34105: झस्य रन्

Padacheda: झस्य | S | 6 | 1 |

रन् | S | 1 | 1 |

Sutrartha

लिङ्लकारस्य ‘झ’ प्रत्ययस्य रन्-आदेशः भवति ।

लिङ्-लकारस्य विषये आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य ‘झ’ प्रत्ययस्य रन्-आदेशः भवति । अनेकाल्शित्सर्वस्य (1.1.55) इत्यनेन अयम् सर्वादेशरूपेण आगच्छति । यथा - 1) लभ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुष-बहुवचनस्य रूपम् - लभ् + लिङ् [विधिनिमन्त्रणा.. (3.3.161) इति लिङ्] → लभ् + शप् + लिङ् [कर्तरि शप् (3.1.68) इति शप्] → लभ् + अ + झ [तिप्तस्.. (3.4.78) इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य विवक्षायाम् ‘झ’ प्रत्ययः ] → लभ् + अ + सीयुट् + झ [लिङस्सीयुट् (3.4.102) इति सीयुट्-आगमः] → लभ् + अ + ईय् + झ [लिङःसलोपोऽनन्त्यस्य (7.2.79) इति सकारलोपः] → लभ् + अ + ईय् + रन् [झस्य रन् (3.4.105) इति झकारस्य रन्-आदेशः] → लभ् + अ + ई + रन् [लोपो व्योर्वलि (6.1.66) इति यकारलोपः] → लभेरन् [आद्गुणः (6.1.87) इति गुण-एकादेशः] 2) लभ्-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् - लभ् + लिङ् [आशिषि लिङ्लोटौ (3.3.173) इति लिङ्लकारः] → लभ् + झ [तिप्तस्.. (3.4.78) इत्यनेन आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य झ-प्रत्ययः।] → लभ् + सीयुट् + झ [लिङस्सीयुट् (3.4.102) इति सीयुट्-आगमः] → लभ् + सीय् + रन् [झस्य रन् (3.4.105) इति झकारस्य रन्-आदेशः] → लभ् + सी + रन् [लोपो व्योर्वलि (6.1.66) इति यकारलोपः] → लप् + सी + रन् [खरि च (8.4.55) इति चर्त्वम्] → लप्सीरन्

Sutrartha (English)

The झ-प्रत्यय of लिङ्लकार is converted to रन्.

Vasu English Summary

The affix रन् is the substitute of झ in the लिङ् (Potential and Benedictive).

Vasu English Translation

The affix रन् is the substitute of झ in the लिङ् (Potential and Benedictive). The झ in other places, is replaced generally by अन्त (7.1.3), but in लिङ्, it is replaced by रन् । Thus पचेरन्, यजेरन्, कृषीरन् ।

Kashika

लिङ इत्येव। झस्य लिङादेशस्य रन्नित्ययमादेशो भवति। झोऽन्तापवादः। पचेरन्। यजेरन्। कृषीरन्॥

Siddhanta Kaumudi

लिङो झस्य रन् स्यात् । एधेरन् । एधेथाः । एधेयाथाम् । एधेध्वम् ॥

Laghu Siddhanta Kaumudi

लिङो झस्य रन् स्यात्। एधेरन्। एधेथाः। एधेयाथाम्। एधेध्वम्॥

Padamanjari

झस्येत्यकारोच्चारणात्सङ्घातस्यैव ग्रहणं न वर्णस्य, अन्यथान्तादेशविधाविव’झः’ इत्येव ब्रूयादिति मन्यमान आह - लिङदेशस्य झस्येति । झोऽन्तापवाद इति । झकारस्य योऽन्तादेशस्तस्यापवाद इत्यर्थः ।’झो’ न्तःऽ इत्यस्य वा विधेरपवाद इत्यर्थः । ननु झवर्णस्यान्तादेशः समुदायस्य रन्निति कथं भिन्नविषययोर्बाध्यबाधकभावः ? विरोधात्, येन नाप्राप्तिन्यायाच्च । झोऽन्तापवाद इत्युपलक्षणम् ; कृषीरन्, तृषीरन्नित्यत्र ठात्मनेपदेष्वनतःऽ इत्यस्याप्यपवादः । ननु चापवदाविप्रतिषेधादद्भाव एव प्राप्नोति, न; प्रतिपदविधेर्बलीयस्त्वात्, प्रतिपदविहितो हि रन्भावः । यद्वा - कृषीरन्, तृषीरन्नित्यत्रापि प्रवर्ततामद्भावः, सत्यपि तु तस्मिन्पुनः प्रसङ्गविज्ञानात्सङ्घातस्य रन् भविष्यति ॥

Nyaas

कृषीरन् इति। आशिषि लिङ्॥

Prakriyasarvasvam

लिङो झस्य रन् स्यात् । भवेरन् । भवेथाः भवेयाथाम् भवेध्वम् ।