न चैष नद्यन्तानां बहुव्रीहिः॥ प्रागेव तर्हि प्राप्नोति। ननु चोक्तं न हि ङीष्विभाषेति। यद्यपि न ङीष्विभाषा, कप् तु विभाषा॥ कपोऽवकाशः -अन्यो बहुव्रीहिः -अयवकः, अव्रीहिकः। ङीषोऽवकाशः -विभाषा कब्, यदा न कप् सोऽवकाशः -कुण्डोध्नी, घटोध्नी। कप्प्रसङ्ग उभयं प्राप्नोति, परत्वात्कप्स्यात्। (सिद्धान्तभाष्यम्) तस्मात्सुष्ठूच्यते -न वा समासान्ताधिकारे स्त्रीग्रहणादितरथा हि कब्विधिप्रसङ्ग इति॥

Kashika

ऊधस्शब्दान्ताद् बहुव्रीहेः स्त्रियां ङीष् प्रत्ययो भवति। ऊधसोऽनङ् (५.४.१३१) इति समासान्ते कृते अनो बहुव्रीहेः (४.१.१२) इति डाप्प्रतिषेधयोः प्राप्तयोरिदमुच्यते। घटोध्नी। कुण्डोध्नी। बहुव्रीहेरिति किम्? प्राप्ता ऊधः प्राप्तोधाः। अन उपधालोपिनः० (४.१.२८) इत्यस्यापि ङीपोऽयमुत्तरत्रानुवृत्तेर्बाधक इष्यते। समासान्तश्च स्त्रियामेव। इह न भवति — महोधाः पर्जन्य इति॥

Siddhanta Kaumudi

ऊधोन्ताद्बहुव्रीहेर्ङीष् स्यात् स्त्रियाम् । कुण्डोध्नी । स्त्रियां किम् ? कुण्डोधो धैनुकम् । इहानङपि न । तद्विधौ ।<!स्त्रियाम् !> (वार्तिकम्) ॥ इत्युपसङ्ख्यानात् ॥

Balamanorama

बहुव्रीहेरूधसो ङीष् - बहुव्रीहेः । ‘ऊधस’ इति बहुव्रीहेर्विशेषणम्, तदन्तविधिः, स्त्रियामित्यधिकृतम् । तदाह — ऊधोऽन्तादिति । कुण्डोध्नीति । अनङि कृते ङीषि ‘अल्लोपोऽनः’ इति भावः ।ऊधस्तु क्लीबमापीन॑मित्यमरः । ङीष्विधेस्तु स्वरे विशेषः फलम् । स्त्रियां किमिति । ङीष्विधौ स्त्रियामित्यनुवृत्तिः किमर्थेति प्रश्नः । कुण्डोधो धैनुकमिति । कुण्डमिव ऊधोयस्येति विग्रहः । नपुंसकत्वस्फोरणायधैनुक॑मिति विशेष्यम् । धेनूनां समूह इत्यर्थः ।अचित्तहस्तिधेनोष्ठक् । ‘इसुसुक्तान्तात्कः’आदिवृद्धिः, क्लीबत्वं लोकात् । अत्र स्त्रीत्वाऽभावान्न ङीषित्यर्थः । ननु मास्तु ङीष्, अनङ् तु कुतो न स्यात्, समासान्तप्रकरणस्थे ऊधसोऽनङ्विधौस्त्रिया॑मित्यभावादित्यत आह — तद्विधाविति । ऊधसोऽनङ्विधौस्त्रिया॑मित्युपसङ्ख्यानादित्यर्थः । बहुव्रीहेः किम् । ऊधः प्राप्तेति विग्रहेप्राप्तापन्ने च द्वितीयये॑ति समासेप्राप्तोधाः॑ ।

Tattvabodhini

बहुव्रीहेरूधसो ङीष् - ऊधोन्तस्य बहुव्रीहेरिति । समासान्तप्रकरणस्थत्वेऽप्यनङो न प्रत्ययत्वम्, अन्यथा ङित्त्ववैयथ्र्यापत्तेरिति प्राञ्चः । वस्तुतस्तु ष्यङ इव प्रत्ययत्वेऽप्यादेशत्वमविरुद्धं,कुण्डोध्नी॑त्यत्र ङीषि कृते स्वरेऽपि विशेषाऽभावादिति बोध्यम् । स्त्रियामिति । उपसङ्ख्यानाल्लब्धमेतत् । डाम्ङीन्बिषेधेष्बिति ।डाबुभाभ्या॑मिति वैकल्पिको डाप् ।अन उपधालोपिनोऽन्यतरस्या॑मिति विकल्पेन ङीप् ।अनो बहुव्रीहे॑रित्यनेनऋन्नेभ्य॑इति प्राप्तस्य ङीपो निषेध इथि विवेकः । ङीष् स्यादिति । पर्कृतो ङीबेव तु न विहितः, स्वरे विशेषात् । कुण्डोन्धीति । कुण्डमिव ऊधो यस्याः सा । बहुव्रीहेः किम् । प्राप्ता ऊधः — प्राप्तोधाः ।प्राप्तापन्ने चे॑ति समासः । धैनुकमिति ।अचित्तहस्ती॑ति समूहार्थे ठक् ।इसुसुक्तान्तात्कः॑ । स्त्रियामित्युपसङ्ख्यानादिति । नन्विहैव लाघवार्थंबहुव्रीहेरूधसो ङीषे॑नश्चे॑ति सूत्र्यताम्अनङ् चे॑ति वा । समासान्तेषुऊधसो न॑ङिति च त्यक्त्वाधनुषो न॑ङित्येव पठताम् । मैवम् । कबभावे सावकाशस्याऽस्य पक्षे कपा बाधपत्तेः । सिद्धान्ते त्वनङः समासान्ततया शेषत्वमेवेह नास्तीति न कप् ।

Padamanjari

ठूधसोऽनङ्ऽ इति । समासान्ते कृत इति समासार्थादुतरपदाद्भवन्समासान्तः पूर्वं भवति, ततः स्त्रीप्रत्ययः । अनो बहुव्रीहेरिति । उपल7णमेततत् । ठनो बहुव्रीहेःऽ,’डाबुभाभ्याभन्यतरस्याम्’ इति चेत्यर्थः । कुण्डोध्नीति । कुण्डमिव ऊधोऽस्या इति विग्रहः, ङीषि ठल्लोपोऽनःऽ इत्यकारलोपः । प्राप्तोधा इति ।’प्राप्तापन्ने च द्वितीयया’ इति तत्पुरुषः, ठत्वसन्तस्यऽ इति दीर्घः । अन उपधालोपिन इत्यादि । असत्यां पुनरनुवृतौ मध्येऽपवादन्यायेन डाप्प्रतिषेधयोरेवायं ङीष् बाधकः स्यात्, न ठन उपधालोपिनःऽ इत्यस्य ङीपः । ननु च’डाबुभाभ्याम्’ इत्यत्रानेनान्यतरस्यांग्रहणेन ङीबपि प्राप्यते, ठन उपधालोपिनःऽ इत्यय तु नियम इत्यावीदीति कुतोऽयमनिष्टप्रसङ्गः ? सत्यम् ; अन ठुपधालोपिनःऽ इत्यस्य तु विधित्वाभ्युपगमेनैतदुक्तम् । इह बहुव्रीहेरूधसो ङीष् नश्चेति वक्तव्यम्, ऊधः शब्दान्ताद्वहुव्रीहेः स्त्रियां ङीष् भवति तत्सन्नियोगेन चान्त्यस्य नकारः, समासान्तप्रकरणे तु ऊधसऽनङिति न वक्तव्यम्,’धनुषो’ नङ्ऽ इत्येव पठितव्यम्, कः पुनरेवं सति गुणो भवति ? ठन उपधालोपिनःऽ इत्यत्रास्यानुवृत्तिर्नाश्रयितव्या भवति; अपि च महोधाः पर्जन्यः, वुण्डोधो धैनुकमिति सिद्धं भवति, अन्यथा ठूधसोऽनङ्ऽ इत्यत्र स्त्रियामिति वक्तव्यं स्यादत आह - समासान्तश्च स्त्रियामेवेति । इष्यत इत्यनुषङ्गः, तत्रैव स्त्रियामिति वक्तव्यमित्यर्थः, इतरथा हि कब्विधिप्रसङ्गः । कपोऽवकाशोऽन्यो बहुव्रीहिः - अयवकः अव्रीहिकः, ङीषस्तु - विभाषा कप्, यदा न कप् सोऽवकाशः; कप्प्रसङ्गे उभयं प्राप्नोति परत्वात्कप् स्यात् ॥

Nyaas

ऊधसोऽनङिति समासान्ते कृते इति। अकृत एव समासे बहुव्रीह्रर्थं उत्तरपदे पूर्वं समासान्तेन भवितव्यमिति प्राक् ततः समासान्त एव भवति, ततो बहुव्रीहिः ततः स्त्रीप्रत्ययः - इत्येवैवानुपूर्वी।अनो बहुव्रीहेः इत्यादि। इतिशब्द आद्यर्थे। अनो बहुव्रीहेः (4.1.12) इत्यादिना शास्त्रान्तरेणेत्यर्थः। तत्र अनो बहुव्रीहेः इत्यनेन सूत्रेण प्रतिषेधे प्राप्ते डाबुभाभ्यामन्यतरस्याम् (4.1.13) इत्यनेन डाप्। कुण्डोघ्नी इति। कुण्डमिवोधोऽस्या इति बहुव्रीहिः,**अल्लोपोऽनः** (6.4.134) इत्यकारलोपः।प्राप्तोधाः इति। प्राप्तापन्ने च द्वितीयया (2.2.4) इति तत्पुरुषः, अत्वसन्तस्य चाधातोः (6.4.14) इति दीर्घः।अन उपधालोपिनः`इत्यादि। `अन उपधालोपिनोऽन्यतरस्याम् (4.1.28) इत्येतेनापि विधीयमानस्य ङीपोऽयं ङीब्बाधक इष्यते। कथं पुनरिहोच्यमानस्तस्य बाधको भवति? उत्तरसूत्रानुवृत्तेः। असत्यानुत्तरत्रानुवृत्तौ मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते (व्या।प।10) इत्येवमयं ङीब्डाप्प्रतिषेधावेव बाधते, नोपधालोपिनो ङीषम्। ततशचोपधालोपिनः परत्वात् स एव पक्षे भवेत्। तस्मात् अन उपधालोपिनः (4.1.28) इत्यत्रास्यानुवृत्तिः कर्तव्याः। तेनोपधालोपिनोऽप्यूधसन्तान्ङीषेव भवति। समासान्तश्च स्त्रियामेव इति। समासान्तविधेरनित्यत्वात्। अनित्यत्वं तु पुनरूधःशब्देन सकारान्तेनासमासान्तेन विशेषणाद्विज्ञायते। यदि हि नित्यः स्यात् बहुव्रीहेरूघ्नः इति निर्देशः स्यात्॥

Sutra Prayogas

  • कुण्डोध्नी (रघुवंशम्): बहुर्वीहेरूधसो ङीष् इति ङीष्।

  • घटोध्नीः (रघुवंशम्): बहुव्रीहेरूधसो ङीष् इति ङीष्।