41023: काण्डान्तात् क्षेत्रे¶
Padacheda: काण्ड-अन्तात् | S | 5 | 1 |
क्षेत्रे | S | 7 | 1 |
Sutrartha¶
यस्य तद्धितार्थद्विगुसमासस्य उत्तरपदम् ‘काण्ड’ इति शब्दः अस्ति, तस्मात् तद्धितप्रत्ययस्य लुकि कृते स्त्रीत्वं द्योतयितुम् क्षेत्रनिर्देशार्थम् एव ङीप्-प्रत्ययः निषिध्यते; अन्येषु अर्थेषु ङीप्-प्रत्ययः अवश्यं भवति ।
स्त्रियाम् (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण निषिध्यते । यस्य तद्धितार्थद्विगुसमासस्य उत्तरपदम् “काण्ड” (दण्डः, a stick, not a conventional unit of measurement) इति शब्दः अस्ति, तस्मात् तद्धितप्रत्ययस्य लुकि सति, क्षेत्रस्य (field) निर्देशः करणीयः अस्ति चेत् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति; परन्तु अन्यपदार्थस्य निर्देशः करणीयः चेत् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः अवश्यं भवति — इति अस्य सूत्रस्य आशयः । मूलतः द्विगोः (4.1.21) इत्यनेन ङीप्-प्रत्यये प्राप्ते; ततः अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि (4.1.22) इति तस्य निषेधे प्राप्ते ;तस्य क्षेत्रविषये नियमनार्थम् प्रकृसूत्रम् पाठितम् अस्ति । यथा — <listsp> 1. “द्वे काण्डे प्रमाणम् अस्या क्षेत्रभक्तेः” (The division of the field has the size of two kandas) अस्मिन् अर्थे संख्यापूर्वो द्विगुः (2.1.52) इत्यनेन द्विगुसमासे कृते; ततः “काण्ड”-शब्दात् प्रमाणे द्वयसज्दघ्नञ्मात्रचः (5.2.37) इत्यनेन मात्रच्-प्रत्यये कृते; तत्रैव विद्यमानेन <!प्रमाणे लो द्विगोर्नित्यम्!> इत्यनेन मात्रच्-प्रत्ययस्य लुक् भवति । एतादृशे लुकि कृते; स्त्रीत्वं द्योतयितुम् द्विगोः (4.1.21) इत्यनेन प्राप्तः ङीप्-प्रत्ययः प्रकृतसूत्रेण निषिध्यते; यतः अत्र क्षेत्रभक्तेः निर्देशः कृतः अस्ति । अतः “द्वि + काण्ड” इत्यत्र अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्यये कृते “द्वि + काण्ड + टाप् → द्विकाण्डा” इति शब्दः सिद्ध्यति । यथा, “द्विकाण्डा क्षेत्रभक्तिः” । एवमेव, “ त्रीणि काण्डानि प्रमाणम् अस्याः क्षेत्रभक्तेः = त्रिकाण्डा क्षेत्रभक्तिः” । 2. यत्र क्षेत्रस्य निर्देशः न विद्यते; तत्र तु ङीप्-प्रत्ययः अवश्यं भवति । यथा, “द्वे काण्डे प्रमाणम् अस्याः रज्ज्वाः” अस्मिन् अर्थे संख्यापूर्वो द्विगुः (2.1.52) इत्यनेन द्विगुसमासे कृते; ततः “काण्ड”-शब्दात् प्रमाणे द्वयसज्दघ्नञ्मात्रचः (5.2.37) इत्यनेन मात्रच्-प्रत्यये कृते; तत्रैव विद्यमानेन <!प्रमाणे लो द्विगोर्नित्यम्!> इत्यनेन मात्रच्-प्रत्ययस्य लुक् भवति । एतादृशे लुकि कृते; स्त्रीत्वं द्योतयितुम् द्विगोः (4.1.21) इत्यनेन प्राप्तः ङीप्-प्रत्ययः यद्यपि अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि (4.1.22) इत्यनेन निषिध्यते; तथापि सः निषेधः प्रकृतसूत्रेण नियम्यते; अतः क्षेत्रभिन्नेषु अर्थेषु ङीप्-प्रत्ययस्य लुक् नैव भवति । अतएव अत्र स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः अवश्यं भवति, येन “द्वि + काण्ड + ङीप् → द्विकाण्डी रज्जुः” इति प्रयोगः सिद्ध्यति ।
<note>”काण्ड” शब्दः भूमेः कस्यचन विभागस्य निर्देशं करोति (a unit of land इत्याशयः) । अत्र उदाहरणेषु अयं शब्दः यद्यपि ‘प्रमाणम्’ (some kind of measurement) अस्मिन् अर्थे प्रयुक्तः अस्ति, तथापि सः परिमाणवाचकः (standard unit of measurement) नास्ति । अतएव काशिकाकारः — “काण्डशब्दस्य अपरिमाणवाचित्वात्…” इति आदौ निर्देशं कृत्वा अन्ते “ प्रमाणविशेषः काण्डम्” इति स्पष्टी करोति ।</note>
Vasu English Summary¶
The affix ङीप् is not used after an adjectival द्विगु समास (Numeral Determinative Compound) ending with the word काण्ड where the तद्धित affix is elided when the compound means field.
Vasu English Translation¶
The affix ङीप् is not used after an adjectival द्विगु समास (Numeral Determinative Compound) ending with the word काण्ड where the तद्धित affix is elided when the compound means field. Thus द्विकाण्डा क्षेत्रभक्तिः ‘a division of a field of the measure of two kandas.’ Here, the word द्विकाण्ड is a Dvigu compound ending in ‘kanda’; the Taddhita affixes denoting measure enjoined by (5.2.37), have been elided by the vartika ‘प्रमाणे लो द्विगोर्नित्यम्’ given under the same sutra. The feminine, therefore, of this word will not be formed by ‘nip’ but by टाप्; so also त्रिकाण्डा क्षेत्रभक्तिः ॥
The term ‘kanda’ is a word expressive of non-measure; and, therefore, the prohibition contained in the last sutra applies to it; the present sutra is made to regulate this prohibition. That is to say, the prohibition contained in the last sutra is not universally applicable in the case of Dvigu compounds ending in ‘kanda’; it applies to cases where the compound refers to superficial land measure. Therefore we have, द्विकाण्डी रज्जुः ‘a rope two kandas long’; त्रिकाण्डी रज्जुः ‘a rope three kandas long’.
Kashika¶
काण्डशब्दान्ताद् द्विगोस्तद्धितलुकि सति क्षेत्रे वाच्ये ङीप् प्रत्ययो न भवति। द्वे काण्डे प्रमाणमस्याः क्षेत्रभक्ते ः। प्रमाणे द्वयसज्० (५.२.३७) इति विहितस्य तद्धितस्य प्रमाणे लो द्विगोर्नित्यम् (वा० ५.२.३७) इति लुकि कृते, द्विकाण्डा क्षेत्रभक्तिः। त्रिकाण्डा क्षेत्रभक्ति ः। काण्डशब्दस्यापरिमाणवाचित्वात् पूर्वेणैव प्रतिषेधे सिद्धे क्षेत्रे नियमार्थं वचनम्। इह मा भूत् — द्विकाण्डी रज्जुस्त्रिकाण्डी रज्जुरिति। प्रमाणविशेषः काण्डम्॥
Siddhanta Kaumudi¶
क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि सति । द्वे काण्डे प्रमाणमस्याः द्विकाण्डा क्षेत्रभक्तिः । प्रमाणे द्वयसच् (SK1838) इति विहितस्य मात्रचः ।<!प्रमाणे लो द्विगोर्नित्यम् !> (वार्तिकम्) ॥ इति लुक् । क्षेत्रे किम् ? द्विकाण्डी रज्जुः ॥
Balamanorama¶
काण्डान्तात् क्षेत्रे - काण्डान्तात्क्षेत्रे । ‘द्विगोः’ इति,न तद्धितलुकी॑ति चानुवर्तते । तदाह — क्षेत्रे य इत्यादि । द्वे काण्डे इति । षोडशारत्न्यायामो दण्डः काण्डमिति स्मृतिः । द्वे काण्डे प्रमाणमस्या इति विग्रहे ‘तद्धितार्थ’ इति द्विगुसमासे द्विकाण्डशब्दस्य क्षेत्रवर्तित्वे नपुंसकत्वशङ्काव्युदासाय क्षेत्रभक्तिरिति विशेष्योपादानम् । तद्धितलुकं दर्शयितुमाह-प्रमाणे द्वयसजिति । नच काण्डादित्यस्य प्रातिपदिकविशेषणतया तदन्तलाभादन्तग्रहणं व्यर्थमिति शङ्क्यम्, अलसति ह्रन्तग्रहणे क्षेत्र इत्येतत्काण्डस्यैव विशेषणं स्यात्, श्रुतत्वात् । क्षेत्रे यः काण्डशब्दस्तदन्तादिति लभ्येत एवंचद्विकाण्डा क्षेत्रभक्ति॑रित्यत्र द्विकाण्डशब्दस्यैव क्षेत्रवर्तित्वात्काण्डशब्दस्य प्रमाणवाचित्वान्ङीब्निषेधो न स्यात् । द्वाभ्यां काण्डाभ्यां= काण्डप्रमितक्षेत्राभ्यां क्रीताद्विकाण्डी बहवे॑त्यत्रैव ङीम्निषेधः स्यात् । अतोऽन्तग्रहणम् । द्विकाण्डी रज्जुरिति । पूर्ववन्मात्रचो लुकिद्विगो॑रिति ङीप् । क्षेत्रवृत्तित्वाऽभावान्न तन्निषेध इति भावः । ननुअपरिमाणे॑ति पूर्वसूत्रे परिमाणशब्देन किं परिच्छेदकमात्रं विवक्षितम्, उतऊध्र्वमान#ं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् इति वार्तिकानुसारेण परितः-सर्वत आरोहतः परिणाहतश्च येन मियते तत् परिमाणमित्याढककुडवाद्येव आयाभव्यावृत्तं विवक्षितम् । नाद्यः, तथा सति द्वौ हस्तौ प्रमाणमस्या इति विग्रहे द्विहस्ता भित्तिरित्यत्र पूर्ववन्मात्रचौ लुकि ङीब्निषेधो न स्यात् । न द्वितीयः, तथा सतिकाण्डशब्दस्यायामप्रमाणपरतयोक्तपरिमाणपरत्वाऽभावेनअपरिमाणे॑त्यनेनैवद्विकाण्डा क्षेत्रभक्ति॑रित्यत्रापि ङीब्निषेधसंभवेनकाण्डान्तात्क्षेत्र एव ङीब्निषेधः, नान्यत्रद्विकाण्डीरज्जु॑रित्यादाविति नियमार्थमित्यन्यत्र विस्तरः ।
Tattvabodhini¶
काण्डान्तात् क्षेत्रे - काम्ढान्तात् । षोडशहस्तप्रमाणो दण्डः काण्डम् । यद्यपि विशेषणेन तदन्तविधिः सिद्धः, तथाप्यसत्यन्तग्रहणेक्षेत्रे॑इत्येतत् श्रुतत्वात्काण्डस्यैव विशेषणं स्यान्न तु काण्डान्तस्य । ततश्च द्वाभ्यां काण्डाभ्यां=काण्डप्रमिताभ्यां क्रीताद्विकाण्डी वडवे॑त्यत्र निषेधः स्यात् । इह तु निषेधो न स्यात् — ॒द्विकाण्डा क्षेत्र भक्ति॑रिति । अत्र हि काण्डं प्रमाणे वर्तते, काण्डान्तस्तु क्षेत्रे, अतोऽन्तग्रहणं कृतम् । इहद्विगो॑रित्यनुवर्ततेन तद्धितलुकी॑ति च, तदाह — द्विगुस्ततो न ङीबत्यादि । मात्रचेति.॒द्वयसचो लु॑गिति प्राचोक्तं नादर्तव्यम् ।प्रथमश्च द्वितीयश्च ऊध्र्वमाने मतौ ममे॑ति सिद्धान्तादिति भावः । द्विकाण्डी रज्जुरिति । द्वे काण्डे प्रमाणमस्याः । पूर्ववत्ताद्धितलुक् । द्विगोः॑इति ङीप् । नन्विहापरिमाणान्तादिति पूर्वेण निषेधः स्यात्, काण्डशब्दस्यायामपरतया अपरिमाणार्थत्वात्, परितः सर्वत आरोहतः परिणाहतश्च येन मीयते तद्धि परिमाणम् — आढककुडवादि, नतु यथाकथञ्चिच्परिच्छेदकमात्रम् । यदाहुः — ॒ऊध्र्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्सङ्ख्या बाह्रा तु सर्वतः॑इति । अतएवद्विहस्ता भित्ति॑रित्यत्र ङीम्न भवतीति चेदत्रीहुः — नियमार्थमिदंक्षेत्र एव निषेधा यथा स्या॑दिति । तथा चद्विकण्डी रज्जु॑रित्यत्र ङीबेव सूत्रारम्भस्य फलमिति ।
Padamanjari¶
मानदण्डःउकाण्डम् ।’द्विगोः’ इत्यधिकारादेव पूर्वसूत्रवतदन्तविधौ सिद्धे किमर्थमन्तग्रहणम् ? अक्रियमाणेऽन्तग्रहणे क्षेत्र इत्येतत् काण्डस्यैव विशेषणं विज्ञायेत - क्षेत्रे यः काण्डशब्दः, तदन्ताद् द्विगोरिति श्रुतत्वात् न तदन्तस्य, यथोतरसूत्रे प्रमाणे यः पुरुषशब्दस्तदन्तादिति, ततश्चेह प्रसज्येत - द्वाभ्यां काण्डाभ्यां काण्डामिताभ्यां क्षेत्राभ्यां क्रीता द्विकाण्डी वडवेति; इह तु न स्यात् - द्वे काण्डे प्रमाणमस्याः द्विकाण्डा क्षेत्रभक्तिरिति । अन्तग्रहणे तु सति तदन्तस्यैव विशेषणं क्षेत्रम्, न काण्डस्य; बहुव्रीहौ गुणभूतत्वात् ॥
Nyaas¶
नियमार्थम् इति। क्षेत्र एव यथा स्यात्, अन्यत्र मा भूदिति। अथान्तग्रहणं किमर्थम्, यावता सामर्थ्यादेव तदन्तविधिर्लभ्यत एव, यथा - पूर्वस्मिन् सूत्रे, न हि केवलस्य काण्डशब्दस्य केनचिद्द्विगुसंज्ञा विहिता? सत्यमेतत्, किन्त्वसत्यग्रहणे काणडमेव क्षेत्रेण विशिष्येत - काण्डशब्द एव केवलो यः क्षेत्रे वर्तते इति, ततश्चेह प्रतिषेधः स्यात् - द्वाभ्यां काण्डसंज्ञकाभ्यां क्षेत्राभ्यां क्रीता द्विकाण्डी वडवेति। इह तु न स्यात् - द्वे काण्डे प्रमाणमस्याः क्षेत्रभक्तेः द्विकाण्डा क्षेत्र भक्तिरिति। अन्तसूत्रे तु सति काण्डशब्दस्य विशेषणं क्षेत्रं न भवति; तस्य द्विगो गुणभूतत्वात्।
Praudhamanorama¶
षोडशहस्तप्रमाणो दण्डः काण्डम्। यद्यपि विशेषणेन तदन्तविधिः सिद्धस्तथाऽपि अन्तग्रहणे असति क्षेत्रे इत्येतत् श्रुतत्वात्काण्डस्यैव विशेषणं स्यान्न तदन्तस्य। ततश्चेहापि स्यात्। द्वाभ्यां काण्डाभ्यां— काण्डप्रमिताभ्यां क्षेत्राभ्यां क्रीता द्विकाण्डी वडवेति। इह तु न स्यात्— द्विकाण्डा क्षेत्रभक्तिरिति। अतोऽन्तग्रहणम्। मात्रच इति। यत्तु प्राचोक्तं द्वयसचो लुगिति; तन्न, ‘प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ मम।’ इति सिद्धान्तात्। द्विकाण्डी रज्जुरिति। नन्विह परिमाणान्तादिति पूर्वेण निषेधः स्यात्, काण्डशब्दस्याऽऽयामपरतया अपरिमाणार्थत्वात्। परितः- सर्वतः आरोहतः परिणाहतश्च येन मीयते तद्धि परिमाणमाढककुडवादि। न तु यथाकथञ्चित्परिच्छेदकमात्रम्। यदाहुः- ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः। आयामस्तु प्रमाणं स्यात् संख्या बाह्या तु सर्वतः॥ इति॥ अत एव द्विहस्ता भित्तिरित्यत्र ङीब् न। अत्राहुः-नियमार्थमिदम्। क्षेत्रे एव निषेधो यथा स्यादिति। अतो द्विकाण्डी रज्जुरित्यत्र ङीबेव सूत्रस्य फलमिति।
Prakriyasarvasvam¶
काण्डान्ताद् द्विगोस्तद्धितलुकि सति क्षेत्रे वाच्ये न ङीप् । काण्डं मानदण्डः । शतकाण्डा केदारभूः । द्विगोर्नित्यं लुगिति प्रमाणार्थस्य मात्रचो लुक् । अक्षेत्रे तु द्विकाण्डी रज्जुः ॥