34082: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः

Padacheda: परस्मैपदानाम् | S | 6 | 3 |

णल्-अतुस्-उस्-थल्-अथुस्-अ-णल्-व-माः | S | 1 | 3 |

Sutrartha

लिट्-लकारस्य विषये परस्मैपदस्य प्रत्ययानाम् णल्-अतुस्-उस्-थल्-अथुस्-अ-णल्-व-म-आदेशाः भवन्ति ।

परस्मैपदस्य ये नव प्रत्ययाः तिप्तस्झि… (3.4.78) इत्यनेन दीयन्ते तेषाम् लिट्-लकारस्य विषये क्रमेण ‘णल्-अतुस्-उस्-थल्-अथुस्-अ-णल्-व-म’ एते आदेशाः भवन्ति । एतेषां प्रत्ययानाम् विषये किञ्चित् अधिकम् - 1) णल्-इत्यत्र लकार-णकारयोः इत्संज्ञा लोपश्च भवति । अस्मिन् प्रत्यये णकारस्य ग्रहणेन प्रत्ययः ‘णित्’ भवति, येन णित्-विशिष्टानि कार्याणि - यथा अतः उपधायाः (7.2.116) इत्यनेन वृद्धिः आदयः भवितुमर्हन्ति । 2) अतुस् / उस् एतयोः सकारः न विभक्तौ तुस्माः (1.3.4) इत्यनेन इत्संज्ञकः नास्ति । अस्य सकारस्य विसर्गादेशः भवति । 3) मध्यमपुरुषस्य बहुवचनस्य ‘अ’ एतम् विहाय अन्ये सर्वे आदेशाः अनेकाल्-आदेशाः सन्ति, अतः अनेकाल्शित्सर्वस्य (1.1.55) इत्यनेन ते सर्वादेशस्य रूपेण भवन्ति । ‘अ’ प्रत्ययः तु एकाल्-अस्ति, तथा च धातोः (3.1.91) इत्यनेन धातोः परस्य प्रत्ययस्य आदेशरूपेण उक्तः अस्ति, अतः आदेः परस्य (1.1.54) इत्यनेन सः आद्यादेशः भवति । इत्युक्ते, अयमकारः ‘थ’ इत्यस्य थकारस्य आदेशरूपेण आगच्छति । अग्रे ‘अ अ’ इति स्थिते अतो गुणे (6.1.97) इत्यनेन अकारः एकादेशः जायते । ‘पच्’ धातोः परस्मैपदस्य लिट्-लकारस्य सर्वेषाम् रूपाणाम् प्रक्रिया अधः दत्ता अस्ति । 1) तिप-प्रत्ययस्य णल् आदेशः - पच् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → पच् पच् + लिट् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → प पच् + लिट् [हलादि शेषः**(7.4.60) इति चकारलोपः] → प पच् + तिप् [**तिप्तस्झि… (3.4.78) इति तिप्-प्रत्ययः] → प पच् णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति तिप्-इत्यस्य णल्-आदेशः] → प पाच् + अ [अतः उपधायाः (7.2.116) इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः] → पपाच 2) थस्-प्रत्ययस्य अतुस्-आदेशः - पच् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → पच् पच् + लिट् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → प पच् + लिट् [हलादि शेषः**(7.4.60) इति चकारलोपः] → प पच् + तस् [**तिप्तस्झि… (3.4.78) इति तस् -प्रत्ययः] → प पच् अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति तस् -इत्यस्य अतुस् -आदेशः] → पेच् अतुस् [अत एकहल्मध्येऽनादेशादेर्लिटि (6.4.120) इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः] → पेचतुः [ससजुषोः रुः (8.2.66) इति रुँत्वम् । खरवसानयोर्विसजर्नीयः (8.3.15) इति विसर्गः] 3) झि-प्रत्ययस्य उस्-आदेशः - पच् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → पच् पच् + लिट् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → प पच् + लिट् [हलादि शेषः**(7.4.60) इति चकारलोपः] → प पच् + झि [**तिप्तस्झि… (3.4.78) इति झि-प्रत्ययः] → प पच् उस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति झि-इत्यस्य उस्-आदेशः] → पेच् उस् [अत एकहल्मध्येऽनादेशादेर्लिटि (6.4.120) इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः] → पेचुः [ससजुषोः रुः (8.2.66) इति रुँत्वम् । खरवसानयोर्विसजर्नीयः (8.3.15) इति विसर्गः] 4) सिप्-प्रत्ययस्य थल्-आदेशः - पच् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → पच् पच् + लिट् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → प पच् + लिट् [हलादि शेषः**(7.4.60) इति चकारलोपः] → प पच् + सिप् [**तिप्तस्झि… (3.4.78) इति सिप्-प्रत्ययः] → प पच् थल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति सिप्-इत्यस्य थल्-आदेशः] → प पक् + थ [चोः कुः (8.2.30) इति कुत्वम्] → पपक्थ 5) थस्-प्रत्ययस्य अथुस्-आदेशः - पच् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → पच् पच् + लिट् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → प पच् + लिट् [हलादि शेषः**(7.4.60) इति चकारलोपः] → प पच् + थस् [**तिप्तस्झि… (3.4.78) इति थस्-प्रत्ययः] → प पच् अथुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति थस्-इत्यस्य अथुस्-आदेशः] → पेच् अथुस् [अत एकहल्मध्येऽनादेशादेर्लिटि (6.4.120) इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः] → पेचथुः [ससजुषोः रुः (8.2.66) इति रुँत्वम् । खरवसानयोर्विसजर्नीयः (8.3.15) इति विसर्गः] 6) थ-प्रत्ययस्य अ-आदेशः - पच् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → पच् पच् + लिट् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → प पच् + लिट् [हलादि शेषः**(7.4.60) इति चकारलोपः] → प पच् + थ [**तिप्तस्झि… (3.4.78) इति थ-प्रत्ययः] → प पच् अ [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति प्रत्ययस्य अकारादेशः ।] → पेच् अ [अत एकहल्मध्येऽनादेशादेर्लिटि (6.4.120) इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः । ] → पेच [ससजुषोः रुः (8.2.66) इति रुँत्वम् । खरवसानयोर्विसजर्नीयः (8.3.15) इति विसर्गः] 7) मिप्-प्रत्ययस्य णल्-आदेशः - पच् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → पच् पच् + लिट् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → प पच् + लिट् [हलादि शेषः**(7.4.60) इति चकारलोपः] → प पच् + मिप् [**तिप्तस्झि… (3.4.78) इति मिप्-प्रत्ययः] → प पच् णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति मिप्-इत्यस्य णल्-आदेशः] → प पाच्/पच् + अ [णलुत्तमो वा (7.1.91) इति वैकल्पिकम् णित्वम् । णित्वे अतः उपधायाः (7.2.116) इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः] → पपाच / पपच 8) वस्-प्रत्ययस्य व-आदेशः - पच् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → पच् पच् + लिट् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → प पच् + लिट् [हलादि शेषः**(7.4.60) इति चकारलोपः] → प पच् + वस् [**तिप्तस्झि… (3.4.78) इति वस्-प्रत्ययः] → प पच् व [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति वस्-इत्यस्य व-आदेशः] → प पच् इट् व कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि (7.2.13) इत्यनेन पच्-धातोः लिटि इट्त्वम् । अतः आर्द्धधातुकस्य इड्वलादेः (7.2.35) इति इडागमः] → पेच् इ व [अत एकहल्मध्येऽनादेशादेर्लिटि (6.4.120) इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः । ] → पेचिव 9) मस्-प्रत्ययस्य म-आदेशः - पच् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → पच् पच् + लिट् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → प पच् + लिट् [हलादि शेषः**(7.4.60) इति चकारलोपः] → प पच् + मस् [**तिप्तस्झि… (3.4.78) इति वस्-प्रत्ययः] → प पच् म [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति मस्-इत्यस्य म-आदेशः] → प पच् इट् म कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि (7.2.13) इत्यनेन पच्-धातोः लिटि इट्त्वम् । अतः आर्द्धधातुकस्य इड्वलादेः (7.2.35) इति इडागमः] → पेच् इ म [अत एकहल्मध्येऽनादेशादेर्लिटि (6.4.120) इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः । ] → पेचिम

Sutrartha (English)

In case of the लिट् लकार, the परस्मैपद प्रत्ययाः are respectively converted to - णल्,अतुस्, उस्, थल्, अथुस्, अ, णल्, व, म.

Vasu English Summary

In the room of the परस्मैपद affixes, the following are substituted in the लिट् (Perfect Tense). Singular - णल् (अ), थल् (थ), णल् (अ). Dual - अतुस् (अतुः), अथुस् (अथुः), व (व). Plural - उस् (उः) , अ (अ), म (म).

Vasu English Translation

In the room of the परस्मैपद affixes, the following are substituted in the लिट् (Perfect Tense). Singular - णल् (अ), थल् (थ), णल् (अ). Dual - अतुस् (अतुः), अथुस् (अथुः), व (व). Plural - उस् (उः) , अ (अ), म (म). - 3rd person, nal (अ), atus (अतुः), us (उः) - 2nd person, thal (थ), atus (अथुः), a (अ), - 1st person, nal (अ), va (व), ma (म)

The indicatory ल् in णल् and थल् is for the sake of accent (6.1.193). The indicatory ण् is for the sake of causing वृद्धि (7.2.25). Thus पपाच, पेचतुः, पेचुः, पेचिथ or पपक्थ, पेचथुः, पेच, पपाच or पपच, पेचिव पेचिम ।

Bhashya

परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (1243) (609 लिटः परस्मैपदानामादेशविधिसूत्रम्॥ 3 । 4 । 1 आ.21) (5039 आक्षेपवार्तिकम्॥ 1 ॥) - णलः शित्करणं सर्वादेशार्थम्- (भाष्यम्) णल् शित्कर्तव्यः। किं प्रयोजनम्। सर्वादेशार्थम्?। शित्सर्वस्य इति सर्वादेशो यथा स्यात्॥ अक्रियमाणे हि शकारे अलोन्त्यस्य विधयो भवन्तीत्यन्त्यस्य प्रसज्येत॥ (5070 समाधानवार्तिकम्॥ 2 ॥) (भाष्यम्) किमुक्तम्?। अनित्त्वात् सिद्धम् इति। णकारः क्रियते। तस्य अनित्त्वात्सिद्धमिति॥ (आक्षेपभाष्यम्) क एष परिहारोऽन्याय्यः?। शकारमसि चोदितः। णकारं करिष्यामि शकारं न करिष्यामीति। णकारो वात्र क्रियेत शकारो वा। कोन्वत्र विशेषः?। (समाधानभाष्यम्) (अयमस्ति विशेषः) अवश्यमत्र णकारो वृद्ध्यर्थः कर्तव्यः णितीति वृद्धिर्यथा स्यात्। (णकारवैर्यथ्यभाष्यम्) नार्थो वृद्ध्यर्थेन णाकरेण। णित्त्वे योगविभागः करिष्यते - इदमस्ति गोतो णित्। ततः अल् अल् च णिद्भवति। ततः उत्तमो वा इति। (शित्करणप्रत्याख्यानभाष्यम्) एवमपि क एष परिहारोऽन्याय्यः। शकारमसिचोदितः लकारं करिष्यामि शकारं न करिष्यामीति। लकारो वा क्रियेत शकारो वा कोन्वत्र विशेषः। (लकारस्य न्याय्यताभाष्यम्) अयमस्ति विशेषः। अवश्यमत्र स्वरार्थो लकार इत्कर्तव्यः। लिति प्रत्ययात् पूर्वमुदात्तं भवतीत्येष स्वरो यथा स्यात्। (लकारवैर्यथ्यभाष्यम्) नैतदस्ति प्रयोजनम्। धातुस्वरे कृते द्विर्वचनं तत्रान्तर्यतोन्तोदात्तस्यान्तोदात्त आदेशो भविष्यति॥ (आक्षेपभाष्यम्) कथं पुनरयमन्तोदात्तः स्यात्। यदैकाच्। (समाधानभाष्यम्) व्यपदेशिवद्भावेन। (आक्षेपभाष्यम्) यथैव तर्हि व्यपदेशिवद्भावेनान्तोदात्तः। एवमाद्युदात्तोऽपि। तत्रान्तर्यत आद्युदात्तस्य आद्युदात्त आदेशः प्रसज्येत। (समाधानभाष्यम्) तस्यमेवमेतत्। न त्विदं लक्षणमस्ति - धातोरादिरुदात्तो भवतीति। इदं पुनरस्ति - धातोरन्त उदात्तो भवतीति। सोयं, लक्षणेनान्तोदात्तः, तत्रान्तर्यतोऽन्तोदात्तक्यान्तोदात्त आदेशो भविष्यति। (समाधानबाधकभाष्यम्) एतदप्यादेशे नास्ति - आदेशस्यान्त उदात्तो भवतीति। प्रकृतितोऽनेन स्वरो लभ्यः। प्रकृतिश्चास्य यथैवान्तोदात्ता, एवमाद्युदात्ताऽपि॥ (द्विः प्रयोगपक्षेऽपि शित्करणदूषणापादकभाष्यम्) द्विः प्रयोगे खल्वपि द्विर्वचने उभयोरन्तोदात्तत्वं प्रसज्येत। (शित्त्ववादिमतेन दूषणोद्धारभाष्यम्) अनुदात्तं पदमेकवर्जमिति नास्ति यौगमपद्येन संभवः। (शित्त्ववादिमते दूषणस्थापनपूर्वकं लकारसार्थक्योपसंहारभाष्यम्) पर्यायः प्रसज्येत। तस्मात्स्वरार्थो लकारः कर्तव्यः॥ लकारः क्रियते, तस्यानित्त्वात्सिद्धम्॥ (5072 आक्षेपवार्तिकम्॥ 3 ॥) - अकारस्य शित्करणं सर्वादेशार्थम्- (भाष्यम्) अकारः शित्कर्तव्यः। किं प्रयोजनम्?। सर्वादेशार्थम्। शित्सर्वस्येति सर्वादेशो यथा स्यात्। अक्रियमाणे हि शकारे अलोऽन्त्यस्य विधयो भवन्तीत्यन्त्यस्य प्रसज्येत॥ (आक्षेपबाधकभाष्यम्) ननु च अकारस्य अकारवचने प्रयोजनं नास्तीति कृत्वा अन्तरेण शकारं सर्वादेशो भविष्यति॥ (आक्षेपसाधकभाष्यम्) अस्त्यन्यदकारस्य अकारवचने प्रयोजनम्। किम्?। (5072 वार्तिकम्॥ 4 ॥) - अकारवचनं समसंख्यार्थम्- (भाष्यम्) संख्यातानुदेशो यथा स्यत्। (5073 वार्तिकम्॥ 5 ॥) - तस्माच्छित्करणम्- (भाष्यम्) तस्माच्छकारः कर्तव्यः॥ (आक्षेपभाष्यम्) स तर्हि शकारः कर्तव्यः। (सिद्धान्तिभाष्यम्) न कर्तव्यः। क्रियते न्यास एव। प्रश्लिष्टनिर्देशोऽयम्। अ अ इति। सोऽसौ अनेकाल्। अनेकाल् शित्सर्वस्येति सर्वादेशो भविष्यति॥ परस्मैदृ॥ 82 ॥

Kashika

लिट इत्येव। लिडादेशानां परस्मैपदसंज्ञकानां यथासंख्यं तिबादीनां णलादयो नवादेशा भवन्ति। लकारः स्वरार्थः। णकारो वृद्ध्यर्थः। पपाच, पेचतुः पेचुः। पेचिथ, पपक्थ, पेचथुः, पेच। पपाच,पपच, पेचिव, पेचिम॥

Siddhanta Kaumudi

लिटस्तिबादीनां नवानां णलादयोनव स्युः । भू अ इति स्थिते ॥

Laghu Siddhanta Kaumudi

लिटस्तिबादीनां नवानां णलादयः स्युः। भू अ इति स्थिते -

Balamanorama

परस्मैपदानां णलतुसुस्थलथुसणल्वमाः - परस्मैपदानां । लिटस्तझयोरित्यस्माल्लिट इत्यनुवृत्तिमभिप्रेत्याह — लिटस्तिबादीनामिति । णलादय इति । णल्, अतुस्, उस् । थल्, अथुस् अ । णल्, व , म-इत्येते नव यथासङ्ख्यं स्युरित्यर्थः । तत्र तिपो णल् सर्वादेशः । न च णकारलकारयोः ‘चुटू’ इतिहलन्त्य॑मिति च इत्संज्ञकत्वाल्लोपे कथमनेकाल्त्वामिति वाच्यं, सर्वादेशत्वात्प्राग्णलः प्रत्ययत्वाऽभावेन ‘चुटू’ इत्यस्याऽप्रवृत्तेः । णित्त्वं तु जुहावेत्यादौ वृद्ध्यर्थम् । लित्त्वं तु लित्स्वरार्थम् । ननु मध्यमपुरुषबहुवचनथस्य विधीयमानोऽकारःअलोऽन्त्यस्ये॑त्यन्यस्य स्यात् । अकारस्य अकारविधिस्तु यथासङ्ख्यापादनार्थ इति चेत्, सत्यम्, द्वयोरकारयोः परूपेण ‘अ’ इति सूत्रे निर्देशादनेकाल्त्वात्सर्वादेशत्वमिति भाष्ये स्पष्टम् । न च अतुसादीनामादेशत्वात्पूर्वं विभक्तित्वाऽभावेन ‘न विभक्ता’ विति निषेधाऽभावत्सकारस्येत्त्वं दुर्वारमिति वाच्यं, सकारादुपरि सकारान्तस्य संयोगान्तलोपेन लुप्तया श्रूयमाणसकारस्योपदेशेऽन्त्यत्वाऽभावादित्यलम् ।

Tattvabodhini

परस्मैपदानां णलतुसुस्थलथुसणल्वमाः - अत्र थशब्दस्याऽकारो विधीयमानोऽन्त्यस् प्राप्नोति । न चाऽकारस्याऽकारविधौ निरर्थकत्वमिति वाच्यं, यथासङ्ख्यसंपादनेन कृतार्थत्वात् । अत्राहुः - धातोरित्यधिकारात्आदेः परस्ये॑ति व्यञ्जनमात्रस्य कृतेर, द्वयोःअतो गुणे॑ इति पररूपम् । यद्वा द्वयोरकारयोः पपरूपेण सूत्रे निर्देशः, तथा चानेकाल्त्वात्सर्वादेशे सिद्धमिष्टमिति । ननु सुबन्थानामेव द्वन्द्वस्तत्र त्वकारद्वयकल्पनायां सवर्णदीर्घ एव स्यादिति चेन्मैवम् । आदेशानां स्थान्यर्थेनैवार्थवत्त्वात्थशब्दस्य विधीयमानमकारद्वयं प्रत्येकमर्थवन्न भवतीति समुदितस्य प्रातिपदिकत्वेनअतो गुणे॑ इति पररूपस्यैव प्रवृत्तिः॥

Padamanjari

तिबादीनामिति । एतच्च प्रकरणाल्लभ्यते, तेन क्वसोर्णलादयो न भवन्ति, विधानसामर्थ्याद्वा क्वसोर्णलाद्यभावः । लकारः स्वार्थ इति । अन्यथा प्रत्ययस्य पित्वादनुदातत्वेऽपि धातुस्वरे कृते द्विः प्रयोगो द्विर्वचनमिति द्वयोरप्युदातत्वं प्राप्नोति । ठनुदातं पदमेकवर्जम्ऽ इति नास्ति, यौगपद्येन सम्भवः पर्यायेण प्रसज्येत । णकारो वृद्ध्यर्थ इति । इदमन्यथासिद्धम्,’णलुतमो वा’ इत्यत्र योगविभागः - अल् णिद्भवतीति, तत उतमो वा - वा णिद्भवतीति । पपाचेति । कथमयं सर्वादशः, यावता’नानुबन्धकृतमनेकाल्त्वम्’ , ततश्च’धातोः’ इत्यधिकाराद् ठादेः परस्यऽ इति वकारस्य प्राप्नोति ? अनित्वात्सिद्धम् ? न ह्ययं णल्विधानसमये प्रत्यय इत्यनित्वाद् णकारस्यानेकालत्वात्सर्वादेशः, ततो णकारस्योत्संज्ञेत्यानुपूर्व्यात्सिद्धम् । ननु च णकारो न कर्तव्य इत्युक्तम् ? एवं तर्हि लकार आदौ क्रियते तस्याप्यनित्वात्सिद्धम्, ल उतमो वेति वक्तव्यम्, एवमात औ लस्येति, हल्ङ्यादिसूत्रे चाप्यपृक्तं हलिति हल्ग्रहणं लिङ्गं सर्वादशो णलिति, तद्धि पपाचेत्यादौ मा भूदिति । सर्वादेशत्वे च तदुपपद्यते । पपक्थेति । क्रादिनियमात्प्राप्त इट् ठुपदेशेऽत्वतःऽ इति प्रतिषेधान्न भवति । क्वचित्पेचिथेति पाठः, ठृतो भारद्वाजस्यऽ इति नियमादिट्,’थलि च सेटि’ इत्येत्वाभ्यासलोपो । पेचेति । धातोरित्यधिकारात्’तस्मादित्युतरस्य ठादेः परस्य’ इति थकारस्याकारे द्वयोरतो गुणे पररूपत्वम् ॥

Nyaas

पपक्थ इति। उपदेशेऽत्वतः (7.2.62) इतीडभावः। पेचिथ इति क्वचित् पाठः, तत्र हि ऋतो भारद्वाजस्य (7.2.63) इति नियमादिट्। थलि च सेटि (6.4.121) इत्येवत्वाभ्यासलोपौ। पेच इति। धातोः (3.1.91) इत्यधिकारात् तस्मादित्युत्तरस्य (1.1.67) , आदेः परस्य (1.1.54) इति थकारस्याकारादेशः। द्वयोराकारयोः अतो गुणे (6.1.97) पररूपत्वम्। अथ वा - आन्तरतम्याद्बह्वर्थस्याकारस्य बह्वर्थ एव स्थानी युक्त इति समुदायस्यैव भवति। पेचिव, पेचिम इति। क्रादिनियमादिट्॥

Prakriyasarvasvam

लिटस्तिवादीनां नवानां णलादयः स्युः । तिपो णल् । लकारस्योच्चारण- समय एवानुबन्धत्वेऽपि णकारेणानेकाल्त्वात् सर्वादेशे कृते पुनः स्थानिवत्त्वेन प्रत्ययत्वात् ‘चुटू’ इति प्रत्ययादेर्णस्येत्त्वम्, लोपः । भू अ । णलो णित्त्वाद् वृद्धिप्राप्तौ-