34113: तिङ्शित्सार्वधातुकम् =========================== **Padacheda:** तिङ्-शित् | S | 1 | 1 | सार्वधातुकम् | S | 1 | 1 | Sutrartha --------- **धातुभ्यः विहिताः तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति ।** धातोः विहिताः प्रत्ययाः 'सार्वधातुक' तथा 'आर्धधातुक' एतादृशाः विभाजिताः सन्ति । अनेन सूत्रेण सार्वधातुक-संज्ञा विधीयते । **तिप्तस्झि...** (3.4.78) इत्यनेन निर्दिष्टाः तिङ्-प्रत्ययाः, तथा येषु प्रत्ययेषु शकारः इत्संज्ञकः अस्ति ते प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति । सार्वधातुकसंज्ञकप्रत्ययानामावली इयम् - अ) तिङ्-प्रत्ययाः - तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस्, त, आताम्, झ, थास्, आथाम् ध्वम्, इट्, वहि, महिङ् आ) शित्-प्रत्ययाः - [विकरणप्रत्ययाः] शप्, श्यन्, श्नु, श, श्नम्, श्ना [कृत्-प्रत्ययः] शतृ, शानच्, शानन्, चानश्, खश्, श, एश्, शध्यै, शध्यैन् । एतादृशमाहत्य 33 प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति । ज्ञातव्यम् - आशीर्लिङ्-लकारस्य विषये **लिङाशिषि** (3.4.116) इत्यनेन तथा लिट्-लकारस्य विषये **लिट् च** (3.4.115) इत्यनेन तिङ्-प्रत्ययाः आर्धधातुकसंज्ञकाः भवन्ति । सार्वधातुक-संज्ञायाः प्रयोगः **सार्वधातुकार्धधातुकयोः** (7.3.84), **सार्वधातुकमपित्** (1.2.4) एतादृशेषु सूत्रेषु कृतः अस्ति । Sutrartha (English) ------------------- The तिङ् प्रत्ययs and the शित् प्रत्ययs are called 'सार्वधातुक'. Vasu English Summary -------------------- All the personal endings -- तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78), and all affixes with an indicatory श् are called सार्वधातुक । Vasu English Translation ------------------------ All the personal endings -- तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78), and all affixes with an indicatory श् are called सार्वधातुक । Of course, this applies to the affixes which have been already treated before, namely, the affixes which relate to verbal roots and not to तद्धित affixes &c. Thus, स्वपिति, रोदिति, पचमानः, पयमानः । लिट् and आशीर्लिङ् are exceptions. Kashika ------- तिङः शितश्च प्रत्ययाः सार्वधातुकसंज्ञा भवन्ति। भवति। नयति। स्वपिति। रोदिति। पवमानः। यजमानः। सार्वधातुकप्रदेशाः — **सार्वधातुके यक्**(३.१.६७) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः ॥ Laghu Siddhanta Kaumudi ----------------------- तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः॥ Balamanorama ------------ **तिङ्शित्सार्वधातुकम्** - तत्र सार्वधातुककार्यं वक्ष्यन्सार्वधातुकंसंज्ञामाह — तिङ्शित् । धातोरित्यधिकृतं । तदाह — धात्वधिकारोक्ता इति । तेनहरी॑नित्यत्र शसः सार्वधातुकत्वं न,अन्यथा तिङ्शित्सार्वधातुक॑मिति शसः सार्वधातुकत्वात्सार्वधातुकमपिदिति ङित्त्वेघेर्ङिती॑ति गुणः स्यात् । Tattvabodhini ------------- **तिङ्शित्सार्वधातुकम्** - धात्वदिकारोक्ता इति कम् । हरीन् । शसःसार्वधातुकमपि॑दिति ङित्त्वेघेर्ङिती॑ति गुणः स्यात्, लिहः श्रिय इत्यादिशसन्तेषुसार्वधातुके य॑गिति यक्क स्यात् । केचित्तु वारिणी इत्यत्र नुमि कृतेऽपि लघूपधगुणः स्यादित्याहुः । तन्न । क्ङितीति निषेधात्, इगन्तत्वप्रयुक्तस्य नुमो गुणप्रयोजकत्वे सन्निपातपरिभाषाविरोधाच्च । Padamanjari ----------- तरति नयतीति । तिङ्ः सार्वधातुकत्वाच्छप्, शपः सार्वधातुकत्वाद्धातोर्गुणः । रोदितीति । शपो लुकि रुदादिभ्यः सार्वधातुकेऽ इतीट् । पवमानो यजमान इति । पूर्ववच्छब्गुणौ ॥ Nyaas ----- `भवति, नयति` इति। तिङः सार्वधातुकसंज्ञायां तन्निबन्धनः कर्तरि शप्, तस्यापि शितः सार्वधातुकत्वात् `सार्वधातुकार्धधातुकयोः` 7.3.84) इति गुणः। `रोदिति` इति। पूर्ववच्छपो लोपः, **रुदादिभ्यः सार्वधातुके** (7.2.76) इतीट्। `पवमानः, यजमानः` इति। **पूङ्यजोः शानन्** (3.2.128) ,तस्य सार्वधातुकत्वात् शप्, तस्यापि सार्वधातुकत्वाद्धातोर्गुणः॥ Prakriyasarvasvam ----------------- तिङः शितश्च प्रत्ययाः सार्वधातुकाख्याः ।