34026: स्वादुमि णमुल्¶
Padacheda: स्वादुमि | S | 7 | 1 |
णमुल् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
(When the actions signified by the verbs कृ ‘to make’ and another have the same agent), the affix णमुल् is added to the verb कृ ‘to make’ which is concerned about a time anterior to that of the other), provided that a word signifying ‘sweet’ is in composition.
Vasu English Translation¶
(When the actions signified by the verbs कृ ‘to make’ and another have the same agent), the affix णमुल् is added to the verb कृ ‘to make’ which is concerned about a time anterior to that of the other), provided that a word signifying ‘sweet’ is in composition. The words within brackets are to be read into the sutra by anuvritti from (3.4.21). Thus स्वादुङ्कारं or लक्षणङ्कारं भुङ्क्ते ‘he eats, having made his food sweet or seasoned’.
In the sutra, the word स्वादुम् is used ending with म्. It is an anomalous form, and indicates that a म् must be added to the upapadas in these cases the object served by this form being that rule (4.1.44), by which feminine of words like स्वादु ending in उ is formed by long ई, does not apply here. Thus स्वाद्वीम् कृत्वा यवागूम् भुङ्क्ते = स्वादुङ्कारं यवागूम् भुङ्क्ते । Here though यवागू is feminine, the attribute is still स्वादुं and not स्वाद्वीं ।
It might be said ‘why not use the previous affix खमुञ्? That will solve all difficulties; and will give us the augment मुम् । To this, however, there is a fatal objection. The augment मुम् will, no doubt, come in the last example, but it will not come when the word to be formed is an Indeclinable (6.3.67), such as, when the sense is of the affix च्वि and all chvi-ending words are Indeclinables (1.4.61). Therefore, the affix खमुञ् will not remove the difficulty in the following case; अस्वाद्वीं स्वाद्वों कृत्वा भुङ्क्ते = स्वादुङ्कारं भुङ्क्ते ‘he eats, having first sweetened what was not sweet before’.
By applying rule (3.1.94), we have the affix क्त्वा in the alternative. Thus स्वादु कृत्वा भुङ्क्तं । All these affixes form abstract nouns (भाव) as they have the sense of the affix तुमुन् (3.4.16). In connection with णमुल्, the Instrumental case can not, however, be used, i. e. we cannot use the Passive construction; e.g. स्वादुङ्कारं यवागूर्भुज्यते देवदत्तेन will be wrong.
Bhashya¶
स्वादुमि णमुल् (1187) (598 णमुल्प्रत्ययविधिसूत्रम्॥ 3 । 4 । 1 । आदृ 10) (आक्षेपभाष्यम्) किमर्थं स्वादुमि मकारान्तनिपातनं क्रियते । न, खमुञ्ञ्प्रकृतः सोऽनुवर्तिष्यते?। (5041 प्रयोजनवार्तिकम्॥ 1 ॥) - स्वादुमि मान्तनिपातनमीकाराभावार्थम्- (भाष्यम्) स्वादुमि मान्तनिपातनं क्रियते ईकाराभावार्थम्। ईकारो मा भूदिति। स्वाद्वीं कृत्वा यवागूं भूङ्क्ते। स्वादुंकारं यवागूं भुङ्क्त इति। (5042 प्रयोजनान्तरवार्तिकम्॥ 2 ॥) - च्व्यन्तस्य च मकारान्तर्थम्- (भाष्यम्) च्व्यन्तस्य च मकारान्तत्वं यथा स्यात्। अस्वादु स्वादु कृत्वा भुङ्क्ते स्वादुंकारं भुङ्क्ते॥ (5043 आक्षेपवार्तिकम्॥ 3 ॥) ॥ आच तुमुनः प्रत्ययाः समानाधिकरणे॥ ॥ ॥ आच तुमुनः प्रत्ययाः समानाधिकरणे मवन्तीति वक्तव्यम्॥ केन?। अनुप्रयोगेण॥ किं प्रयोजनम्?। स्वादुंकारं यवागूर्भुज्यते देवदत्तेनेति देवदत्ते तृतीया यथा स्यात्॥ (आक्षेपभाष्यम्) किं च कारणं न स्यात्?। (कारणप्रदर्शनभाष्यम्) णमुलाभिहितः कर्तेति॥ (तृतीयासाधकभाष्यम्) ननु च भुजिप्रत्ययेन अनभिहितः कर्तेति कृत्वा अनभिहिताश्रयो विदिर्भविष्यति तृतीया। (द्वितीयापत्तिभाष्यम्) यदि सत्यभिधाने चानभिधाने च कुतश्चिदभिधानमिति कृत्वा अनभिहिताश्यो विधिर्भविष्यति तृतीया। यवाग्वां द्वितीया प्राप्नोति। किं कारणम्। णमुलानभिहितं कर्मेति॥ (द्वितीयाबाधकभाष्यम्) यदि पुनरयं कर्मणि विज्ञायेत। (द्वितीयानुपपत्तिभाष्यम्) नैवं शक्यम्। इह हि स्वादुकारं यवागूं भुङ्क्ते देवदत्त इति यवाग्वं द्वितीया न स्यात्। किं कारणम्। णमुलाभिहितं कर्मेति। (द्वितीयानुपपत्तिभाष्यम्) ननु च भुजिप्रत्ययेनानभिहितं कर्मेति कृत्वा अनभिहिताश्रयो विधिर्भविष्यति द्वितीया। (तृतीयोपपत्तिभाष्यम्) यदि सत्यभिधाने चानभिधाने च कुतश्चिदनभिधानमिति कृत्वा अनभिहिताश्रयो विधिर्भविष्यति द्वितीया देवदत्ते तृतीया प्राप्नोति। किं कारणम्?। णमुलानभिहितः कर्तेति। (प्रश्नभाष्यम्) अथानेन क्त्वायामर्थः। पक्त्वौदनो भुज्यते देवदत्तेनेति॥ (उत्तरभाष्यम्) बाढमर्थः। देवदत्ते तृतीया यथा स्यात्। किं च कारणं च स्यात्?। क्त्वयाभिहितः कर्तेति॥ (तृतीयासाधकभाष्यम्) ननु च भुजिप्रत्ययेनाऽनभिहितः कर्तेति कृत्वा अनभिहिताश्रयो विधिर्भविष्यति तृतीया॥ (द्वितीयापत्तिभाष्यम्) यदि सत्यभिधाने चानभिधाने च कुतश्चिदनभिधानमिति कृत्वा अनभिहिताश्रयो विधिर्भविष्यति तृतीया। ओदने द्वितीया प्राप्नोति॥ किं कारणम्?। क्त्वयानभिहितं कर्मेति॥ (द्वितीयापत्तिवारणभाष्यम्) यदि पुनरयं कर्मणि विज्ञायेत॥ (द्वितीयानुपपत्तिभाष्यम्0 नैवं शक्यम्। इह हि पक्त्वा ओदनं भुङ्क्ते देवदत्त इति ओदने द्वितीया न स्यात्॥ किं च कारणं न स्यात्?। क्त्वयाऽभिहितं कर्मेति॥ (द्वितीयोपपत्तिभाष्यम्) ननु च भुजिप्रत्ययेन अनभिहितं कर्मेति कृत्वा अनभिहिताश्रया विभक्तिर्भविष्यति द्वितीया॥ (तृतीयापत्तिभाष्यम्) यदि सत्यभिधाने चानभिधाने च कुतश्चिदनभिधानमिति कृत्वा अनभिहिताश्रयो विधिर्भविष्यति तृतीया। ओदने द्वितीया प्राप्नोति॥ किं कारणम्?। क्त्वयानभिहितः कर्तेति। (प्रश्नभाष्यम्) अथानेन तुमुन्यर्थः। भोक्तुमोदनः पच्यते देवदत्तेनेति॥ (उत्तरभाष्यम्) बाढमर्थः। देवदत्ते तृतीया यथा स्यात्॥ किं च कारणं न स्यात्?। तुमुनाभिहितः कर्तेति॥ (तृतीयोपपत्तिभाष्यम्) ननु च पचिप्रत्ययेनानभिहितः कर्तेति कृत्वा अनभिहिताश्रयो विधिर्भविष्यति तृतीया॥ (द्वितीयापत्तिभाष्यम्) यदि सत्यभिधाने चानभिधाने च कुतश्चिदनभिधानमिति कृत्वा अनभिहिताश्रयो विधिर्भिविष्यति तृतीया। ओदने द्वितीया प्राप्नोति। किं कारणम्?। तुमुनानभिहितं कर्मेति कृत्वा॥ (द्वितीयावारणभाष्यम्0 यदि पुनरयं कर्मणि विज्ञायेत॥ (द्वितीयानुपपत्तिभाष्यम्) नैवं शक्यम्। इह हि भोक्तुमोदनं पचति देवदत्त इति ओदने द्वितीया न स्यात्। किं च कारणं न स्यात्?। तुमुनाभिहितं कर्मेति॥ (द्वितीयोपपत्तिभाष्यम्) ननु च पचिप्रत्ययेनानभिहितं कर्मेति कृत्वा अनभिहिताश्रयो विधिर्भवति। द्वितीया॥ (तृतीयापत्तिभाष्यम्) यदि सत्यभिधाने चानभिधाने च कृतश्चिदनभिधानमिति कृत्वा अनभिहिताश्रयो विधिर्भविष्यति द्वितीया। देवदत्ते तृतीया प्राप्नोति। किं कारणम्?। तुमुनानभिहितः कर्तेति॥ (प्रश्नभाष्यम्) अथ अनेनेहार्थः। पक्त्वौदनं ग्रामो गम्यते देवदत्तेनेति। (अभ्युपगम भाष्यम्) बाढमर्थः। देवदत्ते तृतीया यथा स्यात्। किं च कारणं न स्यात्?। क्त्वायाभिहितः कर्तेति॥ (तृतीयोपपत्तिभाष्यम्) ननु च गमिप्रत्ययेनानभिहितः कर्तेति कृत्वाऽनभिहिताश्रयो विधिर्भविष्यति तृतीया। (द्वितीयापत्तिवारणभाष्यम्) यदि सत्यभिधाने चानभिधाने च कुतश्चिदनभिधानमिति कृत्वाऽनभिहिताश्रयो विधिर्भविष्यति तृतीया॥ यदुक्तमोदने द्वितीया प्राप्नोतीति स इह दोषो न जायते। (प्रश्नभाष्यम्) तत्तर्हि वक्तव्यमाच तुमुनः समानाधिकरणे इति॥ (उत्तरभाष्यम्) न वक्तव्यम्। अव्ययकृतो भावे भवन्तीति भावे भविष्यन्ति॥ (प्रश्नभाष्यम्) किं वक्तव्यमेतत्। (उत्तरभाष्यम्) नहि। कथमनुच्यमानं गंस्यते। तुमर्थे इति वर्तते॥ तुमर्थश्च कः। भावः॥ स्वादुमि॥ 26 ॥
Kashika¶
समानकर्तृकयोः पूर्वकाले कृञ इति चानुवर्तते। स्वादुमीत्यर्थग्रहणम्। स्वाद्वर्थेषूपपदेषु कृञो णमुल् प्रत्ययो भवति। स्वादुंकारं भुङ्क्ते। संपन्नंकारं भुङ्क्ते। लवणंकारम्। स्वादुमीति मकारान्तनिपातनमीकाराभावार्थम्, च्व्यन्तस्यापि मकारार्थम्, दीर्घाभावार्थं च। अस्वाद्वीं स्वाद्वीं कृत्वा भुङ्क्ते स्वादुंकारं भुङ्क्ते। वासरूपेण क्त्वापि भवति। स्वादुं कृत्वा भुङ्क्ते। तुमर्थाधिकाराच्च सर्व एते भावे प्रत्ययाः। यद्येवं स्वादुंकारं भुङ्क्ते देवदत्त इति णमुला कर्तुरनभिहितत्वात् कर्तरि कस्मात् तृतीया न भवति? भुजिप्रत्ययेनाभिहितः कर्ता। न चास्मिन् प्रकरणे शक्तिशक्तिमतोर्भेदो विवक्ष्यते, समानकर्तृकत्वं हि विरुध्यते। प्रधानशक्त्यभिधाने वा गुणशक्तिरभिहितवत् प्रकाशते॥
Siddhanta Kaumudi¶
स्वाद्वर्थेषु कृञो णमुल् स्यादेककर्तृकयोः पूर्वकाले पूर्वपदस्य मान्तत्वं निपात्यते । अस्वादीं स्वादीं कृत्वा भुङ्क्ते स्वादुङ्कारं भुङ्क्ते । सम्पन्नङ्कारम् । लवणङ्कारम् । सम्पन्नलवणशब्दौ स्वादुपर्यायौ । वासरूपेण क्त्वापि । स्वादुं कृत्वा भुङ्क्ते ॥
Tattvabodhini¶
स्वादुमि णमुल् - स्वादुमि ।स्वांदुमी॑त्यर्थग्रहणं, व्याख्यातम् । तदाह — स्वाद्वर्थेष्विति । मान्त्तवमिति । ननुस्वादौ॑ इत्येव सूत्रमस्तु, मास्त्वत्र णमुल् । खमुञेवानुवर्त्त्यताम् ।अरुर्द्विष॑दिति मुम्भविष्यति । एवं च निपातनं विनापि मान्तत्वं सिध्यतीति महल्लाघवमिति चेन्मैवम् । च्व्यन्तस्य मुम्न स्यात्, अनव्ययस्येति वचनात्, ततश्च स्वादुङ्कारमित्यत्रच्वौ चे॑ति दीर्घः स्यात्,सम्पन्नङ्कारः॑ मित्यादिषुअस्य च्वौ॑ इतीत्वं स्यात् । किं च स्त्रियांवोतो गुणवचना॑दिति ङीषि स्वाद्वीकारमिति स्यादतोऽत्र स्वादुमिति रूपं निपात्यते । ततश्चानजन्तत्वान्नेत्त्वदीर्घौ, न वा ङीष् । निपातनमिह भावप्रत्ययमात्रविषकम् । तेन स्वादुङ्कृत्वेत्यपि सिध्यति । स्यादेतत् — उक्तदोषपरिहारायस्वादुमी॑त्येव सूत्रमङ्गीक्रियतां, णमुल्तु त्यज्यतां, कृञः खमुञि कृतेषऽपिस्वादुङ्कार॑मित्यादिरूपसिद्धरिति चेन्मैवम् । तथा सत्युत्तरसूत्रेषु सन्निहितत्वात् खमुञेवाऽनुवर्तत इति कन्यादर्शनं ब्राआहृणवेदमित्यादिषु पूर्वपदस्य मुमागमः स्यादिति दिक् ।
Padamanjari¶
स्वादुमीत्यर्थग्रहणमिति । एतच्च व्याख्यानाल्लभ्यते । स्वाद्वर्थेष्विति । मान्तत्वमपि सर्वेषां भवति; अर्थे सम्भावत् । लवणसम्पन्नशब्दावपि स्वादुशब्दापर्यायो । अथ’स्वादुमि’ इति मकारान्तनिपातनं किमर्थम्, याषता खमुञ् प्रकृतः, सोऽनुवतिष्यते, तत्र ठरुद्विषदजन्तस्य मुम्ऽ इति मान्तत्वं सिद्धमिति ? तत्राह - मकारान्तनिपातनमीकाराभावार्थमिति । भावप्रत्ययविषये मान्तत्वे निपात्यमाने’वोतो गुणवचनात्’ इति ङीप् न भवति, मकारान्तत्वादुकारान्तत्वाभावादित्यर्थः । च्व्यन्तस्येति । खमुञ्यपि न सर्वत्र मुम् सिद्ध्यति; तद्विदौ ठनव्ययस्यऽ इत्यधिकारादिति भावः । एवं तर्हि मान्तत्वमेव निपात्यताम्, प्रत्ययस्तु प्रकृतः खमुञेव विधेयः ? नैतदस्ति; अव्ययार्थमेव मान्तनिपातनं स्यादिति ङीप्स्यादेव । णमुलि तु मान्तत्वमपूर्वं विधीयमानमीकाराभावार्थं च च्व्यन्तस्य च मकारान्तार्थं विज्ञायते । अवश्यं चोतरत्र णमुल् विधेय इति लाघवाभावादिहैव कृतः । अस्वाद्वीं स्वाद्वीं कृत्वेति । द्वयोर्वाक्ययोस्तन्त्रेणोपादानमेतत् । स्वाद्वीं कृत्वा यवागूं भुङ्क्त इतीकाराभावस्योदाहरणम्, अस्वादुअं स्वादुअं भुङ्क्त इत्यव्ययस्य । इह यदि क्त्वादयः प्रत्ययाः’कर्तरि कृत्’ इति वचनात्कर्तरि स्युः, इह पक्त्वोदनो भुज्यते देवदतेनेति देवदतातृतीया न स्यात्, क्त्वाप्रत्ययेनाभिहितः कर्तेति । अथ क्त्वाप्रत्ययेनाभिधाने सत्यपि भुजिप्रत्ययेनानभिहितः कर्तेति कृत्वाऽनभिहिताश्रया विभक्तिर्भवति तृतीया ? यद्येवम्, ओदने द्वितीया प्राप्नोति, किं कारणम् ? भुजिप्रत्ययेनाभिधानेऽपि क्त्वाप्रत्ययेनानभिहितं कर्मेति । तथा यदि कर्मणि स्युः, पक्त्वौदनं भुङ्क्ते देवदतेन, पक्त्वौदनं भुङ्क्ते देवदत इत्येव तु भवति । तथास्मिन् णमुल्यपि स्वादुङ्कारं भुज्यते यावगूर्देअवदतेनेति यवाग्वा द्वितीया न भवति, स्वादुङ्कारं यवागूं भुङ्क्ते देवदत इत्यत्रापि कर्मणि द्वितीया भवति, कर्तरि तृतीया च न भवति । एवमा तुमुनो द्रष्टव्यम् । तथा’तमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ ‘समानकर्तृकेषु तुमुन्’ इत्यत्रापि तुमुनि भोक्तुमोदनः पच्यते देवदतेन, इष्यते ग्रामो गन्तुं देवदतेन, भोक्तुमोदनं पचति देवदतः, ग्रामं गन्तुमिच्छति देवदत इति सर्वत्रानुप्रयोगात् यत्र लादयस्तदनुरोधेनैव कर्तृकर्मणोर्विभक्तिर्भवति । तस्मादव्ययकृतः समानाधिकरण इति वक्तव्यम्, केन सामानाधिकरण्ये ? अनुप्रयोगेण । एतदुक्तं भवति - अनुप्रयुज्यमानाद्धातोर्यस्मिन्कारके लादयो विहितास्तत्रैवाव्ययकृतोऽपि भवन्तीति । एवं ह्युभाभ्यां कर्तृकर्मणोरभिहितत्वाद्यथायथं विभक्तयः सिद्ध्यन्ति । वृत्तिकारस्त्विममर्थमन्यथा साधयितुमाह - तुमर्थाधिकाराच्चेति । तत्र सयादिसूत्रे तुमर्थग्रहणातमुन् भावे भवतीति ज्ञापितम्, तदेव च तुमर्थग्रहणं’शकधृषज्ञा’ इतियावदनुवर्तते, अतः सर्व एते क्त्वादयो भावे भवन्तीति तत्र चोदयति - यद्येवमिति । तृतीया कस्मान्न भवतीति । एतच्चोपलक्षणम्, स्वादुङ्कारं यवागूःभुज्यते देवदतेनेत्यत्र कर्मणि द्वितीया कस्मान्न भवतीत्यपि द्रष्टव्यम् । ठनभिहितेऽ इति पर्युदासे चैतच्चोद्यम् - तदा हि सत्यभिधानेऽनभिधाने च यतोऽनभिधानं तदाश्रया विभक्तिः प्राप्नोति । परिहरति - भुजिप्रत्ययेनेति । ठनभिहितेऽ इति प्रसज्यप्रतिषेध आश्रीयते इति भावः । तदा हि यतोऽभिधानं तदाश्रयः प्रतिषेधो भवति । ननु च शक्तिः कारकम्, अन्या च करणविषया शक्तिः, अन्या च भुजिविषया, तत्र यद्येकस्या शक्तेरभिधानमनभिधानं च स्यात्, स्यादयं परिहारः, यतोऽभिधानं तदाश्रयः प्रतिषेध इति शक्तिभेदात्वयुक्तः ? इत्यत्राह - न चास्मिन्निति । किं कारणं भेदो न विवक्षितः ? इत्याह - समानकर्तृकत्वं हि विरुध्यत इति । ननु च मा नामास्मिन्प्रकरणे शक्तिभेदो विवक्षितः, ठनभिहितेनऽ इत्यत्र कस्मान्न विवक्ष्यते ? असम्बद्धमेतत् ; कथं हि तस्मिन्नेव प्रयोगे तदैव विवक्षाविवसे स्याताम् । किञ्चि - ठनभिहितेऽ इत्येकत्वादीनामाधारनिर्देशोऽनभिहिते कर्मादौ यदेकत्वादि तत्रेति, द्रव्यमेव चैकत्वादीनामाधारो न शक्तिः, अतस्तत्रापि द्रव्यमेवानभिहितमित्युच्यते, तस्य च शक्तिद्वारेणाभिधानानभिधानयोः सतोर्यतोऽभिधानं तदाश्रयः प्रतिषेधो भवतीति युक्तमेव । अभ्युपेत्यापि शक्तिभेदविवक्षां परिहारमाह - प्रधानशक्त्यभिधाने चेति । आख्यातपदवाच्या क्रिया विशेष्यत्वात्प्रधानम्, विशेषणभूता त्वप्रधानम्, तद्द्वारेण तद्विषययोः शक्त्योरपि गुणप्रधानभावः । तत्र प्रधानानुवतित्वाद् गुंणानां तन्मुखप्रेक्षित्वातद्विरुद्धस्वकार्यारम्भाभावाद्यथायथं विभक्तिसिद्धिरित्यर्थः । उक्तं च - प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथके । शक्तिर्गुणाश्रया तत्र प्रधानमनुरुद्ध्यते ॥ प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यदा गुणे तदा तद्वदनुक्तापि प्रतीयते ॥ इति । वयं तु ब्रूमः - सकृत् श्रुतस्य युगपदुभाभ्यां सम्बन्धाभावादेकेनैव प्रधानेन शाब्दोऽन्वय इति, इतरेण तु सन्निधानादार्थ इति ॥
Nyaas¶
स्वादुमीत्यर्थग्रहणम् इति। ननु च स्वं रूपं शब्दस्याशब्दसंज्ञा (1.1.68) इति वचनात् स्वरूपस्यैव ग्रहणेन भवितव्यम्? नैतदस्ति; शब्दानुशासनप्रस्तावादेव हि शब्दस्येति सिद्धे शब्दग्रहणं यत्र शब्दपरो निर्देशस्तत्र स्वं रूपं गृह्रते नार्थपरनिर्देश इति ज्ञापनार्थं कृतम्, इह चार्थपरो निर्देशः। तस्मादर्थग्रहणमेव युक्तम्। अर्थपरत्वं तु निर्देशस्याविच्छिन्नाचार्यपारम्पर्योपदेशाद्विज्ञायते। अर्थग्रहणे च सति तत्पर्यायेष्वपि प्रत्ययो लभ्यत इत्याह - स्वाद्वर्थेषु इत्यादि। अथ स्वादुमि इति किमर्थं मकारान्तत्वं निपात्यते, मान्तस्योपपदस्य श्रवणं यथा स्यादिति चेत्? न; यद्येतत्प्रोयजनम्, न निपातयितव्यम्, अनन्तरसूत्रे खमुञः प्रकृतत्वात् स एव विधास्यते। अस्मश्च विहिते मुमैव मान्तत्वमुपपदस्य भविष्यतीत्येतच्चोद्यमापाकर्त्तुमाह - स्वादुमि`इत्यादि। एतेनैतद्दर्शयति - यद्यपि खमुञि सति सिध्यति मकारान्तत्वम्, ईकारप्रतिषेधस्तु न सिध्यति, ततश्च स्वदुशब्दादुपपदात् `वोतो गुणवचनात् (4.1.44) इति ङीष् प्रसज्येत्, तथा चानिष्टं रूपं स्यात्। माकारान्तत्वनिपातने हि निमित्तस्य विहितत्वान्ङीष्प्रसङ्गो नास्ति। तस्माद्योऽपि खमुञं विदधाति तेनाप्यवश्यमीकारप्रतिषेधार्थं मकारान्तं निपातयितव्यमिति। यद्यपि परस्याभिमतम् - खमुञि विहिते मुमैव मकारान्तत्वं भविष्यति इति, तदपि न सर्वत्रेति सूचयितुमाह - च्व्यन्तस्य इत्यादि। अनेनैतद्दर्शयति - यदि मकारान्तत्वं न निपात्येत, तदा सत्यपि खमुञि मकारान्तत्वं च्व्यन्तस्योपपदस्य न स्यात्; तस्याव्ययत्वात्। मुम्विधौ च खित्यनव्ययस्य (6.3.66) इत्यधिकारात्। तस्माद्योऽपि खमुञं विदधाति तेनापि मकारान्तत्वनिपातनं कर्तव्यम्। एवं हि मकारान्तत्वनिपातनमेव क्रियताम्, प्रत्ययस्तु प्रकृतः खमुञेव विधातव्यः? अशक्यः खमुञ् विधातुम्; खमुञ्प्रत्यये हि मकारान्तत्वनिपातनमव्ययार्थं विज्ञायते,ततश्च च्वौ च (6.3.63) इति दीर्घत्वं स्यादेव। णमुलि सति सर्वविधयपवादस्तु विज्ञायेत, तेन दीर्घत्वमपि न भवति। अवश्यञ्चोत्तरार्थं णमुल् विधेयः, न च तस्मिन्नुत्तरत्र विधीयमाने लाघवं भवति, नापीह गौरवम्।क्व पुनरर्थ एते प्रत्या भवन्तीत्याह - तुमरोथाधिकाराच्च इत्यादि॥ एते इति। ये तुमर्थधिकारे विहिताः। यद्येवम् इति। यदि तुमर्थे भवन्तीत्यर्थः। भुजिप्रत्ययेन इत्यादि। यद्यपि णमुलाऽनभिहितः कर्ता, तथापि भुजिप्रत्ययेन लटाभिहित इति न भवितव्यं तृतीयया। ननु च शक्तिलक्षणः कर्ता, अन्या च स्वादुकरणविषया शक्तिः, अन्या च भुजिक्रियाविषया, तत्र लटाभिहितायामपि भुजिक्रियाविषायायां शक्तावितरस्याः शक्तेः कर्त्तृसंज्ञाया अनभिधानात् {प्राप्नोतीत्येव-मुद्रितः पाठः} प्राप्नोत्येव तृतीयेत्याह - न चास्मिन् इत्यादि। अत्र हि समानकर्त्तृकप्रकरणे शक्तमतः शक्तीनाञ्च भेदो न विवक्ष्यते। तेन शक्तिमान् देवदत्तः कर्ता। स चैक एवाभिहितश्चेति कुतस्ततीयाप्रसङ्गः। किं कारणं भेदेनोपादानं न विवक्षितम्? इत्याह - समानकर्त्तृकत्वे हि इत्यादि। अभ्युपगम्यापि भेदविवक्षाम्, परिहारान्तरमाह - प्रधानशक्त्यभिधाने इत्यादि। किं कृतः पुनरत्र कर्त्तृशक्त्योः प्रधानगुणभावः? क्रियाकृतः; स्वादुङ्कारं हि गुणभूतम्, भुजिक्रियार्थत्वात्। भुजिक्रिया तु प्रधानम्; तेनोपकार्यत्वात्। क्रियायाश्च गुणप्रदानभावात् तद्विषययोरपि कर्त्तृशक्त्योः प्रधानगुणभावो भवति। तत्र प्रधानशक्तावभिहितायामप्रदानशक्तिरभिहितत्वात् प्रकाशते = प्रतिभासते; प्रधानानुयायित्वाद्गुणानाम्। तेन तृतीया न भवतीति भावः॥
Prakriyasarvasvam¶
स्वाद्वर्थेषु पूर्वेषु कृञो णमुल् स्यात् । तेषां मान्तत्वं च निपात्यते । गुडैः स्वादुङ्कारं मधुरङ्कारं सम्पन्नङ्कारं लवणङ्कारं वा सक्तून् धाना वा भुङ्क्ते । सम्पन्नलवणावपि स्वाडुपर्यायावेवेति हरः । क्त्वापीष्यते । तत्र मान्तत्वाभावाद् यथार्हं द्वितीया । स्वादून् स्वादीं वा कृत्वेत्यादि । इतः परं कषादिपर्यन्तं णमुलि पूर्वकालार्थो न । समानकर्तृकत्वं तु सर्वत्रेष्टम् ॥
Sutra Prayogas¶
स्वादुंकारं (शिशुपालवधम्): स्वादुमि णमुल् इति णमुल् प्रत्ययः।