34106: इटोऽत्

Padacheda: इटः | S | 6 | 1 |

अत् | S | 1 | 1 |

Sutrartha

लिङ्लकारस्य ‘इट्’ प्रत्ययस्य अकारादेशः भवति ।

लिङ्-लकारस्य विषये आत्मनेपदस्य उत्तमपुरुष-एकवचनस्य ‘इट्’ प्रत्ययस्य अकारादेशः भवति । यथा - 1) लभ्-धातोः विधिलिङ्लकारस्य उत्तमपुरुषैकवचनस्य रूपम् - लभ् + लिङ् [विधिनिमन्त्रणा.. (3.3.161) इति लिङ्] → लभ् + शप् + लिङ् [कर्तरि शप् (3.1.68) इति शप्] → लभ् + अ + इट् [तिप्तस्.. (3.4.78) इति आत्मनेपदस्य उत्तमपुरुषैकवचनस्य विवक्षायाम् ‘इट्’ प्रत्ययः ] → लभ् + अ + सीयुट् + इ [लिङस्सीयुट् (3.4.102) इति सीयुट्-आगमः] → लभ् + अ + ईय् + इ [लिङःसलोपोऽनन्त्यस्य (7.2.79) इति सकारलोपः] → लभ् + अ + ईय् + अ [इटोऽत् (3.4.106) इति इट्-प्रत्ययस्य अकारादेशः] → लभेय [आद्गुणः (6.1.87) इति गुण-एकादेशः] 2) लभ्-धातोः आशीर्लिङ्लकारस्य उत्तमपुरुषैकवचनस्य रूपम् - लभ् + लिङ् [आशिषि लिङ्लोटौ (3.3.173) इति लिङ्लकारः] → लभ् + इट् [तिप्तस्.. (3.4.78) इत्यनेन आत्मनेपदस्य उत्तमपुरुषैकवचनस्य विवक्षायाम् ‘इट्’ प्रत्ययः।] → लभ् + सीयुट् + इ [लिङस्सीयुट् (3.4.102) इति सीयुट्-आगमः] → लभ् + सीय् + अ [इटोऽत् (3.4.106) इति इट्-प्रत्ययस्य अकारादेशः] → लप् + सीय् + अ [खरि च (8.4.55) इति चर्त्वम्] → लप्सीय

Sutrartha (English)

The इट्-प्रत्यय of लिङ्लकार is converted to ‘अ’.

Vasu English Summary

The short अ is the substitute of इ of the आत्मनेपद first person singular in the Potential and Benedictive.

Vasu English Translation

The short अ is the substitute of इ of the आत्मनेपद first person singular in the Potential and Benedictive. Thus पचेय, यजेय, कृषीय, हृषीय ।

Q.– In the sutra, the word अत् is used, and the final त् belongs to the विभक्ति, therefore by rule (1.3. 4), this त् is not indicatory; why is it made so ?

A.– This त is not any portion or member of the substitute; it is added to अ merely for the sake of euphony.

The इट् refers to the आत्मनेपद affix of the first person singular; and not to the augment इट् on the strength of the maxim अर्थवद्ग्रहणे नानर्थकस्य । A combination of letters capable of expressing a meaning denotes, whenever it is employed in grammar, that combination of letters in so far as it possesses that meaning, but it does not denote the same combination of letters void of a meaning.

Kashika

लिङादेशस्य इटोऽत् इत्ययमादेशो भवति। पचेय। यजेय। कृषीय। हृषीय। तकारस्येत्संज्ञाप्रतिषेधः प्राप्नोति — **न विभक्तौ तुस्माः**(१.३.४) इति? नैवायमादेशावयवस्तकारः। किं तर्हि? मुखसुखार्थ उच्चार्यते। आगमस्येटो ग्रहणं न भवति, **अर्थवद्ग्रहणे नानर्थकस्य**(परि० १४) इति॥

Siddhanta Kaumudi

लिङादेशस्येटोऽत्स्यात् । एधेय । एधेवहि । एधेमहि । आशीर्लिङि आर्धधातुकत्वात् लिङः सलोपो न । सीयुट्सुटोः प्रत्ययावयवत्वात्षत्वम् । एधिषीष्ट । एधिषायास्ताम् । एधिषीरन् । एधिषीष्ठाः । एधिषीयास्थाम् । एधिषीध्वम् । एधिषीय । एधिषीवहि । एधिषीमहि । ऐधिष्ट । ऐधिषाताम् ॥

Laghu Siddhanta Kaumudi

लिङादेशस्य इटोऽत्स्यात्। एधेय। एधेवहि। एधेमहि॥

Balamanorama

इटोऽत् - इटोऽत् । इटः -अत् इति च्छेदः ।लिङः सीयु॑डित्यतो लिङ इत्यनुवर्तते ।तदाह — लिङादेशस्येति । ‘अच्च घे’ रित्यत्रेव आदेशे तकार उच्चारणार्थ एव, नत्वित्संज्ञक इति शब्देन्दुशेखरे दिव औदित्यत्र प्रपञ्चितम् । इत्संज्ञक एवेत्यन्ये । न विभक्ताविति निषेधस्तु न, आदेशत्वात्प्राग्विभक्तित्वाऽभावात् ।झस्य र॑न्नित्यत्र तु लक्ष्यानुरोधेन संयोगान्तलोपमाश्रित्य नकारानतरप्रश्लेषादुपदेशेऽन्त्यत्वाऽभावान्नकारस्य नेत्संज्ञेत्यलम् । एधेयेति । इट् । तस्य अकारादेशः ।सीयुट् शप् । सलोपः । आद्गुणः । एधेवहि । एधेमहीति । वहिमह्योः सीयुट् । सलोपः । शप् । आद्गुणः । यलोपः । इति विधिलिङ्प्रक्रिया । आर्धधातुकत्वादिति ।लिङाशिषी॑त्यनेनेति भावः । सलोपो नति । सार्वधातुकग्रहणस्य ‘लिङः सलोप’ इत्यत्रानुवृत्तेरिति भावः । सीयुट्सुटोरिति । लक्ष्यभेदात्पुनःप्रवृत्तिरिति भावः । युगपदेवोभयोः षत्वमित्यन्ये । एधिषीष्टेति । आशिषि लिङस्तादेशः । आर्धधातुकत्वान्न शप् । सीयुट् । तकारस्य सुट् । सीयुटः सकारात्प्रागिडागमः । यलोपः । सीयुट सुटश्च सकारस्य षत्वं । तकारस्य ष्टत्वेन टकारः । एधिषीयास्तामिति । आताम् सीयुट् । अकारादुपरि तकारात्प्राक्सुट् ।सीयुः प्रागिट् । तत उत्तरस्य सकारस्य षत्वम् । एधिषीरन्निति । झस्य रन् । सीयुट् । इजागमः । यकारलोपः । षत्वम् । एधिषीष्ठा इति । थास् सीयुट् । थकारस्य सुट् । सीयुटः प्रागिट् । सकारद्वयस्य षत्वम् । थकारस्य ष्टुत्वेन ठकारः । रुत्वविसर्गौ । एधिषीयास्थामिति । आथाम् । सीयुट् । अकारादुपरि थकारात्प्राक्सुट् । सीयुटः प्रागिट् । तत उत्तरस्य सकारस्य षत्वम् । एधिषीध्वमिति । ध्वम् सीयुट् यलोपः । सीयुटः प्रागिट् । षत्वम् । इणः परत्वेऽपि इण्णन्तादङ्गात्परत्वं नास्ति, इटः प्रत्ययभक्तत्वात् । ततश्चइणः षीध्व॑मिति ढत्वं न भवति । एधिषीयेति । इटोऽत् । सीयुट् । इट् । षत्वम् । एधिषीवहि एधिषीमहीति । वहिमह्योः सीयुट् । इट् षत्वम् । इत्याशीर्लिङ्प्रक्रिया । ऐधिष्टेति । लुङस्तादेशः । च्लिः । सिच् । इट् । धातोराट् । वृद्धिः । षत्वं ष्टुत्वम् । ऐधिषातामिति । आताम् । च्लिः । सिच् । इट् । आट् । वृद्धिः । षत्वम् ।

Tattvabodhini

इटोऽत् - एधिषीध्वमिति । इणः परत्वेऽपि इणन्तादह्गात्परत्वाऽभावात्इणः षीध्वमि॑ति ढत्वं न भवति ।

Padamanjari

नैवायमादेशावयव इति । ते नास्तेत्संज्ञया प्रयोजनम्, स्वयमेव निवृतत्वादित्यर्थः । प्रत्युतेसंज्ञायां स्वरितत्वं स्यात्,’न विभक्तौ तुस्माः’ इत्यत्राभ्युपगमवादेनोक्तम् -‘किमोदिटोदिति चात्र प्रातेषेधो न भवत्यनित्यत्वादस्य’ इति । अर्थवद्ग्रहण इत्यादि । ल स्थाने य इडिति विशेषणादप्यागमस्येटो ग्रहणाभावः ॥

Nyaas

कृषीय इति। आशिषि लिङ्। नैवायमादेशावयवः इति। अकारमात्रस्यादेशत्वात्। यद्येवम, अकारोऽयमादेशो विधीयत इति अणुदित्सवर्णस्य चाप्रत्ययः (1.1.69) इति सवर्णानां ग्राहकः स्यात्? भाव्यमानोऽण् सवर्णान् न गृह्णाति (व्या।प।35) इति न भविष्यति। सत्यपि वा सवर्णग्रहणे मात्रिकस्यान्तरतम्यान्मात्रिक एव भविष्यति।अथ लाविषीष्टेत्यत्रागमस्येटः कस्मादकारो न भवतीत्याह - आगमस्येटो ग्रहणं न भवति इति। अत्र कारणमाह - अर्थवद्ग्रहणे न इत्यादि। ननु चागमानामप्यर्थवत्त्वमस्त्येव, तथा हि - यासुट्सहितेनैव लिङो।ञर्थोऽविभिधीयते, न केवलेन? नैतदेवम्; अन्येषु लकारेषु विनापि तेनार्थवत्ता दृष्टा, आगमानां तु न क्वचित्। तेन तेऽर्थवन्तो न भवन्तीति॥

Prakriyasarvasvam

लिङादेशस्येटोऽत् स्यात् । तकार उक्तार्थः । भवेय । भवेवहि भवेमहि । भावे यकि सीयुडादि । भूयेत । कर्मण्यपि-भूयेत, भूयेयाताम् भूयेरन् इत्यादि भवेतेत्यादिवत् । लिङ् ॥

Sutra Prayogas

  • उत्सहेय (भट्टिकाव्यम्): इटोत् इत्योत्।