34104: किदाशिषि¶
Padacheda: कित् | S | 1 | 1 |
आशिषि | S | 7 | 1 |
Sutrartha¶
आशीर्लिङ्लकारस्य प्रत्ययानाम् परस्मैपदेषु यासुट् आगमः भवति, स च उदात्तः कित् भवति ।
आशीर्लिङ्लकारस्य विषये यासुट् परस्मैपदेषूदात्तो ङिच्च (3.4.103) इत्यनेन उदात्त-ङित्-यासुट्-आगमे प्राप्ते ; वर्तमानसूत्रेण अयमेव आगमः ‘कित्’ विधीयते, ङित् न । कित्त्वस्य ङित्भिन्नम् मुख्यम् प्रयोजनमस्ति ‘सम्प्रसारणम्’ । वचिस्वपियजादीनां किति (6.1.15) इत्यनेन कित्-प्रत्यये परे यत् सम्प्रसारणम् विधीयते तत् ङित्-परे न भवति । आशीर्लिङ्लकारस्य विषये एतत् सम्प्रसारणम् कर्तव्यम् - इति निर्देष्टुमत्र आगमस्य कित्-ग्रहणं क्रियते । गुणवृद्धिनिषेधः तु क्ङिति च (1.2.5) इत्यनेन ङित्-प्रत्ययस्य विषये यथा विधीयते तथैव कित्-प्रत्ययस्य विषयेऽपि विधीयते । यथा, वच्-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषैकवचनम् एतादृशम् - वच् + लिङ् [आशिषि लिङ्लोटौ (3.3.173) इति लिङ्लकारः] → वच् + तिप् [तिप्तस्.. (3.4.78) इति तिप् । लिङ्गाशिषि (3.4.116) इत्यनेन अयमार्धधातुकसंज्ञकः भवति । ] → वच् + यासुट् + ति [किदाशिषि (3.4.104) इति उदात्तः कित् यासुट्-आगमः ] → वच् + यास् + सुट् + ति [सुट्तिथोः (3.4.107) इति सुट्-आगमः] → उच् + यास् + स् + ति [वचिस्वपियजादीनां किति (6.1.15) इति सम्प्रसारणम्] → उच् + यास् + स् + त् [इतश्च (3.4.100) इति इकारलोपः] → उच् + या + स् + त् [स्कोः संयोगाद्योरन्ते च (8.2.29) इति झलि परे सकारलोपः] → उच्यात् [स्कोः संयोगाद्योरन्ते च (8.2.29) इति पदान्ते सकारलोपः]
Sutrartha (English)¶
The परस्मैपदस्य प्रत्ययाः of आशीर्लिङ्लकार get a ‘यासुट्’ आगम which is both - उदात्त and कित्.
Vasu English Summary¶
The augment यासुट् comes after that लिङ् (Benedictive) also which denotes benediction and it is acutely accented and the substitutes of this लिङ् (Benedictive) are as they had an indicatory क्।
Vasu English Translation¶
The augment यासुट् comes after that लिङ् (Benedictive) also which denotes benediction and it is acutely accented and the substitutes of this लिङ् (Benedictive) are as they had an indicatory क्। The कित् of this sutra refers to the personal affixes of the Benedictive mood and not to the augment यासुट्, for that would have been unnecessary, being already ङित् by the last rule. ङित् and कित् are equal in prohibiting guna and vriddhi, but ङित् is distinguished from कित् in as much as ङित् causes the guna of जागृ (7.3.85), and also there is distinction between them with regard to the change of semi-vowel to vowel (6.1.15) and (6.1.16). Thus इष्यात्, इष्यास्ताम्, इष्यासुः, and जागर्यात्, जागर्यास्ताम् and जागर्यासुः । In the Potential, वच्यात् (no samprasarana); in the Benedictive, उच्यात् (vocalisation). So also जागृयात् in the Potential.
Kashika¶
आशिषि यो लिङ्, तस्य यासुडागमो भवति, स चोदात्तः किद्वद् भवति। प्रत्ययस्यैवेदं कित्त्वम्, नागमस्य, प्रयोजनाभावात्। ङित्त्वे प्राप्ते कित्त्वं विधीयते। गुणवृद्धिप्रतिषेधस्तुल्यः, संप्रसारणं जागर्तेर्गुणे च विशेषः। उच्यात्, उच्यास्ताम्, उच्यासुः। जागर्यात्, जागर्यास्ताम्, जागर्यासुः। आशिषीति किम्? वच्यात्। जागृयात्॥
Siddhanta Kaumudi¶
आशिषि लिङो यासुट् कित्स्यात् । स्कोः - (SK380) इति सलोपः ॥
Laghu Siddhanta Kaumudi¶
आशिषि लिङो यासुट् कित्। स्कोः संयोगाद्योरिति सलोपः॥
Balamanorama¶
किदाशिषि - किदाशिषि ।लिङः सीयु॑डित्यतो लिङ इत्यनुवर्तते ।यासुट् परस्मैपदेष्वि॑त्यतो यासुडिति च । तदाह — आशिषि लिङ इति ।यासुट् परस्मैपदेष्वि॑ति ङित्त्वस्यापवादः । यद्यपि ङित्त्वेनैव गुणनिषेधः सिध्यति, तथापिइज्या॑दित्यादौवचिस्वपियजादीनां किती॑ति संप्रसारणार्थं कित्तवमावश्यकमिह न्याय्यत्वादुपन्यस्तम् । अथ आशिषि लिङस्तिप्यार्धधातुकत्वाच्छबभावेइतश्चे॑तीकारलोपे यासुटागमेऽतः परत्वाऽभावात् सार्वधातुकात्वाऽभावाच्च इयादेशाऽभावे सुटि भूयास् स् त् इति स्थिते प्रक्रियामाह — स्कोरिति लोप इति । ‘लिङसलोप’ इत्यस्य सार्वधातुकविषयत्वात्स्कोरिति सुः पदान्तसंयोगादित्वाल्लोपः । ततो यासुटः सस्यापि पदान्तसंयोगादित्वादेव लोपः, न तु झल्परसंयोगादित्वेन यासुटः सस्य लोपे सुटः सस्य पदान्तसंयोगादित्वाल्लोप इति युक्तं, तथा सति झल्पसंयोगादिलोपस्याऽसिद्धत्वेन संयोगान्तलोपापत्तेः । भ्रष्ट इत्यादौ सावकाशस्यझल्परसंयोगादिलोपस्य संयोगान्तलोपाऽबाधकत्वादिति शब्दरत्ने विस्तरः । एवं च भूयास् स् त् इति स्थिते सकारद्वयस्य निवृत्तौ भूयादिति रूपम् । तत्रसार्वधातुकार्धधातुकयो॑रिति गुणे प्राप्ते ।
Tattvabodhini¶
किदाशिषि - ङित्त्वेनैव गुणवृद्धिप्रतिषेधेसिद्धे किद्वचनमिज्यादित्यादौ संप्रसारणार्थं, जागर्यादित्यत्र गुणार्थं च । जागर्तेर्गुणो हि ङिति पर्युदस्यते, ङित्त्वं चेह विशेषविहितेन कित्त्वेन बाध्यते । सलोप इति । झल्परसंयोगादित्वेन यासुटः सस्य लोपः, सुटस्तु पदान्तसंयोगादित्वेनेति भाव मनोरमायां स्थितं, तदसंबद्धमिति मत्वाऽत्र निष्कर्षमाहुः — भूयास्तां, भूयास्तं, भूयास्तेत्यत्र झस्पसंयोगादित्वेन यासुटः सस्य लोपः । भूयादित्यत्र तु सुट इव यासुटोऽपि सस्य लोपः पदान्तसंयोगादित्वेनैव । अन्यथा झस्परसंयोगादिलोपस्याऽसिद्धत्वात्संयोगान्तलोप एव स्यात् । भृष्ट इत्यादौ सावकाशस्य झस्पसंयोगादिलोपस्य संयोगान्तलोपऽबाधकत्वादिति ।
Padamanjari¶
तस्य यासुट्॥।किद्वद्भवतीति । तस्य यासुड् भवति स च लिङ्किद्वद्भवतीत्यर्थः । अन्यथा’प्रत्ययस्येदं कित्वम्’ इत्यनन्तरग्रन्थेन विरोधः स्यात् । प्रयोजनाभावादिति ।’वचिस्वपि’ इत्यत्रापि’धातोः स्वरूपग्रहणे’ इति प्रत्ययस्यैवेदं ग्रहणं स्यात्; अन्यथा वाच्यति वाचिकं कथयति, वाग्जहातीत्यत्रापि स्यात् । गुणवृद्धिप्रतिषेधस्तुल्य इति । किमर्थं तर्हि कित्वविधानमित्यत आह - सम्प्रसारणमिति । जागर्यादिति ।’जाग्रो’ विचिण्णल्ङ्त्सुऽ ईति गुणः ॥
Nyaas¶
प्रत्ययस्यैवेदं कित्त्वम् इति। यद्येवम्, आशिषि लिङ् विहितस्तस्य यासुट् किद्भवतीत्येतद्विरुध्यते? नास्ति विरोधः; यासुड्वचनं लिङ एवोपलक्षणम्। तेन लिङवयवद्वारेण लिङ एव कित्त्वमनेन विधीयते; यासुडवयवत्वाल्लिङः। नागमस्य इति। नागमस्य इति। अत्रापि नागमात्रस्येत्येषोऽर्थो वेदितव्यः। प्रयोजनाभावात् इति। न सर्वस्य कित्त्वप्रयोजनस्याभावादिति भावः। कुतः? वाच्यादिसूत्रेण (6.1.15) यद्वचिस्वप्योः सम्प्रसारणं तस्य यासुटपि किति सम्भवात्। किन्मात्रे हि सम्प्रसारणमुच्यते, विशेषापरिग्रहात्। यदि गुणवृद्धिप्रतिषेधस्तुल्य एवेति कस्तर्हि ङित्वात् कित्त्वस्य विशेषो येन तस्मिन् प्राप्ते कित्तवं विधीयेत? इत्याह - सम्प्रसारणम् इत्यादि। ङित्वे वच्यादिसूत्रेण (6.1.15) किति दिधीयमानं सम्प्रसारणं न स्यात्। जाग्रोऽविचिण्णल्ङित्सु (7.3.85) इति विधीयमानो गुणः। इष्यात् इति। स्कोः संयोगाद्योरन्ते च (8.2.29) इति सकारलोपः।वच्यात् इति। कित्वाभावाद्वचेः सम्प्रसारणं न भवति। जागृयात् इति। पूर्वसूत्रेण ङित्वम्, तेन गुणो न भवति। उभयत्रादादिकत्वाच्छपो लुक्॥
Prakriyasarvasvam¶
आशिषि लिङः परस्मैपदेषु यासुट् कित्त्वं च स्यात् । भूयास् ति । कित्त्वान्न गुणः । इलोपः । भू यास् त् । आर्धधातुकत्वा’ल्लिङः सलोप—’ इति सलोपो न । तेन ‘स्कोः संयोगाद्योः—’ इति सलोपः । भूयात् । तामादिः, जुसपि । भूयास्ताम् भूयासुः । सिपि तिब्वत्, भूयाः । भूयास्तम् भूयास्तः । भूयासम् भूयास्व भूयास्म । तङि सीयुट् । भू सीय् त । इट् । गुणः । भवि सीय् त ।