34092: आडुत्तमस्य पिच्च

Padacheda: आट् | S | 1 | 1 |

उत्तमस्य | S | 6 | 1 |

पित् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha

लोट्-लकारस्य उत्तमपुरुषस्य प्रत्ययानामाट्-आगमः भवति, सः च पित् वर्तते ।

लोट्-लकारस्य परस्मैपदस्य तथा आत्मनेपदस्यापि उत्तमपुरुषस्य प्रत्ययानाम् ‘आट्’ आगमः भवति । आद्यन्तौ टकितौ (1.1.46) इति टित्वात् अयम् स्थानिनः पूर्वमागच्छति । अयमागमः पित्-अपि अस्ति, अतः आवश्यकं चेत् अङ्गस्य गुणादेशं कारयति । अष्टमगणस्य तन्-धातुं स्वीकृत्य उदाहरणानि एतादृशानि - 1. परस्मैपदस्य उत्तमपुरुषैकवचनस्य मिप्-प्रत्ययः तन् + लोट् [लोट् च (3.3.162) इति लोट्-लकारः] → तन् + मिप् [तिप्तस्..(3.4.78) इति मिप्-प्रत्ययः] → तन् + उ + मिप् [तनादिकृञ्भ्यः उः (3.1.79) इति उ-प्रत्ययः] → तन् + उ + नि [मेर्नि (3.4.89) इति मिप्-इत्यस्य नि-आदेशः] → तन् + उ + आट् + नि [आडुत्तमस्य पिच्च (3.4.92) इति आडागमः] → तन् + ओ + आ + नि [आट्-आगमस्य पित्-त्वात् सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणः] → तन् अव् आ नि [एचोऽयवावावः (6.1.78) इति अवादेशः] → तनवानि 2. परस्मैपदस्य उत्तमपुरुषद्विवचनस्य वस् -प्रत्ययः तन् + लोट् [लोट् च (3.3.162) इति लोट्-लकारः] → तन् + वस् [तिप्तस्..(3.4.78) इति वस्-प्रत्ययः] → तन् + उ + वस् [तनादिकृञ्भ्यः उः (3.1.79) इति उ-प्रत्ययः] → तन् + उ + व [लोटो लङ्वत् (3.4.85) इत्यनेन लङातिदेशः । नित्यं ङितः (3.4.9) इति सकारलोपः] → तन् + उ + आट् + व [आडुत्तमस्य पिच्च (3.4.92) इति आडागमः] → तन् + ओ + आ + व [आट्-आगमस्य पित्-त्वात् सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणः] → तन् + अव् + आ + व [एचोऽयवावावः (6.1.78) इति अवादेशः] → तनवाव 3. परस्मैपदस्य उत्तमपुरुषबहुवचनस्य मस् -प्रत्ययः तन् + लोट् [लोट् च (3.3.162) इति लोट्-लकारः] → तन् + मस् [तिप्तस्..(3.4.78) इति मस्-प्रत्ययः] → तन् + उ + मस् [तनादिकृञ्भ्यः उः (3.1.79) इति उ-प्रत्ययः] → तन् + उ + म [लोटो लङ्वत् (3.4.85) इत्यनेन लङातिदेशः । नित्यं ङितः (3.4.9) इति सकारलोपः] → तन् + उ + आट् + म [आडुत्तमस्य पिच्च (3.4.92) इति आडागमः] → तन् + ओ + आ + म [आट्-आगमस्य पित्-त्वात् सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणः] → तन् + अव् + आ + म [एचोऽयवावावः (6.1.78) इति अवादेशः] → तनवाम 4. आत्मनेपदस्य उत्तमपुरुषैकवचनस्य इट्-प्रत्ययः तन् + लोट् [लोट् च (3.3.162) इति लोट्-लकारः] → तन् + इट् [तिप्तस्..(3.4.78) इति इट् -प्रत्ययः] → तन् + उ + इ [तनादिकृञ्भ्यः उः (3.1.79) इति उ-प्रत्ययः] → तन् + उ + ए [टित आत्मनेपदानां टेरे (3.4.79) इति इकारस्य एकारादेशः] → तन् + उ + ऐ [एत ऐ (3.4.93) इति एकारस्य ऐकारादेशः] → तन् + उ + आट् + ऐ [आडुत्तमस्य पिच्च (3.4.92) इति आडागमः] → तन् + उ + ऐ [आटश्च (6.1.90) इति वृद्धि-एकादेशः] → तन् + ओ + ऐ [आट्-आगमस्य पित्-त्वात् सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणः] → तन् + अव् + ऐ [एचोऽयवावावः (6.1.78) इति अवादेशः] → तनवै 5. आत्मनेपदस्य प्रथमपुरुषैकवचनस्य वहि-प्रत्ययः तन् + लोट् [लोट् च (3.3.162) इति लोट्-लकारः] → तन् + वहि [तिप्तस्..(3.4.78) इति वहि-प्रत्ययः] → तन् + उ + वहि [तनादिकृञ्भ्यः उः (3.1.79) इति उ-प्रत्ययः] → तन् + उ + वहे [टित आत्मनेपदानां टेरे (3.4.79) इति इकारस्य एकारादेशः] → तन् + उ + वहै [एत ऐ (3.4.93) इति एकारस्य ऐकारादेशः] → तन् + उ + आट् + वहै [आडुत्तमस्य पिच्च (3.4.92) इति आडागमः] → तन् + ओ + आ + वहै [आट्-आगमस्य पित्-त्वात् सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणः] → तन् + अव् + आ + वहै [एचोऽयवावावः (6.1.78) इति अवादेशः] → तनवावहै 6. आत्मनेपदस्य प्रथमपुरुषैकवचनस्य महिङ्-प्रत्ययः तन् + लोट् [लोट् च (3.3.162) इति लोट्-लकारः] → तन् + महिङ् [तिप्तस्..(3.4.78) इति वहि-प्रत्ययः] → तन् + उ + महि [तनादिकृञ्भ्यः उः (3.1.79) इति उ-प्रत्ययः] → तन् + उ + महे [टित आत्मनेपदानां टेरे (3.4.79) इति इकारस्य एकारादेशः] → तन् + उ + महै [एत ऐ (3.4.93) इति एकारस्य ऐकारादेशः] → तन् + उ + आट् + महै [आडुत्तमस्य पिच्च (3.4.92) इति आडागमः] → तन् + ओ + आ + महै [आट्-आगमस्य पित्-त्वात् सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणः] → तन् + अव् + आ + महै [एचोऽयवावावः (6.1.78) इति अवादेशः] → तनवामहै

Sutrartha (English)

The उत्तमपुरुष प्रत्ययाः of लोट्-लकार get the आट्-आगम, and this आगम is considered पित्.

Vasu English Summary

In the लोट् (Imperative Mood) आट् is the augment of the affixes the first person and the termination is as if it had an indicatory प्।

Vasu English Translation

In the लोट् (Imperative Mood) आट् is the augment of the affixes the first person and the termination is as if it had an indicatory प्। This is clear. Thus in the Parasmaipada, we have आनि, आव, आम । Thus करवाणि, करवाव, करवाम; करवै, करवावहै, करवामहै ।

Kashika

लोट इत्येव। लोट्संबन्धिन उत्तमपुरुषस्याडागमो भवति, स चोत्तमपुरुषः पिद् भवति। करवाणि, करवाव, करवाम। करवै, करवावहै, करवामहै॥

Siddhanta Kaumudi

लोडुत्तमस्याडागमः स्यात्, सः पिच्च । हिन्योरुत्वं न इकारोच्चारणसामर्थ्यात् । भवानि । भवाव । भवाम ॥

Laghu Siddhanta Kaumudi

लोडुत्तमस्याट् स्यात् पिच्च। हिन्योरुत्वं न, इकारोच्चारणसामर्थ्यात्॥

Balamanorama

आडुत्तमस्य पिच्च - भव नि इति स्थिते — आडुत्तमस्येति ।लोटो लङ्व॑दित्यतो लोट इत्यनुवर्तते । तदाह — लोडुत्तमस्येति । स्तवानि स्तवावेत्यादौ सार्वधातुकपिदिति ङित्त्वनिवृत्त्यर्थं पिद्वचनम् । यद्यपि मिपस्थानिकस्य नः पित्त्वात्तदागमस्यापि सिद्धं पित्त्वं, तथापि वस्मसोराडागमस्याऽङित्तवार्थं पिदिति वचनम् । ननु स्तुहि भवानीत्यत्र ‘एरु’ रित्युत्वं कुतो न स्यादित्यत आह-हिन्योरुत्वं नेति । सामर्थ्यादिति । अन्यथा — ‘हु-नु’ इत्येव विदध्यादिति भावः । भवानीति । आडागमे सवर्णदीर्घः । न चाऽत्र लङ्वद्भावादितश्चेति लोपः शङ्क्यः, इकारोच्चारणसामर्थ्यात् । अन्यथा ‘मो न’ इत्येव विदध्यात् । एवं हेरपि बोध्यम् । यद्यपि भवानीत्यादवतो दीर्घो यञि इत्येव दीर्घसिद्धेराडागमविधिव्र्यर्थस्तथापि स्तवानीत्याद्यर्थमावश्यकमिहापि न्याय्यत्वादुपन्यस्तम् । भवावेति । लोटो वस् । गुणावादेशौ । आडागमः । सवर्णदीर्घः । लङ्वद्भावात् ‘नित्यं ङित’ इति सकारलोपः । एवं मसि भवामेति रूपम् । इति लोट्प्रक्रिया ।

Tattvabodhini

आडुत्तमस्य पिच्च - ॒स॑ इति तच्छब्देन यस्याऽऽडागमः स परामृश्यत इत्याहुः॥

Padamanjari

स चोतमपुरुषः पिद्भवतीति । आट एव पित्वं कस्मान्न विज्ञायते, तुल्यविभक्तिकयोहि युक्तः सम्बन्धः - आट् पिदिति ? निर्थकत्वात् । अनुदातत्वं तावदागमत्वादेव सिद्धम् ; करवाणि, मार्जानीत्यादौ गुणवृद्ध्योरपि प्रत्यय एव निमितं न त्वागमः ॥

Nyaas

स चोत्तमपुरुषः पिद्भवतिट इति। अथाट एव पित्त्वं कस्मान्न क्रियते? निरर्थकत्वात्। पित्त्वं ह्रनुदातार्थं वा स्यात्, गुणवृद्ध्यर्थं वा; तत्राटोऽनुदात्तत्वमागमत्वादेव सिद्धम्, गुणवृद्ध्योस्तु नैवासौ निमित्तम्; अप्रत्ययत्वात्। तस्मादाटं प्रति पित्त्वमनर्थकमित्युत्तमस्यैव विधीयते। करवाणि इति। पित्त्वादुत्तमस्य ङित्वं नास्ति, तेन गुणो भवति। करवै इति। एत ऐ (3.4.93) , आटश्च (6.1.87) इति वृद्धिः॥

Prakriyasarvasvam

लोट उत्तमस्य आडागमः स्यात्, स च पित् स्यात् । सवर्णदीर्घः । भवानि ।

Sutra Prayogas

  • हनाम (शिशुपालवधम्): आडुत्तमस्य पिच्च इत्याडागमः।

  • तनवै (शिशुपालवधम्): आडुत्तमस्य पिच्च इति आडागमः।