34117: छन्दस्युभयथा =================== **Padacheda:** छन्दसि | S | 7 | 1 | उभयथा | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- In the छन्दस् (Vedas) this distinction of सार्वधातुक and आर्द्धधातुक is not always maintained and the affixes are promiscuously used. Vasu English Translation ------------------------ In the छन्दस् (Vedas) this distinction of सार्वधातुक and आर्द्धधातुक is not always maintained and the affixes are promiscuously used. In the Vedas, there is no hard and fast rule about *sarvadhatuka* and *ardhadhatuka* affixes. Sometimes the तिङ् and शित् are treated as if they were *ardhadhatuka*. Thus वर्धन्तु त्वा सुष्टुतयः । Here the affixes of the लोट् are treated as *ardhadhatuka* and consequently there is the elision of the णिच् by rule (6.4.51); the proper form of this word would be वर्धयन्तु । Sometimes ardhadhatuka* affixes are treated like *sarvadhatuka* affixes; as विशृण्विरे; here the affixes of the लिट् are treated as *sarvadhatuka* and so there is the *Vikarana* श्नु and the उ is changed into व । Thus, वि + शृ + श्नु + इरे = वि + शृ + नु + इरे (3.1.74) = वि + शृ + न्व् + इरे (6.4.87) = विशृण्विरे । Similarly, सुन्विरे । The लिङ् is sometimes treated in the Vedas both as *sarvadhatuka* and *ardhadhatuka* at one and the same time; as उपस्थेयाम् शरणं बृहन्तम् । Here, by treating the affix as *sarvadhatuka*, there is elision of स in the लिङ् (7.2.79) and by treating it again as *ardhadhatuka*, the आ of स्था is changed into ए । So also in स्वस्ति the affix is treated as *sarvadhatuka_ and there is no substitution of भू for अस् as required by (2.4.52). Kashika ------- छन्दसि विषय उभयथा भवति, सार्वधातुकमार्धधातुकं च। किं लिङेवानन्तरः संबध्यते? नैतदस्ति। सर्वमेव प्रकरणमपेक्ष्यैतदुच्यते। तिङ्शिदादि छन्दस्युभयथा भवति। वर्ध॑न्तु त्वा सुष्टु॒तयः॒ (ऋ० ७.९९.७)। आर्धधातुकत्वाण् णिलोपः। वर्धयन्त्विति प्राप्ते। शेषं च सार्वधातुकम् — स्व॒स्तये॒ नाव॑मि॒वारु॑हेम (ऋ०१०.१७८.२)। क्तिनः सार्वधातुकत्वादस्तेर्भूभावो न भवति। लिट् सार्वधातुकम् — सस॒वांसो॒ विशृ॑ण्विरे (ऋ० ४.८.६)। इ॒म इन्द्रा॑य सुन्विरे॒ (ऋ० ७.३२.४)। लिङ् उभयथा भवति — उप॑ स्थेयाम शर॒णा बृ॒हन्त॑ (ऋ०६.४७.८)। सार्वधातुकत्वाल् लिङः सलोपः, आर्धधातुकत्वादेत्वम्। **व्यत्ययो बहुलम्**(३.१.८५) इत्यस्यैवायं प्रपञ्चः॥ ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य चतुर्थःपादः॥ Siddhanta Kaumudi ----------------- धात्वधिकारे उक्तः प्रत्ययः सार्वधातुकार्धधातुकोभयसंज्ञः स्यात् । वर्धन्तु त्वा सुष्टुतयः (वर्ध॑न्तु त्वा सुष्टु॒तयः॑) । वर्धयन्त्वित्यर्थः । आर्धधातुकत्वाण्णिलोपः । विशृण्विरे (विशृ॑ण्विरे) । सार्वधातुकत्वात् श्नुः शृभावश्च । हुश्नुवोः - (SK2387) इति यण् । आदृगमहनजनः किकिनौ लिट् च - (SK3151) । आदन्तादृवर्णान्ताद्गमादेश्च किकिनौ स्तस्तौ च लिड्वत् । बभ्रिर्वज्रम् (ब॒भ्रिर्वज्र॑म्) । पपिः सोमम् (प॒पिः सोम॑म्) । ददिर्गाः (द॒दिर्गाः) । जग्मिर्युवा (ज॒ग्मि॒र्युवा॑) । जघ्निर्वृत्रममित्रियम् (जघ्नि॑र्वृ॒त्रम॑मि॒त्रिय॑म्) । जज्ञिः । लिड्वद्भावादेव सिद्धे ऋच्छत्यॄताम् - (SK2383) इति गुणबाधनार्थं कित्त्वम् । बहुलं छन्दसि - (SK3578) इत्युत्वम् । ततुरिः । जगुरिः ॥ Padamanjari ----------- सर्वमेव प्रकरणमिति ।'तिङसित्सार्वधातुकम्' इत्यारभ्य चतुः सूत्रीप्रकरणम् । भूभावो न भवतीति । तदानीभेवार्धधातुकत्वात्'श्नसोरल्लोपः' इत्यस्याभावः ॥ Nyaas ----- `{अस्तये इति मुद्रितः पाठः} स्वस्तये` इति। `अस भुवि` (धातुपाठः-1065), स्त्रियां क्तिन्। सार्वधातुकत्वादस्तेर्भूभावो न भवति।`विशृण्विरे` इति। अत्र लिटः सार्वधातुकत्वात् **श्रुवः शृ च** (3.1.74) इति श्नुप्रत्ययः, शृभावश्च। `सुन्विरे` इति। **स्वादिभ्यः श्नुः** (3.1.73) । `उपस्थेयाम`इति। तिष्ठतेर्लिङ,यासुट्,मस्, **एतेर्लिङि** (7.4.24) इत्येत्वम्।ननु **व्यत्ययो बहुलम्** (3.1.85) इत्यनेनैव सिद्धं सर्वमेवेदम्, किमर्थोऽयमारम्भ इत्याह - `व्यत्ययो बहुलमित्यस्यैव` इति। गतार्थम्॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायांतृतीयस्याध्यायस्यचतुर्थः पादः।समाप्तश्च तृतीयोऽध्यायः॥ Prakriyasarvasvam ----------------- छन्दसि धातुविहितप्रत्ययानां सार्वधातुकत्वमार्धधातुकत्वं चोभयथा स्यात् । वर्धन्तु त्वा सुष्टुतयः । अत्र शप आर्धधातुकत्वान्णिलोपः । स्वस्तये तार्क्ष्यमित्यत्र अस्तेः क्तिनि सार्वधातुकत्वाद् भूभावो न । तस्यैवार्धधातुकत्वात् सार्वधातुकविहित श्नसोरल्लोपो न । अयमौणादिकाच्च सिद्ध्यति । (ससपांसो ? सुवांसो) वि²शृण्विरे । लिटः सार्वधातुकत्वात् श्नुः । लिटि धा³तोः'— (६-१-८) विकरणधातुसमुदायस्य द्वित्वं न । उपस्थेयाम् शरणा बृहन्ता । अत्राशीर्लिङ आर्धधातुकत्वाद् 'एर्लिङि' (६-४-६७) इति एत्वम् । सार्वधातुकत्वाल्लिङः सलोपः ।