34046: कषादिषु यथाविध्यनुप्रयोगः¶
Padacheda: कषादिषु | S | 7 | 3 |
यथाविधि | S | 0 | 0 |
अनुप्रयोगः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The same verb should be used after the gerunds formed from the verbs कष् ‘to rub’ etc. as the verb from which the gerund is derived.
Vasu English Translation¶
The same verb should be used after the gerunds formed from the verbs कष् ‘to rub’ etc. as the verb from which the gerund is derived. From sutra (3.4.34) up to sutra (3.4.45), a verb from the same root must be employed in the subsequent part, as anuprayoga, from which the gerund in namul was formed. This rule has been illustrated in the examples under the previous aphorisms.
The present is a restrictive or niyama rule. This chapter deals with affixes employed in denoting syntactical relation between two verbs (धातुसम्बन्धे प्रत्ययाः)। See (3.4.1) : so a gerund in namul, would, of course, be followed by some verb as anuprayoga; the present sutra declares that the other verb must be from the same root as the gerund.
Kashika¶
**निमूलसमूलयोः०**(३.४.३४) इत्येतदारभ्य कषादयः। एतेषु यथाविध्यनुप्रयोगो भवति। यस्माद् धातोर्णमुल् प्रत्ययो भवति, स एवानुप्रयोक्तव्यः। ननु धातुसंबन्धे प्रत्ययविधानादनुप्रयोगः सिद्ध एव? यथाविधीति नियमार्थं वचनम्? तथात चैवोदाहृतम्॥
Siddhanta Kaumudi¶
यस्माण्णमुलुक्तः स एवानुप्रयोक्तव्य इत्यर्थः । तथैवोदाहृतम् ॥
Tattvabodhini¶
कषादिषु यथाविध्यनुप्रयोगः - तथैवेति ।निमूलकाषं कषती॑त्याद्युदाहृतमित्यर्थः ।
Prakriyasarvasvam¶
एतदादिषु ‘उपमाने कर्मणि च’ (३-४-४५) इत्यन्तेषु विधिमत एव धातोरनुप्रयोगः कार्यः । निगतमूलं प्राप्तमूलं कषति निमूलकाषं कषति, समूलकाषं कषति । अनुप्रयुक्तस्य क्रियासामान्यपरत्वात् समूलं कषतीत्येवार्थः ॥
Sutra Prayogas¶
विलीये (किरातार्जुनीयम्): कषादिषु यथाविध्यनुप्रयोगः इति यथाविध्यनुप्रयोगः।
न्यवधीदरींश्च (भट्टिकाव्यम्): कषादिषु यथा इत्यादिना यथाविध्यनुप्रयोगः ।
तुण्ड-घातमयुध्यत (भट्टिकाव्यम्): कपादिपु यथाविध्यनुप्रयोगः इति वचनात् अहिंसार्थत्वाच्च तदारम्भस्य यथा पादघातं भूमिं हन्तीति।
अवीवृतत् (भट्टिकाव्यम्): कषादिषु यथाविध्यनुप्रयोगः इति अनुप्रयोगः।