41012: अनो बहुव्रीहेः ===================== **Padacheda:** अनः | S | 5 | 1 | बहुव्रीहेः | S | 5 | 1 | Sutrartha --------- **'अन्' यस्य अन्ते विद्यते तादृशात् बहुव्रीहिसमस्तप्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति ।** **स्त्रियाम्** (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु **ङीप्** इति अन्यतमः प्रत्ययः । अस्य प्रत्ययस्य **निषेधः** प्रकृतसूत्रेण पाठितः अस्ति । **बहुव्रीहिसमासेन निर्मितस्य प्रातिपदिकस्य अन्ते "अन्" इति शब्दः विद्यते चेत् तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति** — इति अस्य सूत्रस्य अर्थः । नकारान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् **ऋन्नेभ्यो ङीप्** (4.1.5) इत्यनेन ङीप्-प्रत्यये प्राप्ते अन्नन्त-बहुव्रीहिसमस्तप्रातिपदिकानां विषये तस्य निषेधं कर्तुम् विरचितम् अस्ति । यथा — 1. "शोभनं चर्म अस्याः" इत्यत्र **अनेकमन्यपदार्थे** (2.2.24) इत्यनेन बहुव्रीहिसमासे कृते "सु + चर्मन्" इति स्थिते स्त्रीत्वं द्योतयितुम् **ऋन्नेभ्यो ङीप्** (4.1.5) इत्यनेन प्राप्तः ङीप्-प्रत्ययः प्रकृतसूत्रेण निषिध्यते । अतः स्त्रीलिङ्गे अपि "सुचर्मा, सुचर्माणौ, सुचर्माणः" इत्येव रूपाणि प्रयुज्यन्ते । यथा, "सुचर्माणः स्त्रियः" । 2. "बहवः यज्वानः अस्याः सा" इत्यत्र **अनेकमन्यपदार्थे** (2.2.24) इत्यनेन बहुव्रीहिसमासे कृते "बहु + यज्वन्" इति स्थिते स्त्रीत्वं द्योतयितुम् **ऋन्नेभ्यो ङीप्** (4.1.5) इत्यनेन प्राप्तः ङीप्-प्रत्ययः प्रकृतसूत्रेण निषिध्यते । अतः "बहुयज्वानः स्त्रियः" इत्यादिषु ङीप्-प्रत्ययं विना एव रूपं सिद्ध्यति । **बाध्यबाधकभावः** 1. **ऋन्नेभ्यो ङीप्** (4.1.5) इत्यनेन प्राप्तस्य ङीप्-प्रत्ययस्य निषेधरूपेण प्रकृतसूत्रं प्रवर्तते । ङीप्-प्रत्ययस्य एतादृशे निषेधे कृते, ततः **डाबुभाभ्यामन्यतरस्याम्** (4.1.13) इत्यनेन विकल्पेन डाप्-प्रत्ययः अपि भवति, येन "सुचर्मन् + डाप् → सुचर्मा" इति आकारान्तस्त्रीलिङ्गशब्दः अपि सिद्ध्यति । 2. यदि अन्नन्तात् बहुव्रीहिसमस्तपदात् कथञ्चित् ङीप्-प्रत्यये कृते प्रक्रियायाम् उत्तरपदस्य उपधा-अकारस्य लोपः सम्भवति, तर्हि तादृशस्य बहुव्रीहिसमासस्य विषये प्रकृतसूत्रैण दत्तः ङीप्-प्रत्ययस्य निषेधः **अन उपधालोपिनोन्यतरस्याम्** (4.1.28) इत्यनेन विकल्प्यते, अतः ङीप्-प्रत्ययं, तदनुषङ्गेन च उपधा-अकारलोपं कृत्वा अपि रूपं अवश्यं सिद्ध्यति । यथा, "बहवः राजानः अस्या सा" इत्यत्र "बहु + राजन्" इति स्थिते **अन उपधालोपिनोन्यतरस्याम्** (4.1.28) इत्यनेन वैकल्पिकं ङीप्-प्रत्ययं कृत्वा "बहु + राजन् + ङीप्" इत्यत्र **अल्लोपोऽनः** (6.4.134) इत्यनेन जकारोत्तर-अकारस्य लोपे कृते "बहुराज्ञी" इति शब्दः अपि सिद्ध्यति । पक्षे ङीप्-प्रत्ययं विना "बहुराजन्", तथा च पक्षे **डाबुभाभ्यामन्यतरस्याम्** (4.1.13) इत्यनेन डाप्-प्रत्यये कृते "बहुराजा" इत्येते प्रातिपदिके अपि अवश्यं सिद्ध्यतः । "शोभनं चर्म अस्याः", "बहवः यज्वानः अस्याः" इत्यादिषु स्थलेषु **अल्लोपोऽनः** (6.4.134) इत्यनेन प्राप्तः अकारलोपः **न संयोगाद्वमन्तात्** (6.4.137) इत्यनेन निषिध्यते, अतः एतयोः समासयोः विषये ङीप्-प्रत्ययस्य निषेधः नित्यमेव प्रवर्तते, तत्र **अन उपधालोपिनोन्यतरस्याम्** (4.1.28) इत्यस्य प्रसक्तिः एव नास्ति । Vasu English Summary -------------------- The affix ङीप् is not used to denote the feminine after a बहुव्रीहि समास ending in अन्। Vasu English Translation ------------------------ The affix ङीप् is not used to denote the feminine after a बहुव्रीहि समास ending in अन्। This refers to those *Bahuvrihi* compounds in which the penultimate is not elided. Of the *Bahuvrihi* compounds which lose their penultimate letter, it is optional to employ this affix or not; as it will be taught in (4.1.28). Thus सुपर्वन् 'possessed of beautiful joints' is both masculine and feminine. As सुपर्वा, सुपर्वाणौ, सुपर्वाणः; so also सुशर्मा, सुशर्माणौ and सुशर्माणः ॥ In these cases the penultimate अ of वन् or मन् is not elided. See (6.4.137). Why do we say "after *Bahuvrihi* compounds" ? Because after any other compouds, this rule will not apply. As अतिराजन् is an *Avyayibhava* compound, its feminine will be अतिराजी ॥ Kashika ------- अन्नन्ताद् बहुव्रीहेः स्त्रियां ङीप् प्रत्ययो न भवति। अनुपधालोपी बहुव्रीहिरिहोदाहरणम्। उपधालोपिनो हि विकल्पं वक्ष्यति। सुपर्वा, सुपर्वाणौ, सुपर्वाणः। सुचर्मा, सुचर्माणौ, सुचर्माणः। बहुव्रीहेरिति किम्? अतिक्रान्ता राजानम् अतिराज्ञी॥ Siddhanta Kaumudi ----------------- अन्नन्ताद्बहुव्रीहेर्न ङीप् । बहुयज्वा । बहुयज्वानौ ॥ Balamanorama ------------ **अनो बहुव्रीहेः** - अनो बहुव्रीहेः । 'अन' इतिबहुव्रीहे॑रित्यस्य विशेषणम्, तदन्तविधिः । नेति ङीविति च पूर्ववदनुवर्तते । तदाह — अन्नन्तादिति । बहुयज्वेति । बहवो यज्वानो यस्या इति विग्रहः । नान्तलक्षणङीप प्रतिषेधे राजवद्रूपाणि ।न संयोगा॑दिति निषेधान्नायमुपधालोपी । अतोऽत्र 'अन उपधालोपिनः' इति विकल्पो न प्रवर्तितुमर्हति । Tattvabodhini ------------- **अनो बहुव्रीहेः** - अनो बहुव्रीहेः । ननुराजयुध्वे॑त्यादिसिद्धयेऽवश्यं वक्तव्येनवनो न हशः॑इत्यनेनैबेष्टलसिद्धेः किमनेन सूत्रेण । मैवम् । अन्नन्ताद्बहुव्रीहेःडाबुभाभ्या॑मिति ङाब्विधानार्थमेतत्सूत्रस्याऽवश्यारब्धव्यत्वात् । तथा चाऽनेन ङीपि निषिद्धे तत्संनियोगेन प्राप्तोवनो र चे॑ति यो रेफः सोऽपि दुर्लभ एवेतिवनो न हशः॑इति वार्तिकमबहुव्रीह्रर्थमिति फलितम् । बहुयज्वानाविति ।न संयोगो॑दिति निषेधान्नायमुपधालोपि । तेनाऽत्रअन उपधालोपिन॑इति वक्ष्यमाणविकल्पो न प्रवर्तते । Nyaas ----- `अनुपधालोपो बहुव्रीहिरिहोदाहरणम्` इति। कथं पुनरेतत्लभ्यते, यावता नात्र विशेष उपात इत्याह - `उपधालोपिनो हि` इत्यादि। यस्मात् `अन उपधालोपिनोऽन्यतरस्याम्` (4.1.28) इत्युपधालोपिनो विकल्पं वक्ष्यति, तस्मात् पारिशेष्यादनुपधालोपो बहुव्रीहिरस्यावकाश इति। तस्य चोदाहरणम् - `सुपर्वा` इत्यादि। शोभनमस्याः पर्वं शोभनं चर्मास्या इति बहुव्रीहिः। अयञ्च `न संयोगाद्वमन्तात्` इत्यल्लोपो न भवति।`अतिराजी` इति। `अत्यादयः क्रान्ताद्यर्थे द्वितीयया` (वा।91) इति **कुगतिप्रादयः** (2.2.18) इति तत्पुरुषोऽयम्॥ Praudhamanorama --------------- **बहुयज्वानाविति।** 'न संयोगात्' इति निषेधान्नायमुपधालोपी तेन 'अन उपधालोपिनः' इति न प्रवर्तते। Prakriyasarvasvam ----------------- अन्नन्ताद् बहुव्रीहेर्ङीब् न । बहुयज्वा । बहुयज्वानौ ॥