34047: उपदंशस्तृतीयायाम्

Padacheda: उपदंशः | S | 5 | 1 |

तृतीयायाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix णमुल् comes after a root दंश् ‘to bite’ preceded by the preposition उप when a word ending with the Instrumental -3rd case is in composition with it..

Vasu English Translation

The affix णमुल् comes after a root दंश् ‘to bite’ preceded by the preposition उप when a word ending with the Instrumental -3rd case is in composition with it.. The Upapada samasa is optional in this case (2.2.21). Thus मूलकोपदं शम् भुङ्क्ते or मूलकेनोपदंशम् भुङ्क्ते ‘he eats after having relished the food with radish’. Similarly आर्द्रकोपदंशम् भुङ्क्ते or आर्द्रकेणोपदंशम् ‘relished with ginger’.

The words मूलक &c in the above examples are the ‘objects’ of the verb उपदंश्, and ‘instruments’ of the verb भुज् ।

By the rule of वाऽसरूप (3.1.94) the affix क्त्वा (or its substitute ल्यप्) may be optionally used, wherever we may use the affix णमुल् । Thus मूलकेनोपदश्य भुङ्क्ते ।

Kashika

दंश दशने अस्माद् धातोरुपपूर्वात् तृतीयान्त उपपदे णमुल् प्रत्ययो भवति। मूलकोपदंशं भुङ्क्ते। मूलकेनोपदंशम्। आर्द्रकोपदंशम्। आर्द्रकेणोपदंशम्। अत्र विकल्पेनोपपदसमासः **तृतीयाप्रभृतीन्यन्यतरस्याम्**(२.२.२१) इति। मूलकादि चोपदंशेः कर्म। भुजेः करणम्। सर्वस्मिन्नेवात्र णमुल्प्रकरणे क्रियाभेदे सति वासरूपविधिना क्त्वापि भवति। मूलकेनोपदश्य भुङ्क्ते॥

Siddhanta Kaumudi

इतः प्रभृति पूर्वकाल इति सम्बध्यते । तृतीयाप्रभृतीन्यन्यतरस्याम् (SK784) इति वा समासः । मूलकोपदंशं भुङ्क्ते । मूलकेनोपदंशम् । दश्यमानस्य मूलकस्य भुजिं प्रति करणत्वात्तृतीया । यद्यप्युपदंशिना सह न शाब्दः सम्बन्धस्तथाप्यार्थोऽस्त्येव कर्मत्वात् । एतावतैव सामर्थ्येन प्रत्ययः समासश्च । तृतीयायामिति वचनसामर्थ्यात् ॥

Tattvabodhini

उपदंशस्तृतीयायाम् - मूलकोपदंशमिति । अयमर्थः — मूलकेन भुङ्क्ते । किं कृत्वा । उपदस्य । किमुपदश्य । अर्थान्मूलकमिति संबध्यते । एतावतैवेति । शाब्दान्वयाऽभावेऽपि आर्थिकान्वयमात्रेणेत्यर्थः । वचनसामर्थ्यादिति । यदि हि तृतीयान्तेव शाब्दान्वये सत्येव प्रत्ययो भवेत्तर्हिकरणे हनः॑इति वत्उपदंशः करणे॑ इत्येव ब्राऊयात् । ततश्च क्रियान्तरं प्रति करणत्वं मूलकेनेत्यस्येष्टमिति भावः । एतच्च मनोरमाग्रन्थानुसारेणोक्तम् ।अत्र केचित्त — नन्वेवम्उपदंशः कर्मणी॑त्येव सूत्रमस्तु । अथवोपदंश इत्येवाऽस्तु ।उपमाने कर्मणी॑त्यतः कर्मणीत्यनुवर्त्त्य कर्मण्युपपदे उपपूर्वकाद्दशेर्णमुलिति व्याख्यायतां, किमनया कुसृष्टएति । न चैवं कर्मण्युपपदे नित्यसमासः स्यादिति वाच्यं, करणे इत्युक्तेऽप्युक्तदोषस्य तुल्यत्वात् । न चतृतीयाप्रभृतीनी॑ति सूत्रेकरणप्रभृतीनी॑त्युक्ते नास्त्येव दोषः,करणे हनःर॑ इत्यारभ्य विकल्प इति सन्देहवारणायव्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षण॑मिति परिभाषास्वीकारादिति वाच्यं,तृतीयाप्रभृतीनी॑ति सूत्रेकर्मणिप्रभृतीनी॑ति सूत्रेकर्मणिप्रभृतीनी॑त्युक्तेऽपि दोषाऽभावात् ।कर्मण्याक्रोशे कृञः खमुञ्कर्मण#इ दृशिविदो॑ रित्यारभ्य वा विकल्प इति सन्देहस्यव्याख्यानतो विशेषप्रतिपत्तिः॑ रिति परिभाषया वारयितुं शक्यत्वात् । तस्मात्उपदंशः करणे॑ इत्येव ब्राऊया॑दिति मनोरमा चिन्त्येत्याहुः । वस्तुतस्तुकर्मणिप्रभृतीन्यन्यतरस्या॑मित्युक्तेउपमाने कर्मणि चे॑त्यतः कर्मणीत्यनुवर्त्त्यउपदंश॑ इत्येव सूत्रमिति स्वीकारपक्षे कषादिषु यथाविध्यनुप्रयोगोऽपि विकल्पेन स्यात् । मण्डूकप्लुत्याश्रयणं त्वगतिकगतिः ।उपदंशः कर्मणी॑ति सूत्रस्वीकारपक्षेऽपिमूलकोपदंश॑मिति ।करणे प्रभृतीनी॑ति मनरमोक्तौ तु समासाऽभावपक्षेमूलकेनोपदंश॑मिति सिध्यत्येव, करणतृतीयायाः प्रवृत्तेरिति दिक् ।

Padamanjari

इतः प्रभृति पौर्वकाल्यमप्यस्ति । मूलकोपपदंशं भुङ्क्ते इति । ननु च नात्र तृतीयान्तस्योपदंशिना संबन्धः, न हि मूलकेनान्य उपदश्यते, किं तर्हि ? तदेवोपदश्यते, भुजिना तु संबन्ध उपपद्यते ; तम्प्रति करणत्वात्, किं तूपदंशिना समार्थ्याभावात्प्रत्ययो न प्राप्नोति, उपपदसंज्ञा च नस्यात्, तदभावादुपपदसमासोऽपि न प्राप्नोति, वचनस्य तु दशनैरुपदश्य भुङ्क्ते इत्यादिरवकाशः स्यात् ? इत्यत आह - मूलकादि चेति । सत्यं मूलकादेर्भुजिनैव शाब्दोऽन्वयः, उपदंशिना तु कर्मापेक्षायां सन्निधानाद्योग्यत्वाच्च वस्तुतः सम्बन्धोऽस्त्येव, भुजिं प्रति करणत्वमन्यथा नोपपद्यते, ततश्चायमर्थः - मूलकेन भुङ्क्ते, किं कृत्वा ? उपदश्य, किमुपदश्य ? तदेव मूलकमिति । यदि तु यत्र तृतीयान्तेनैव शाब्दोऽन्वयस्तत्रैवायं प्रत्ययोऽभिमतः स्यात्, करण इत्येव ब्रूयाद्, यथा - करणे हन इति । तस्मादार्थेन सम्बन्धेन सामर्थ्ये सति प्रत्ययादिकं सर्वं भविष्यति ॥

Nyaas

इह मूलकेनोपदंशं भुङ्क्ते इत्यादौ करणे तृतीया, तदन्तं मूलकाद्युपपदम्। तच्च करणमुदंशेर्वा स्यात्, भुजेर्वा? तत्रोपदंशेस्तावन्नोपपद्यते; अन्यस्मिन् {ह्रुपदिश्यमाने-मुद्रितः पाठः} ह्रुपदंश्यमानेऽन्यत् करणं भवति, इह च तदेव मूलकाद्युपदश्यते, नापरं किञ्चित्। भुजिं तु प्रत्युपपद्यत एव करणभावः, किन्तूपपदसंज्ञा न स्यात्, तदभावदुपपदसमासश्च; यस्मादुपपदमिति महत्याः संज्ञायाः करणं समर्थपरिभाषाया व्यापार्थम्, तेनेह तस्यामुपस्थितायां यमेव प्रति यस्य सामर्थ्य तमेव प्रति तस्योपपदसंज्ञाया भवितव्यम्। भुजिं तु प्रति तस्योपपदसंज्ञया भवितव्यम्। भुजिं तु प्रति मूलकादेः सामर्थ्यम्, नोपदंशि प्रतीति चोद्यमाशङ्क्याह - मूलकादि चोपदंशे इत्यादि। यद्यपि भुजिं प्रति मूलकादेः करणभावः तथाप्युपदंशिना सह सामर्थ्यमुपपद्यत एव; यतस्तस्य कर्म। न च भुजिना सरह सम्बन्धे सत्युपदंशिना सह सम्बन्धो निवर्तते; विरोधाभावात्। तस्मादुपपद्यत एवोपपदत्वम्, तस्मश्च सत्युपपदसमासः।क्रियाभेदे सति`इति। क्रियाभेदग्रहणेन क्त्वाप्रत्ययविषयमुपलक्षयति। यत्र क्रियाणां पौर्वापर्यं समानकर्त्तृकत्वञ्च स क्त्वाप्रत्ययस्य विषयः। एतच्चोभयं क्रियाभेदे सति भवतीति क्त्वाप्रत्ययस्य विषय उपलक्ष्यते। `मूलकेनोपदश्य भुङ्क्ते इति। अनिदिताम् (6.4.24) इत्यनुनासिकलोपः॥

Prakriyasarvasvam

तृतीयान्त उपपदेऽस्माण्णमुल् ।।

Sutra Prayogas

  • कालखण्डोपदंशं (शिशुपालवधम्): उपदंशस्तृतीयायाम् इति णमुल् प्रत्ययः।