34040: स्वे पुषः

Padacheda: स्वे | S | 7 | 1 |

पुषः | S | 5 | 1 |

Sutrartha


Vasu English Summary

The affix णमुल् comes after the verb पुष् ‘to feed’ when a word in the Instrumental -3rd case having the sense of स्व is in composition.

Vasu English Translation

The affix णमुल् comes after the verb पुष् ‘to feed’ when a word in the Instrumental -3rd case having the sense of स्व is in composition. The word स्व means ‘self’, ‘kinsmen’ and ‘property’. Thus स्वपोषं पुष्णाति ‘he feeds himself’; आत्मपोषं, गोपोषं, पितृपोषं, मातृपोषं, धनपोषं, रैपोषं &c. See (1.1.68). Rule 46 applies here also.

Kashika

करण इत्येव। स्व इत्यर्थग्रहणम्। स्ववाचिनि करण उपपदे पुषेर्धातोर्णमुल् प्रत्ययो भवति। आत्मात्मीयज्ञातिधनवचनः स्वशब्दः। स्वपोषं पुष्णाति। आत्मपोषम्। गोपोषम्। पितृपोषम्। मातृपोषम्। धनपोषम्। रैपोषम्॥

Siddhanta Kaumudi

करण इत्येव । स्व इत्यर्थग्रहणम् । तेन स्वरूपे पर्याये विशेषे च णमुल् । स्वपोषं पुष्णाति । धनपोषम् । गोपोषम् ॥

Padamanjari

स्वपोषमिति । पित्पर्यायवचनस्य चेति । स्वरूपेऽपि भवति ॥

Nyaas

स्वपोषम् इति। आत्मवाचिनी स्वशब्द उपपदे प्रत्ययः। गोपोषम् इति। आत्मीयवाचिनि। धनपोषम् इति धनवाचिनि। पितृपोषम् इति ज्ञातवाचिनि॥

Prakriyasarvasvam

स्वशब्दार्थेषु करणेषु पूर्वेषु पुषेर्णमुल् । स्वपोषं धनपोषं गोपोषं भृत्यपोषं पुष्णाति पुष्यति वा । धनादिभिः पुष्णातीत्यर्थः ।।

Sutra Prayogas

  • स्व-पोषम् (भट्टिकाव्यम्): स्वे पुषः इति णमुल।

  • स्व-पोषम् (भट्टिकाव्यम्): स्वे पुषः इति णमुल्।