34091: सवाभ्यां वामौ¶
Padacheda: स-वाभ्याम् | S | 5 | 2 |
व-अमौ | S | 1 | 2 |
Sutrartha¶
लोट्लकारस्य प्रत्ययेषु विद्यमानस्य सकारात् परस्य एकारस्य ‘व’ आदेशः तथा वकारात् परस्य एकारस्य अम्-आदेशः भवति ।
लोट्लकारस्य प्रत्ययेषु सकारात्-परः एकारः मध्यमपुरुषैकवचनस्य विषये, तथा वकारात्-परः एकारः मध्यमपुरुषबहुकवचनस्य विषये दृश्यते । एतयोः क्रमेण व् तथा अमादेशौ भवतः । वन्द्-धातुं स्वीकृत्य प्रक्रिया एतादृशी भवति - 1. मध्यमपुरुषैकवचनस्य थास्-प्रत्ययः वन्द् + लोट् [लोट् च (3.3.162) इति लोट्-लकारः] → वन्द् + थास् [तिप्तस्.. (3.4.78) इति थास्-प्रत्ययः] → वन्द् + शप् + थास् [कर्तरि शप् (3.1.68) इति औत्सर्गिकः विकरणप्रत्ययः शप् ] → वन्द् + अ + से [थासस्से (3.4.80) इति थास्-प्रत्ययस्य ‘से’ आदेशः] → वन्द् + अ + स् + व [सवाभ्यां वामौ (3.4.91) इति सकारात् परस्य एकारस्य वकारः] → वन्दस्व 2. मध्यमपुरुषबहुवचनस्य ध्वम्-प्रत्ययः वन्द् + लोट् [लोट् च (3.3.162) इति लोट्-लकारः] → वन्द् + ध्वम् [तिप्तस्.. (3.4.78) इति ध्वम् -प्रत्ययः] → वन्द् + शप् + ध्वम् [कर्तरि शप् (3.1.68) इति औत्सर्गिकः विकरणप्रत्ययः शप् ] → वन्द् + अ + ध्वे [टित आत्मनेपदानां टेरे (3.4.68) इति एकारः] → वन्द् + अ + ध्व् + अम् [सवाभ्यां वामौ (3.4.91) इति वकारात् परस्य एकारस्य अम्-आदेशः] → वन्दध्वम्
Sutrartha (English)¶
An एकार coming after a सकार or a वकार of प्रत्यय of लोट्लकार is respectively converted to व and अम्.
Vasu English Summary¶
For such an ए coming after स् , is substituted व् and for that coming after व् , is substituted अम् , in the (Imperative Mood).
Vasu English Translation¶
For such an ए coming after स् , is substituted व् and for that coming after व् , is substituted अम् , in the (Imperative Mood). This supersedes the आम् substitution of the last sutra. Thus, for से we have स्व, and for ध्वे we have ध्वम्; see the table; thus पचस्व, पचध्वम् ।
Kashika¶
लोट इत्येव। सकारवकाराभ्यामुत्तरस्य लोट्संबन्धिन एकारस्य यथासंख्यं व अम् इत्येतावादेशौ भवतः। आमोऽपवादः। पचस्व। पचध्वम्॥
Siddhanta Kaumudi¶
सवाभ्यां परस्य लोडेतः क्रमाद्व अम् एतौ स्तः । एधस्व । एधेथाम् । एधध्वम् ॥
Laghu Siddhanta Kaumudi¶
सवाभ्याम् परस्य लोडेतः क्रमाद्वामौ स्तः। एधस्व। एधेथाम्। एधध्वम्॥
Balamanorama¶
सवाभ्यां वामौ - सवाभ्यां । सश्च वश्च सवौ । ताभ्यामिति विग्रहः । अकारावुच्चारणार्थौ । वश्च अम्च वाऽमौ ।लोटो लङ्व॑दित्यास्माल्लोट इतिआमेत॑इत्यस्मादेत इति चानुवर्तते । तदाह — सकारेति ।आमेत॑इत्यस्यापवादः । एधस्वेति ।एध-सेट इत्यत्र एकारस्य ‘व’ इति वकाराकारसङ्घात आदेशः । एधेथामिति । आथाम् । टेरत्वं । शप् । ‘आतो ङि’ इत्याकारस्य इय् । गुणः । यलोपः ‘आमेत’ इत्याम् । एधध्वमिति । ध्वमि, शप्, टेरेत्वे कृते सवाभ्यामिति वकारात्परत्वादेकारस्य अम् ।
Nyaas¶
पचस्व इति। थासः से (3.4.80) इति कृते वकारः। पचध्वम इति। टेरेत्वे कृतेऽमादेशः॥
Prakriyasarvasvam¶
सकारवकाराभ्यां परस्य लोट एतः क्रमात् व अम् इति स्तः । भवस्व । भवेथामिति प्राग्वत् । भवध्वे इति जाते ‘स्वाभ्या’मित्यम् । भवध्वम् । इटष्टेरेत्वम् । भव ए—