41024: पुरुषात् प्रमाणेऽन्यतरस्याम्¶
Padacheda: पुरुषात् | S | 5 | 1 |
प्रमाणे | S | 7 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
यस्य तद्धितार्थद्विगुसमासस्य उत्तरपदम् ‘पुरुष’ इति प्रमाणवाचकः शब्दः अस्ति, तस्मात् तद्धितप्रत्ययस्य लुकि कृते स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विकल्पेन निषिध्यते ।
स्त्रियाम् (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण निषिध्यते । यस्मिन् तद्धितार्थद्विगुसमासे उत्तरपदरूपेण “पुरुषः” इति शब्दः प्रमाणम् (unit of measurement) अस्मिन् अर्थे प्रयुक्तः अस्ति, तत्र तद्धितप्रत्ययस्य लुकि सति, स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विकल्पेन निषिध्यते — इति अस्य सूत्रस्य आशयः । मूलतः द्विगोः (4.1.21) इत्यनेन ङीप्-प्रत्यये प्राप्ते; ततः अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि (4.1.22) इति तस्य नित्यं निषेधे प्राप्ते ; तस्य वैकल्पिकविधानार्थम् प्रकृसूत्रम् पाठितम् अस्ति । यथा, “द्वौ पुरुषौ प्रमाणम् अस्याः” इत्यत्र आदौ संख्यापूर्वो द्विगुः (2.1.52) इति द्विगुसमासे कृते; ततः प्रमाणे द्वयसज्दघ्नञ्मात्रचः (5.2.37) इत्यनेन मात्रच्-प्रत्यये कृते; तत्रैव विद्यमानेन <!प्रमाणे लो द्विगोर्नित्यम्!> इत्यनेन मात्रच्-प्रत्ययस्य लुक् भवति । एतादृशे लुकि कृते; स्त्रीत्वं द्योतयितुम् द्विगोः (4.1.21) इत्यनेन प्राप्तस्य ङीप्-प्रत्ययस्य अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि (4.1.22) इत्यनेन नित्यं निषेधे प्राप्ते प्रकृतसूत्रेण सः विकल्प्यते । अतः ङीप्-प्रत्यये कृते “द्वि + पुरुष + ङीप् → द्विपुरुषी” तथा च ङीप्-प्रत्ययस्य अभावे अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्यये कृते “द्वि + पुरुष + टाप् → द्विपुरुषा” इति उभयथा प्रयोगः सिद्ध्यति । <note>प्रमाणम् अस्मिन् अर्थे प्रयुक्तः “पुरुष” इति शब्दः परिमाणम् (standard unit of measurement) नास्ति, अतः तस्य विषये अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि (4.1.22) इति सूत्रम् अवश्यम् प्राप्नोति; तस्य वैकल्पिक-निषेधं कृत्वा ङीप्-प्रत्ययस्य पुनर्विधानार्थम् इदं सूत्रं रचितं वर्तते ।</note>
दलकृत्यम्
प्रमाणे इति किमर्थम् ? यत्र “पुरुष” शब्दः प्रमाणभिन्ने अर्थे प्रयुक्तः अस्ति, तत्र प्रकृतसूत्रम् नैव प्रयुज्यते । यथा, “द्वाभ्यां पुरुषाभ्यां क्रीता” इत्यत्र आदौ संख्यापूर्वो द्विगुः (2.1.52) इत्यनेन द्विगुसमासे कृते ततः तेन क्रीतम् (5.1.37) इत्यस्मिन् अर्थे आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् (5.1.19) इति सूत्रेण ठक्-प्रत्ययः भवति, तस्य च अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् (5.1.28) इत्यनेन लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् द्विगुश्च (2.1.23) इति ङीप्-प्रत्यये प्राप्ते; अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि (4.1.22) इति सूत्रेण सः अवश्यः एव निषिध्यते । अत्र प्रकृतसूत्रेण विकल्पः न प्राप्नोति यतः “पुरुष” इति शब्दः अस्मिन् उदाहरणे प्रमाणम् इत्यर्थे नैव प्रयुक्तः वर्तते । अतः अत्र अजाद्यतष्टाप् (4.1.4) इत्यनेन टाप्-प्रत्यये कृते “द्वि + पुरुष + टाप् → द्विपुरुषा” इति शब्द सिद्ध्यति ।
तद्धितार्थद्विगुसमासे इति किमर्थम्? यत्र “पुरुष” इति शब्दः ‘प्रमाणम्’ अस्मिन् अर्थे समाहारद्वन्द्वे प्रयुज्यते; तत्र अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि (4.1.22) इति ङीप्-प्रत्ययस्य निषेधः एव न प्राप्नोति; अतश्च तत्र प्रकृतसूत्रस्य प्रयोगः अपि नैव सम्भवति । यथा, “ द्वयोः पुरुषयोः समाहारः” इत्यत्र “द्वि + पुरुष” इति समाहारद्विगुसमासे कृते तत्र <!अकारान्तोदत्तरपदो द्विगुः स्त्रियां भाषते!> इति वार्त्तिकेन नित्यं स्त्रीलिङ्गमेव इष्यते । अस्यां स्थितौ अत्र द्विगोः (4.1.21) इत्यनेन ङीप्-प्रत्ययः अवश्यं भवति, येन “द्वि + पुरुष + ङीप् → द्विपुरुषी” इति शब्दः सिद्ध्यति ।
Vasu English Summary¶
The affix ङीप् is not optionally used after a द्विगु समास (Numeral Determinative Compound) where the तद्धित affix is elided when the compound ends in the word पुरुष , referring to ‘measure’.
Vasu English Translation¶
The affix ङीप् is not optionally used after a द्विगु समास (Numeral Determinative Compound) where the तद्धित affix is elided when the compound ends in the word पुरुष , referring to ‘measure’. Thus द्विपुरुषा or द्विपुरुषी परिखा ‘a mote two purusha wide’ so also त्रिपुरुषी or त्रिपुरुषा &c. The present sutra ordains an option where (4.1.22) would have made the prohibition universal. Why do we say ‘when referring to measure’? Observe द्विपुरुषा ‘a female purchased in exchange for two males’; No option is allowed here. Where the Taddhita affix is not elided, the present rule does not apply. Therefore in Samahara Dvigu we have द्विपुरुषी or त्रिपुरुषी ॥
Kashika¶
द्विगोस्तद्धितलुकीत्येव। प्रमाणे यः पुरुषशब्दः, तदन्ताद् द्विगोस्तद्धितलुकि सत्यन्यतरस्यां न ङीप् प्रत्ययो भवति। द्वौ पुरुषौ प्रमाणमस्याः परिखायाः द्विपुरुषा, द्विपुरुषी। त्रिपुरुषा, त्रिपुरुषी। अपरिमाणान्तत्वाद् नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं वचनम्। प्रमाण इति किम्? द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा। त्रिपुरुषा। तद्धितलुकीत्येव — समाहारे — द्विपुरुषी, त्रिपुरुषी॥
Siddhanta Kaumudi¶
प्रमाणे यः पुरुषस्तदन्ताद्द्विगोर्ङीप् वा स्यात्तद्धितलुकि । द्वौ पुरुषौ प्रमाणमस्याः सा द्विपुरुषी द्विपुरुषा वा परिखा ॥
Balamanorama¶
पुरुषात् प्रमाणेऽन्यतरस्याम् - पुरुषात् । द्विगोरिति तद्धितलुकीति ङीबिति चानुवर्तते । तदाह — प्रमाणे य इत्यादिना । प्रमाणमायामः,आयामस्तु प्रमाणं स्यात् इति वचनात् । द्वौ पुरुषाविति ।पञ्चहस्तायामः पुरुषः॑ इति शुल्वसूत्रात् । द्वौ पुरुषौ प्रमाणमस्या इति विग्रहे ‘तद्धितार्थ’ इति द्विगुसमासः । प्रमाणे द्वयसज्दघ्नञ्मात्रचः॑ इति विहितस्य मात्रचःप्रमाणे लः, द्विगोर्नित्य॑मिति लुक् । अत्रोक्तरीत्या पुरुषप्रमाणस्य आयामात्मकस्यअपरिमाणे॑ति नित्यं ङीब्निषेधे प्राप्ते विकल्पार्थमिदं वचनम् । अन्ये तुतदस्य परिमाण॑मिति ठकः ठञो वाअध्यर्धे॑ति लुक् । तत्र हि उत्तरसूत्रानुरोधात्परिमाण शब्देन परिच्छेदकमात्रं गृह्रते इत्याहुरित्यास्तां तावत् । द्विपुरुषी द्विपुरुषा वा परिखेति । तिर्यक् द्विपुरुषायतेत्यर्थः । दुर्गं परितः तत्संरक्षणार्थौ जलाशयः परिखा । अथ कुण्डमिव ऊधो यस्या इति बहुव्रीहौ कुण्डोधस्शब्दः ।
Tattvabodhini¶
पुरुषात् प्रमाणेऽन्यतरस्याम् - पुरुषात्प्रमाणे । अपरिमाणान्तत्वान्निषेधे प्राप्ते विकल्पार्थं वचनम् । पुरुषशब्दो यद्यपि लोके जातिवचनस्तथापिद्वौ पुरुषौ प्रमाणमस्या॑इति वाक्ये प्रमाणशब्दसामानाधिकरण्यात्प्रमाणे वर्तत एव । वृत्तौ तु शब्दशक्तिस्वाभाव्यादेव । तथा च शुल्लसूत्रम् — ॒पञ्चारित्रि- पुरुषः॑इति । द्विपुरुषीति । अत्रपर्माणे लोद्विगोर्नित्य॑मिति द्वयसचो लुगिति न्यासकारः । नन्विह तद्धितलुग्लुर्लभः, पुरुषशब्दस्य प्रमाणवाचित्वाऽभावेनप्रमाणे लः॑इति श्लोकवार्तिकस्याऽपर्वृत्तेः । ये हि शमादिवत्प्रमाणत्वेन प्रसिद्धस्तत्रैव तत्प्रवर्तते, न तु पुरुषशब्देऽपि । अन्यथापुरुषद्वयस॑मित्यत्रापि लुक् स्यात् । न चैवं द्वयसज्दघ्नचावपि नास्मात्स्यातामिति वाच्यम्, — ॒ऊध्र्वमाने मतौ ममे॑त् वचनात् । एवंपुरुषात्प्रमाणे -॑इति वैकल्पिकस्यापि ङीपः सामर्थ्यादेव प्रवृत्तिः । किन्तु तद्धितलुगेव दुर्लभः इति चेत्राहुः — अस्त्विहप्रमाणे लः॑इत्यस्याऽप्रवृत्तिस्तथापि सुलभ एव लुक् ।पुरुषात्प्रमाणे॑इति सूत्रे हिद्विगोस्तद्धितलुकी॑त्यनुवर्तते तत्सामर्थ्याल्लुगप्याक्षिप्यत इति सुवचत्वादिति । प्रमाणे किम् । द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुष#आ गौः ।तद्धितलुकी॑त्येव । समाहारे — पञ्चपुरुषी । नन्विह पुरुषशब्दः पर्माणे न वर्तते इति द्द्यङ्गविकलमेतदिति चेदत्राहुः — प्रमाणार्थवृत्तीनामेव पुरुषाणामत्र समाहारान्न द्द्यङ्गविकलता । ततश्चतद्धितलुकी॑त्यनुक्तौपञ्चपुरुषशब्दाद्विकल्पः स्यात्, इष्यते तुद्विगो॑रिति नित्यं ङीबीति ।
Padamanjari¶
प्रमाणे यः पुरुषशब्द इति । पञ्चारत्निः पुरुष इति शुल्बविदः, तत्र द्वौ पुरुषो प्रमाणमत्या इति वाक्ये प्रमाणशब्देन सम्बन्धाज्जातिवचनोऽपि पुरुषशब्दः प्रमाणे वर्तते । वृतौ तु तत्स्वभावादेव प्रमाणे वृत्तिर्द्रष्टव्या ॥
Nyaas¶
प्रमणे यः पुरुषशब्दो वर्तते`इति। जातिवचनोऽपि पुरुषशब्दः, यदा प्रमाणशब्देनाभिसम्बध्यते तदा पुरुषगते प्रमाणे वर्तते। भवति पदान्तरसम्बन्धेन शब्दस्यार्थान्तरे वृत्तिः, यथा - सिंहो माणवक इति। सिंहशब्दो जातिवचनोऽपि माणवकसान्निध्याच्छौर्यलक्षणं गुणमाचष्टे। `द्विपुरुषी इति। प्रमाणे द्वयसच् (5.2.37) इति विहितस्य द्वयसचः प्रमाणे लो द्विगोर्नित्यम्`(वा। 558,559) इति लुक्।`अपरिमाणान्तत्वात् प्रतिषेध प्राप्ते`इति। `अपरिमाणविस्त (4.1.22) इत्यादिना। द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा इति। पूर्ववदार्हीयस्य ठको लुक्।तद्धितलुकि इत्येव। पञ्चपुरुषी इति। प्रमाणार्थवृत्तानामेव समाहारान्नास्ति द्व्यङ्गविकलता॥
Praudhamanorama¶
यद्यपि पुरुषशब्दो जातिवचनस्तथापि द्वौ पुरुषौ प्रमाणमस्या इति वाक्ये प्रमाणे वर्तत एव, प्रमाणशब्दसामानाधिकरण्यात्। वृत्तौ तु तत्स्वभावादेव। तथा च शुल्बसूत्रम्— ‘पञ्चारत्निः पुरुषः’ इति। द्विपुरुषीति। अत्र न्यासकारः ‘प्रमाणे लो द्विगोर्नित्यम्’ इति द्वयसचो लुगित्याह; तन्न, पुरुषशब्दस्य प्रमाणवाचित्वाभावेन ‘प्रमाणे लो’ इति श्लोकवार्तिकस्य तत्राप्रवृत्तेः। ये हि शमादिवत् प्रमाणत्वेन प्रसिद्धास्तत्रैव तत्प्रवर्तते न तु पुरुषशब्देऽपि। अन्यथा पुरुषद्वयसमित्यत्रापि लुक् स्यात्। स्पष्टं चेदं ‘पुरुषहस्तिभ्यामण् च’ इति सूत्रे पदमञ्जर्याम्। न चैवं द्वयसज्दघ्नचावपि नास्मात्स्यातामिति वाच्यम्? ‘ऊर्ध्वमाने मतौ मम’ इति वचनात्। एवं ‘पुरुषात्प्रमाणे’ इत्यस्यापि सामर्थ्यादेव प्रवृत्तिः। यत्तु तत्रैव सूत्रे ‘द्विगोर्नित्यं लुक्’ इति वृत्तिग्रन्थमुपादाय हरदत्तेनोक्तं ‘तस्मादप्राप्त एवात्र लुग्विधीयते’ इति; तदपि चिन्त्यम, मुनित्रयानुक्तस्य विधानोक्तेर्व्याहतत्वात्। यदपि प्राचीनप्रक्रियां व्याचक्षाणैरुक्तं ‘पुरुषहस्तिभ्याम्’ इत्यत्र पठ्यमानेन वार्तिकान्तरेण लुगिति; तदपि रभसोक्तिमात्रम्. उदाहृतसूत्रस्य भाष्यवार्तिककाराभ्यामस्पृष्टत्वादित्यास्तां तावत्। वस्तुतस्तु ‘पुरुषात्प्रमाणे’ इति सूत्रे द्विगोस्तद्धितलुकि इत्यनुवर्तते। तत्सामर्थ्याल्लुगप्याक्षिप्यते। हरदत्तोक्तिरपि कथंचिदेवंपरतयैव नेयेति सहृदयैराकलनीयम्। प्रमाणे किम्? द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा गौः। तद्धितलुकीत्येव। समाहारे पञ्चपुरुषी।
Prakriyasarvasvam¶
प्रमाणवाचिपुरुषान्ताद् द्विगोस्तद्धितलुकि वा ङीब् न स्यात् । द्विपुरुषा द्विपुरुषी वा भित्तिः ॥