34081: लिटस्तझयोरेशिरेच्¶
Padacheda: लिटः | S | 6 | 1 |
त-झयोः | S | 6 | 2 |
एश्-इरेच् | S | 1 | 1 |
Sutrartha¶
लिट्-लकाराणाम् विषये आत्मनेपदस्य त-प्रत्ययस्य एश्-आदेशः तथा झ-प्रत्ययस्य इरेच्-आदेशः भवति ।
अनेन सूत्रेण लिट्-लकारस्य आत्मनेपदस्य प्रथमपुरुषैकवचनस्य ‘त’ प्रत्ययस्य ‘एश्’ आदेशः तथा बहुवचनस्य ‘झ’ प्रत्ययस्य ‘इरेच्’ आदेशः दीयते । उभावपि आदेशौ अनेकाल्शित्सर्वस्य (1.1.55) इत्यनेन सर्वादेशौ भवतः । यथा - 1. पच्-धातोः लिट्-लकारस्य प्रथमपुरुषएकवचनस्य रूपसिद्धिः इयम् - पच् + लिट् [परोक्षे लिट्**(3.2.115) इति लिट्] → पच् पच् + लिट् [**लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → प पच् + लिट् [हलादि शेषः (7.4.60) इति चकारस्य लोपः] → प पच् + त [तिप्तस्झि.. (3.4.78) इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् ‘त’ प्रत्ययः] → प पच् + एश् [लिटस्तझयोरेशिरेच् (3.4.81) इत्यनेन त-प्रत्ययस्य एश्-आदेशः ।] → पेच् + ए [अत एकहल्मध्येऽनादेशादेर्लिटि (6.4.120) इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः] → पेचे 2. वन्द्-धातोः लिट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपसिद्धिः इयम् - वन्द् + लिट् [परोक्षे लिट्**(3.2.115) इति लिट्] → वन्द् वन्द् + लिट् [**लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → व वन्द् + लिट् [हलादि शेषः (7.4.60) इति चकारस्य लोपः] → व वन्द् + झ [तिप्तस्झि.. (3.4.78) इत्यनेन आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् ‘झ’ प्रत्ययः] → व वन्द् + इरेच् [लिटस्तझयोरेशिरेच् (3.4.81) इत्यनेन झ-प्रत्ययस्य इरेच्-आदेशः ।] → ववन्दिरे
Sutrartha (English)¶
In case of आत्मनेपद of लिट्-लकार, the त-प्रत्यय is converted to एश् and झ प्रत्यय is converted to इरेच्.
Vasu English Summary¶
The words एश् and इरेच् are the substitutes of ट and झ respectively in the लिट् (Perfect Tense).
Vasu English Translation¶
The words एश् and इरेच् are the substitutes of ट and झ respectively in the लिट् (Perfect Tense). The श् of एश् indicates that it replaces the whole of the affix त (1.1.55). The च् of इरेच् is for the sake of accent (6.1.165). Thus पेचे, पेचाते पेचिरे । See the foregoing table of tenses for the Atmanepada.
Kashika¶
लिडादेशयोस्तझयोर्यथासंख्यमेश् इरेच् इत्येतावादेशौ भवतः। शकारः सर्वादेशार्थः। चकारः स्वरार्थः। पेचे, पेचाते, पेचिरे। लेभे, लेभाते, लेभिरे॥
Siddhanta Kaumudi¶
लिडादेशयोस्तझयोरेश् इरेच् एतौ स्तः । एकारोच्चारणं ज्ञापकं, तङादेशानां टेरेत्वं नेति । तेन डारौरसां न । कृ ए इति स्थिते ॥
Laghu Siddhanta Kaumudi¶
लिडादेशयोस्तझयोरेश् इरेजेतौ स्तः। एधाञ्चक्रे। एधाञ्चक्राते। एधाञ्चक्रिरे। एधाञ्चकृषे। एधाञ्चक्राथे॥
Balamanorama¶
लिटस्तझयोरेशिरेच् - लिटस्तझयो । ननु लिटस्तझयोरिशिरिजित्येवास्तु, आदेशयोरेकारोच्चारणं व्यर्थं, टित आत्मनेपदानामित्येत्वेनैन सिद्धेरित्यत आत — एकारोच्चारणमिति । ज्ञापनस्य फलमाह — तन डारौरसां नेति डा रौ रस् — एषां लुडादेशभूतात्मनेपदादेशानां टेरेत्वं नेत्यर्थः । वस्तुतस्तु परत्वादेत्वे कृते पुनः प्रसङ्गविज्ञानेन डादिषु कृतेषु लक्ष्ये लक्षणस्येति न्यायादेत्वं नेति लुटः प्रथमस्येति सूत्रभाष्ये स्पष्टम् । कृ ए इति स्थित इति । तकाराऽकारसङ्घातस्य एकारः शित्त्वात्सर्वादेश इति भावः ।
Tattvabodhini¶
लिटस्तझयोरेशिरेच् - एशिति शकारकरणकारविशिष्टतकारस्यादेशत्वाय ।
Padamanjari¶
पूर्वसूत्रे ज्ञापितम् - आत्मनेपदादेशानां टेरेत्वं न भवतीति, तेन इशिरच् इत्येतावादेशौ न विहितौ । शकारः सर्वादेशार्थ इति । अन्यथा धातोरित्यधिकाराद् ठादेः परस्यऽइति तकारस्य प्रसज्येत । अथ’शे’ इत्येव कस्मान्नोक्तम्, शैरेजिति ह्युक्ते मात्रालाघवं भवति ? नैवं शक्यम् ;’शे’ इति प्रगृह्यसंज्ञा स्यात् । इह च पपे सोममिति पिबादेशः प्राप्नोति, जग्ले मम्ले इत्यादौ चात्वं न स्यात् । एशि तु न दोषः,’वर्णे यत्स्यातच्च विध्यातदादौ’ इति न्यायात् ॥
Nyaas¶
शकारः सर्वादेशार्थः इति। असति तस्मिन् धात्वधिकारात् तस्मादित्युत्तरस्य (1.1.67) इत्यादेः परस्य तकारस्य प्रसज्येत। शकारे तु सति अनेकाल्शित्सर्वस्य (1.1.55) इति वचनात् सर्वस्य भवति। अथ शे इति कस्मान्नोक्तम्? नैवं शक्यम्; शे इति हि प्रगृह्रसंज्ञा स्यात्। इह च व्यतिपप इति पिबादेशः स्यात्। एशि तु सति न भवति, वक्ष्यति ह्रेतत् - वर्णे यत् स्यात् तच्च विद्यात् तदादौ इति॥
Prakriyasarvasvam¶
लिडादेशयोस्तझयोरेश् इरेच् इत्येतौ स्तः । बभूवे । आतामादेष्टेरेत्वम् । बभूवाते बभूविरे । इट् । बभूविषे । बभूवाथे । ध्वम इट् । ‘विभाषेट’ इति वा ढः । बभूविढ्वे, बभूविध्वे । बभूव् इट् । एत्वम् । बभूवे । बभूविवहे बभूविमहे । भावकर्मणोश्च लिडेवम् । ‘भवतेरः’ इत्यत्र कर्तृरूपनिर्देशात् भावकर्मणोरत्वं नेति कौमुदी । बुभूवे बुभूवाते बुभूविरे इत्यादि ॥ लिट् ॥ ‘आशिषि लिङ्लोटौ’ इति लिङ् । लस्तिवादि । भू ति ।