34108: झेर्जुस्

Padacheda: झेः | S | 6 | 1 |

जुस् | S | 1 | 1 |

Sutrartha

लिङ्लकारस्य ‘झि’ प्रत्ययस्य जुस्-आदेशः भवति ।

लिङ्-लकारस्य विषये परस्मैपदस्य प्रथमपुरुषबहुवचनस्य ‘झि’ प्रत्ययस्य जुस्-आदेशः भवति । अनेकाल्शित्सर्वस्य (1.1.55) इत्यनेन अयम् सर्वादेशरूपेण आगच्छति । यथा - 1) पठ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुष-बहुवचनस्य रूपम् - पठ् + लिङ् [विधिनिमन्त्रणा.. (3.3.161) इति लिङ्] → पठ् + शप् + लिङ् [कर्तरि शप् (3.1.68) इति शप्] → पठ् + शप् + झि [तिप्तस्.. (3.4.78) इति परस्मैपदस्य प्रथमपुरुष-बहुवचनस्य विवक्षायाम् ‘झि’ प्रत्ययः ] → पठ् + अ + यासुट् + झि [यासुट्परस्मैपदेषूदात्तो ङिच्च (3.4.103) इति यासुट्-आगमः] → पठ् + अ + या + झ [लिङःसलोपोऽनन्त्यस्य (7.2.79) इति सकारलोपः] → पठ् + अ + इय् + झ [अतो येयः (3.4.105) इति या-इत्यस्य इय्-आदेशः] → पठ् + अ + इय् + जुस् [झेर्जुस् (3.4.108) इति झि-प्रत्ययस्य जुस्-आदेशः] → पठ् + अ + इय् + उस् [चुटु (1.3.7) इति जकारस्य इत्संज्ञा । तस्य लोपः (1.3.9) इति लोपः] → पठेयुः [विसर्गनिर्माणम्] 2) पठ् -धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् - पठ् + लिङ् [आशिषि लिङ्लोटौ (3.3.173) इति लिङ्लकारः] → पठ् + झि [तिप्तस्.. (3.4.78) इत्यनेन परस्मैपदस्य प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः।] → पठ् + यासुट् + झि [किदाशिषि (3.4.104) इति यासुट्-आगमः] → पठ् + यास् + जुस् [झेर्जुस् (3.4.108) इति झि-प्रत्ययस्य जुस्-आदेशः] → पठ् + यास् + उस् [चुटु (1.3.7) इति जकारस्य इत्संज्ञा । तस्य लोपः (1.3.9) इति लोपः] → पठ्यासुः [विसर्गनिर्माणम्]

Sutrartha (English)

The ‘झि’ प्रत्यय of लिङ्लकार is converted to ‘जुस्’.

Vasu English Summary

In the Potential and Benedictive जुस् is the substitute of झि , the ending of the first person plural परस्मैपद ।

Vasu English Translation

In the Potential and Benedictive जुस् is the substitute of झि , the ending of the first person plural परस्मैपद । This debars अन्त (7.1.3); thus पचेयुः, यजेयुः ।

Kashika

लिङ इत्येव। लिङादेशस्य झेर्जुसादेशो भवति। झोऽन्तापवादः। पचेयुः। यजेयुः॥

Siddhanta Kaumudi

लिङो झेर्जुस् स्यात् ॥ ज इत् ॥

Laghu Siddhanta Kaumudi

लिङो झेर्जुस् स्यात्। भवेयुः। भवेः। भवेतम्। भवेत। भवेयम्। भवेव। भवेम॥

Balamanorama

झेर्जुस् - अथ लिङो झेर्झोऽन्त इति प्राप्ते — झेर्जुस् । लिङः सीयुडित्यतो लिङ इत्यनुवर्तते । तदाह — लिङो झेरिति । अनेकाल्त्वात्सर्वादेशः । ज इदिति । जुसः स्थानिवत्त्वेन प्रत्ययत्वाच्चुटू इति जकार इत्संज्ञक इत्यर्थः । उसि शपिगुणे अवादेशे यासुटि सकारलोपे भव या उसिति स्थिते इयादेशं बाधित्वा पररूपप्रवृतिंत शङ्कितुमाह — उस्यप । एकः पूर्व्परयोरित्यधिकृतम् । आद्गुण इत्यस्मादादित्यनुवर्तते ।एङि पररूप॑मित्यस्मात्पररूपमिति । तदाह — अपदान्तादिति । उसीति । उसि योऽच् उकारस्तस्मिन् परत इत्यर्थः,इको यणची॑त्यतोऽचीत्यनुवृत्तेः । यद्यपि उसः कृत्स्नस्याऽऽकारस्य च उसित्येकादेशेऽपि रूपं तुल्यं, तथापि अकः सवर्णे दीर्घ इत्यादावुत्तरत्राचीत्यावश्यकमत्राप्यनुवर्तत इति बोध्यम् । भिन्द्युरित्याद्युदाहरणम् । इति प्राप्त इति । भव या उसित्यत्राकारस्योकारस्य चाद्गुणं बाधित्वा एकस्मिन्नुकारे पररूपे प्राप्ते सतीत्यर्थः । सति च पररूपे या इत्यस्याऽभावादिञ् न स्यादिति मन्यते — परत्वादिति । पररूपापेक्षया इयादेशः परो नित्यश्च, अकृते कृते च प्रवृत्तेः । कृते पररूपे य् इत्यस्यैकदेशविकृतन्यायेन , एकादेशस्य पूर्वान्तवत्त्वेन वा इयादेशस्य निर्बाधत्वात् । ततश्च पररूपं बाधित्वा इयादेशे भवेयुरिति रूपमिति प्राचीना मन्यन्त इत्यर्थः । ननु पररूपमङ्गाधिकारस्थत्वाऽभावादङ्गानपेक्षत्वादन्तरङ्गम्, इयादेशस्तु आङ्गत्वात्प्रकृतिप्रत्ययोभयसापेक्षत्वाद्बहिरङ्गः । ततश्च परान्नित्यादपीयादेशात्पररूपस्यान्तरङ्गतया बलवत्त्वात्पररूपमेव इह स्यादिति शङ्कते — यद्यपीति । परिहरति — तथापिति । अतः -यास्-इयः-इति पदच्छेदः । यासिति लुप्तषष्ठीकं पदम् । ततश्च अतः परस्य यासित्येतस्य इय् स्यादिति व्याख्येयमित्यर्थः । ननुलिङः स लोपोऽनन्तयस्ये॑ति सकारस्य लोप इयादेशं बाधित्वा नित्यत्वात्प्राप्नोतीति, ततश्च यास् इत्यस्य इय् इति कथमित्यत आह — एवं चेति । यासिति सकारान्तस्य इयादेशविधिसामर्थ्यादेव सकारलोपं बाधित्वा प्रागेव यासिति सकारान्तस्य इयादेशो भवतीत्यर्थः । तथा च सकारावस्थायामवर्णात्परत्वाऽभावेन पररूपस्याऽप्रवृत्तिरिति भावः । ननु यदि ‘यास्-इयः’ इति च्छेदस्तदा सकारस्य रुत्वे, भोभगो इति यत्वे,लोपः शाकल्यस्ये॑ति तस्य लोपे अतो — या इय इति स्यात् । आद्गुणे कर्तव्ये यलोपस्याऽसिद्धत्वादित्यत आह — सन्धिरार्ष इति ।आने मु॑गिति सूत्रे भाष्ये तुअतो या — इय इत्येव सूत्रपाठो लक्ष्यते । भवेरिति । सिपि, शपि गुणः । अवादेशः । इतश्चेति इकारलोपः । यासुडागमः । सकारस्य लोपः । इयादेशः । आद्गुणः यलोपः । रुत्वविसर्गौ । एवं थसस्तमादेशे थस्य तादेशे च , भवेतं भवेतेति च रूपम् । भवेयमिति । मिपि अमादेशः । शप् । गुणः । अवादेशः । यासुट् । सलोपः । इयादेशः । आद्गुणः । भवेवेति । वस् । शप् । गुणावादैशौ । ‘नित्यं ङित’ इति सकारलोपः । यासुट् । सलोपः । इयादेशः । आद्गुणः । यलोपः । एवं मसि भवेमेति रूपम् । इति विधिलिङ्प्रक्रिया ।

Padamanjari

झोऽन्तापवाद इति । पूर्ववद् व्याख्येयम् । जागृयुरित्यादौ च पूर्ववदेव ठदभ्यस्तात्ऽ इत्यस्यापि बाधः । पचेयुरिति । ठतो येयःऽ इतीयादेशः, शपा सह ठाद्गुणःऽ ॥

Nyaas

पचेयुः इति। अतो येयः (7.2.80) इतीयादेशः, आद्गुणः (6.1.87) , पररूपत्वम्॥

Prakriyasarvasvam

लिङो झेर्जुसादेशः स्यात् । ज इत् । इयो यलोपाभावाद्, भवेयुः । सिपस्तिब्वत् । सकारमात्रशेषे विसर्गः । भवेः । थसस्तम् । भवेतम् । थस्य त । भवेत । मिपोऽम् । भवेयम् ।