41026: संख्याव्ययादेर्ङीप्
==========================
**Padacheda:** संख्या-अव्ययादेः | S | 5 | 1 |
ङीप् | S | 1 | 1 |
Sutrartha
---------
**यस्य बहुव्रीहिसमासस्य उत्तरपदम् 'ऊधस्' इति शब्दः तथा च पूर्वपदस्य प्रारम्भः सङ्ख्यावाचकशब्देन, अव्ययवाचकशब्देन वा भवति, तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते ।**
**स्त्रियाम्** (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः **ङीप्** प्रत्ययः प्रकृतसूत्रेण पाठ्यते । **यस्य बहुव्रीहिसमासस्य उत्तरपदम् "ऊधस्" (क्षीरशयः, udder) इति शब्दः विद्यते तथा च पूर्वपदस्य प्रारम्भः सङ्ख्यावाचकशब्देन, अव्ययवाचकशब्देन वा भवति, तत्र स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति** — इति अस्य सूत्रस्य अर्थः । अत्र **बहुव्रीहेरूधसो ङीष्** (4.1.25) इत्यनेन प्राप्तं ङीष्-प्रत्ययं बाधित्वा ङीप्-प्रत्ययविधानार्थम् इदं सूत्रं रचितम् अस्ति । उदाहरणानि एतानि —
1. " द्वे ऊधसी यस्याः" अत्र "द्व्यूध्नी" इति अन्तिमम् रूपम् एतादृशं सिद्ध्यति —
.. code-block:: text
द्वे ऊधसी अस्याः सा
→ द्वि + ऊधस् [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिसमासः]
→ द्वि + ऊध + अनङ् + ङीप् [**ऊधसोऽनङ्** (5.4.131) इति अनङ् (अन्) आदेशः । **ङिच्च** (1.1.53) इति अन्त्यादेशः । ततः स्त्रीत्वं द्योतयितुम् **बहुव्रीहेरूधसो ङीष्** (4.1.25) इति ङीष्-प्रत्यये प्राप्ते; तद्बाधित्वा **संख्याव्ययादेर्ङीप्** (4.1.26) इति ङीप्-प्रत्ययः]
→ द्वि + ऊधन् + ई [**अतो गुणे** (6.1.97) इति पररूपैकादेशः]
→ द्वि + ऊध्न् + ई [ई-प्रत्यये परे ऊधन्-शब्दस्य भसंज्ञा, अतः **अल्लोपोऽनः** (6.4.134) इति अकारलोपः]
→ द्व्यूध्नी [**इको यणचि** (6.1.77) इति यणादेशः ।]
2. "द्विविधे ऊधसी यस्याः" अत्रापि पूर्वपदम् सङ्ख्यावाचकशब्देन (द्वि-इत्यनेन) प्रारभ्यते; अतः अत्रापि प्रकृतसूत्रेण ङीप्-प्रत्ययः एव भवति, येन "द्विविधोध्नी" इति शब्दः सिद्ध्यति —
.. code-block:: text
द्विविधे ऊधसी अस्याः सा
→ द्विविध + ऊधस् [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिसमासः]
→ द्विविध + ऊध + अनङ् + ङीप् [**ऊधसोऽनङ्** (5.4.131) इति अनङ् (अन्) आदेशः । **ङिच्च** (1.1.53) इति अन्त्यादेशः । ततः स्त्रीत्वं द्योतयितुम् **बहुव्रीहेरूधसो ङीष्** (4.1.25) इति ङीष्-प्रत्यये प्राप्ते; तद्बाधित्वा **संख्याव्ययादेर्ङीप्** (4.1.26) इति ङीप्-प्रत्ययः]
→ द्विविध + ऊधन् + ई [**अतो गुणे** (6.1.97) इति पररूपैकादेशः]
→ द्विविध + ऊध्न् + ई [ई-प्रत्यये परे ऊधन्-शब्दस्य भसंज्ञा, अतः **अल्लोपोऽनः** (6.4.134) इति अकारलोपः]
→ द्विविधोध्नी [**आद्गुणः** (6.1.87) इति गुणैकादेशः ।]
3. "अतिगतम् ऊधः अस्याः" इत्यत्र पूर्वपदम् 'अति' इति अव्ययसंज्ञकम् अस्ति, अतः अत्र प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति, येन "अत्यूध्नी" इति शब्दः सिद्ध्यति —
.. code-block:: text
अतिगतम् ऊधः अस्याः
→ अति + ऊध [**अनेकमन्यपदार्थे** (2.2.24) इत्यत्र निर्दिष्टेन इति वार्त्तिकेन बहुव्रीहिसमासः विधीयते, तथा च एतादृशे समासे 'गत' इत्यस्य लोपः भवति ।
→ अति + ऊध + अनङ् + ङीप् [**ऊधसोऽनङ्** (5.4.131) इति अनङ् (अन्) आदेशः । **ङिच्च** (1.1.53) इति अन्त्यादेशः । ततः स्त्रीत्वं द्योतयितुम् **बहुव्रीहेरूधसो ङीष्** (4.1.25) इति ङीष्-प्रत्यये प्राप्ते; तद्बाधित्वा **संख्याव्ययादेर्ङीप्** (4.1.26) इति ङीप्-प्रत्ययः]
→ अति + ऊधन् + ई [**अतो गुणे** (6.1.97) इति पररूपैकादेशः]
→ अति + ऊध्न् + ई [ई-प्रत्यये परे ऊधन्-शब्दस्य भसंज्ञा, अतः **अल्लोपोऽनः** (6.4.134) इति अकारलोपः]
→ अत्यूध्नी [**इको यणचि** (6.1.77) इति यणादेशः ।]
4. "निर्गतम् ऊधः अस्याः" इत्यत्र पूर्वपदम् 'निर्' इति अव्ययसंज्ञकम् अस्ति, अतः अत्र प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति, येन "निरूध्नी" इति शब्दः सिद्ध्यति —
.. code-block:: text
निर्गतम् ऊधः अस्याः
→ निर् + ऊध [**अनेकमन्यपदार्थे** (2.2.24) इत्यत्र निर्दिष्टेन इति वार्त्तिकेन बहुव्रीहिसमासः विधीयते, तथा च एतादृशे समासे 'गत' इत्यस्य लोपः भवति ।
→ निर् + ऊध + अनङ् + ङीप् [**ऊधसोऽनङ्** (5.4.131) इति अनङ् (अन्) आदेशः । **ङिच्च** (1.1.53) इति अन्त्यादेशः । ततः स्त्रीत्वं द्योतयितुम् **बहुव्रीहेरूधसो ङीष्** (4.1.25) इति ङीष्-प्रत्यये प्राप्ते; तद्बाधित्वा **संख्याव्ययादेर्ङीप्** (4.1.26) इति ङीप्-प्रत्ययः]
→ निर् + ऊधन् + ई [**अतो गुणे** (6.1.97) इति पररूपैकादेशः]
→ निर् + ऊध्न् + ई [ई-प्रत्यये परे ऊधन्-शब्दस्य भसंज्ञा, अतः **अल्लोपोऽनः** (6.4.134) इति अकारलोपः]
→ निरूध्नी
**सूत्रे आदिग्रहणस्य प्रयोजनम्**
प्रकृतसूत्रे विद्यमानः "आदि" इति शब्दः "सङ्ख्या" तथा च "अव्ययम्" इति उभाभ्यां सह अन्वेति । इत्युक्ते, यस्य बहुव्रीहिसमासस्य पूर्वपदम् सङ्ख्यादिः / अव्ययादिः वा अस्ति (beings with a सङ्ख्या or an अव्यय) तस्य विषये इदं सूत्रं प्रसज्यते । अतएव "द्विविध", "त्रिविध" एतादृशाः शब्दाः पूर्वपदरूपेण सन्ति चेदपि प्रकृतसूत्रस्य प्रयोगः सम्भवति । यदि अस्मिन् सूत्रे "आदि" इति शब्दः न भवेत्, तर्हि तत्र केवलं तादृशस्य एव बहुव्रीहि समासस्य ग्रहणं स्यात् यत्र साक्षात् सङ्ख्यावाचकः अव्ययवाचकः शब्दः एव पूर्वपदरूपेण विद्येत । अतएव अत्र न्यासकारः स्पष्टी करोति —
यदि आदिग्रहणं न क्रियेत, तदा संख्याव्ययाभ्याम् इति पञ्चमीनिर्देशात् संख्याया अनन्तरः य ऊधःशब्दः तदन्तादेव स्यात्। यत्र तु व्यवधानं तत्र तु न स्यात्, आदिग्रहणात्तु तत्रापि भवति । — न्यासः
यद्यपि आदिग्रहणम् "अव्ययम्" इति शब्देन सह अपि अन्वेति, तथापि तस्य उदाहरणानि व्याख्यानेषु नैव दृश्यन्ते । तादृशानि उदाहरणानि भाषायां न हि भवन्ति इत्येव तस्य कारणम् ।
**बाध्यबाधकभावः**
यस्य बहुव्रीहिसमास्य उत्तरपदम् "ऊधस्" इति शब्दः अस्ति, तस्य विषये स्त्रीत्वं द्योतयितुम् वस्तुतः **बहुव्रीहेरूधसो ङीष्** (4.1.25) इत्यनेन ङीष्-प्रत्ययः विधीयते । परन्तु यदि अस्य समासस्य पूर्वपदम् सङ्ख्यादिः, अव्ययादिः वा शब्दः अस्ति; तर्हि तं ङीष्-प्रत्ययं बाधित्वा प्रकृतसूत्रेण तत्र ङीप्-प्रत्ययः एव भवति ।
प्रकृतसूत्रस्य उदाहरणेषु अन्-इत्यस्य अकारः लुप्यते, अतः अत्र (अग्रे वक्ष्यमाणेन) **अन उपधालोपिनोन्यतरस्याम्** (4.1.28) इत्यनेन ङीप्-प्रत्ययः वस्तुतः विकल्पेन प्राप्नोति; परन्तु प्रकृतसूत्रेण कृतं तस्य नित्यविधानम् एतादृशं वैकल्पिकं विधानम् अपि बाधते; अतः प्रकृतसूत्रेण निर्दिष्टेषु स्थलेषु नित्यः एव ङीप्-प्रत्ययः भवति ।
**ङीप्/ङीष्-प्रत्यययोः भेदः**
ङीप्-प्रत्ययस्य योजनेन यद् रूपं सिद्ध्यति, तदेव रूपम् ङीष्-प्रत्ययस्य योजनेन अपि सिद्ध्यति । परन्तु तत्र द्वयोः अपि प्रत्यययोः उच्चारणे भेदः विद्यते । ङीप्-प्रत्ययस्य ईकारः **अनुदात्तौ सुप्पितौ** (3.1.4) इत्यनेन **अनुदात्तसंज्ञकः** अस्ति । ङीष्-प्रत्ययस्य ईकारः तु **आद्युदात्तश्च** (3.1.3) इत्यनेन **उदात्तसंज्ञकः** अस्ति । एतादृशं स्वरभेदम् दर्शयितुम् एव आचार्येण एतौ द्वौ पृथक्-प्रत्ययौ कृतौ स्तः ।
Vasu English Summary
--------------------
The affix ङीप् comes in the feminine after a बहुव्रीहि समास ending in the word ऊधस् 'an udder', beginning with a Numeral or indeclinable.
Vasu English Translation
------------------------
The affix ङीप् comes in the feminine after a बहुव्रीहि समास ending in the word ऊधस् 'an udder', beginning with a Numeral or indeclinable.
This *sutra* ordains '*nip*', where by the last *sutra* there would have been '*nish*'. Thus द्वी + ऊधस् + अनङ् + ङीप् (5.4.131) = द्व्यूध्नी 'having two udders'; so also त्र्यूध्नी, 'having three udders'. The above are *Bahuvrihi* compounds beginning with a Numeral. Similarly अत्यूध्नी 'many-uddered.; निरूध्नी 'having no udders'.
Why do we say 'beginning with'? So that the rule may apply to compounds like द्विविधोध्नी and त्रिविधोध्नी, in which the words '*dvividha*' and '*trividha*', though not *Sankhya* are words which begin with a *Sankhya*.
Kashika
-------
पूर्वेण ङीषि प्राप्ते ङीब् विधीयते। संख्यादेरव्ययादेश्च बहुव्रीहेरूधःशब्दान्ताद् ङीष् प्रत्ययो भवति। संख्यादेस्तावत् — द्व्यूध्नी। त्र्यूध्नी। अव्ययादेः — अत्यूध्नी। निरूध्नी। आदिग्रहणं किम्? द्विविधोध्नी। त्रिविधोध्नीत्यत्रापि यथा स्यात्॥
Siddhanta Kaumudi
-----------------
ङीषोऽपवादः । द्व्यूध्नी । अत्यूध्नी । बहुव्रीहेरित्येव । ऊधोऽतिक्रान्ता अत्यूधाः ॥
Balamanorama
------------
**संख्याऽव्ययादेर्ङीप्** - सङ्ख्याव्ययादेर्ङीप् । सङ्ख्याव्ययादेरूधोऽन्तात्स्त्रियां ङीप् स्यादित्यर्थः । ङीषोऽपवाद इति ।बहुव्रीहेरूधसो ङी॑षित्यस्यापवाद इत्यर्थः । स्वरे विशेषः । सङ्ख्यादेरुदाहरति — द्व्यूध्नीति । द्वे ऊधसी यस्या इति विग्रहः । बहुव्रीहेरित्येवेति ।बहुव्रीहे॑रित्यनुवर्तते एवेत्यर्थः । ऊधोऽतिक्रान्तेति ।अत्यादयः क्रान्ताद्यर्थे द्वितीयया॑ इति समासस्य अबहुव्रीहित्वान्न ङीप् । अत एव नानङ्, नापि ङीष् ।
Tattvabodhini
-------------
**संख्याऽव्ययादेर्ङीप्** - सङ्ख्याऽव्यया । आदिग्रहणत्पदान्तरव्यवधानेऽपि स्यादेव, द्विविधोन्धी ।
Padamanjari
-----------
पूर्वेण ङीषि प्राप्ते ङीब् विधीयत इति । यत्र पूर्वपदप्रकृतिस्वरस्तत्र बहुव्रीहौ । अन्तोदाते तु बहुव्रीहौ ङीब्ङीषोर्नास्ति विशेषः, सूध्नी,'नञ्सुभ्याम्' इत्यन्तोदातत्वम्, तत्राल्लोपे ङीबप्यदातनिवृतनिवृतस्वरेणोदातो भवति । द्व्यूध्नीत्यादि । द्वे ऊधसी यस्याः, अतिगतमूधोऽस्याः, निर्गतमूधोऽस्या इति विग्रहः । आदिग्रहणं किमिति । संख्याव्ययाभ्यामुतरो य ऊधः शब्दस्तदन्ताद्वबहुव्रीहेरिति विज्ञायमाने द्वयूध्नीत्यादि सिद्धमिति प्रश्नः । द्विविधोध्नीति । असत्यादिग्रहणे'संख्याव्ययाभ्याम्' इति पञ्चमीनिर्देशाताभ्यामनन्तरो य ऊधः -शब्दस्तदन्तादेव स्यात्, पदान्तरव्यवाये तु न स्यादिति भावः ॥
Nyaas
-----
`द्व्यूघ्नी`इत्यादि। द्वे ऊधसी अस्याः। त्रीण्यूधांस्यस्याः।अबिगतमूधोऽस्याः।निर्गतमूधोऽस्या इति विग्रहः।`आदिग्रहणं किम्` इति। एवं मन्यते - संख्याव्ययाभ्यामित्येव वक्तव्यम्, `बहुव्रीहेरूधसः` (4.1.25) इति हि वर्तते,, तत्रैवमभिसम्बन्धः करिष्यते - संख्याव्ययाभ्यामुत्तरो य ऊधःशब्दस्तदन्ताबहुव्रीहेर्ङीब्भवतीति, तथा च निष्पलमादिग्रहणम्, विनापि तेन सिद्धत्वादिति। `द्विविधोघ्नी` इत्यादि। यद्यादिग्रहणं न क्रियेत तदा `संख्याव्ययाभ्याम्` इति पञ्चमीनिर्देशात् संख्याया अनन्तरो य ऊधःशब्दस्तदन्तादेव स्यात्। यत्र तु व्यवधानं तत्र तु न स्यात्, आदिग्रहणात्तु तत्रापि भवति। द्विविधमूधो यस्या इति विग्रहः। अत्रादिग्रहणे सति विधशब्देन व्यवधानेऽपि भवति॥
Prakriyasarvasvam
-----------------
संख्यादेरव्ययादेरप्यूधोन्ताद् बहुव्रीहेः स्त्रियां ङीप् स्यात् । ‘ऊधसोऽनङ् (५-४-१३१) । द्व्यूध्नी । निरूध्नी । संख्यादित्वाद् द्विविधोध्नीत्याद्यपि ॥