34040: स्वे पुषः ================ **Padacheda:** स्वे | S | 7 | 1 | पुषः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix णमुल् comes after the verb पुष् 'to feed' when a word in the Instrumental -3rd case having the sense of स्व is in composition. Vasu English Translation ------------------------ The affix णमुल् comes after the verb पुष् 'to feed' when a word in the Instrumental -3rd case having the sense of स्व is in composition. The word स्व means 'self', 'kinsmen' and 'property'. Thus स्वपोषं पुष्णाति 'he feeds himself'; आत्मपोषं, गोपोषं, पितृपोषं, मातृपोषं, धनपोषं, रैपोषं &c. See (1.1.68). Rule 46 applies here also. Kashika ------- करण इत्येव। स्व इत्यर्थग्रहणम्। स्ववाचिनि करण उपपदे पुषेर्धातोर्णमुल् प्रत्ययो भवति। आत्मात्मीयज्ञातिधनवचनः स्वशब्दः। स्वपोषं पुष्णाति। आत्मपोषम्। गोपोषम्। पितृपोषम्। मातृपोषम्। धनपोषम्। रैपोषम्॥ Siddhanta Kaumudi ----------------- करण इत्येव । स्व इत्यर्थग्रहणम् । तेन स्वरूपे पर्याये विशेषे च णमुल् । स्वपोषं पुष्णाति । धनपोषम् । गोपोषम् ॥ Padamanjari ----------- स्वपोषमिति । पित्पर्यायवचनस्य चेति । स्वरूपेऽपि भवति ॥ Nyaas ----- `स्वपोषम्` इति। आत्मवाचिनी स्वशब्द उपपदे प्रत्ययः। `गोपोषम्` इति। आत्मीयवाचिनि। `धनपोषम्` इति धनवाचिनि। `पितृपोषम्` इति ज्ञातवाचिनि॥ Prakriyasarvasvam ----------------- स्वशब्दार्थेषु करणेषु पूर्वेषु पुषेर्णमुल् । स्वपोषं धनपोषं गोपोषं भृत्यपोषं पुष्णाति पुष्यति वा । धनादिभिः पुष्णातीत्यर्थः ।। Sutra Prayogas -------------- * **स्व-पोषम्** (भट्टिकाव्यम्): `स्वे पुषः` इति णमुल। * **स्व-पोषम्** (भट्टिकाव्यम्): `स्वे पुषः` इति णमुल्।