34027: अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्¶
Padacheda: अन्यथा-एवम्-कथम्-इत्थम्-सु | S | 7 | 3 |
सिद्धाप्रयोगः | S | 1 | 1 |
चेत् | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
When the words 1. अन्यथा ‘otherwise’ 2. एवम् ‘so’ 3. कथम् ‘how’ 4. इत्थम् ‘thus’ are compounded with the verb, the णमुल् comes after कृ ‘to make’, if it be such that its omission would be unobjectionable.
Vasu English Translation¶
When the words 1. अन्यथा ‘otherwise’ 2. एवम् ‘so’ 3. कथम् ‘how’ 4. इत्थम् ‘thus’ are compounded with the verb, the णमुल् comes after कृ ‘to make’, if it be such that its omission would be unobjectionable. When is the non-employment of कृञ् valid ? When the same sentence will remain correct by omitting कृ, i. e. when without employing it, the same idea will be expressed. Thus अन्यथाकारं, एवङ्कारं, कथङ्कारं or इत्थङ्कारं भुङ्क्ते ‘he eats otherwise, he eats so, how does he eat, or he eats thus’. In fact, the sentence अन्यथाकारं भुङ्क्ते is equivalent to अन्यथा भुङ्क्ते ।
Why do we say ‘if the non-employment would be valid’? Witness अन्यथा कृत्वा शिरो भुङ्क्ते ‘he eats, having turned his head aside’. Here कृञ् could not be spared.
Kashika¶
कृञ इत्येव। अन्यथादिषूपपदेषु कृञो णमुल् प्रत्ययो भवति, सिद्धाप्रयोगश्चेत् करोतिर्भवति। कथं पुनरसौ सिद्धाप्रयोगः? निरर्थकत्वाद् न प्रयोगमर्हतीत्येवमेव प्रयुज्यते। अन्यथा भुङ्क्त इति यावानर्थः, तावानेवान्यथाकारं भुङ्क्त इति गम्यते। अन्यथाकारं भुङ्क्ते। एवंकारं भुङ्क्ते। कथंकारं भुङ्क्ते। इत्थंकारं भुङ्क्ते। सिद्धाप्रयोग इति किम्? अन्यथा कृत्वा शिरो भुङ्क्ते॥
Siddhanta Kaumudi¶
एषु कृञो णमुल् स्यात् सिद्धः अप्रयोगोऽस्य एवम्भूतश्चेत् कृञ् । व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः । अन्यथाकारम् । एवङ्कारम् । कथङ्कारम् । इत्थङ्कारं भुङ्क्ते । इत्थंभुङ्क्ते इत्यर्थः । सिद्धेति किम् । शिरोऽन्यथा कृत्वा भुङ्क्ते ॥
Laghu Siddhanta Kaumudi¶
एषु कृञो णमुल् स्यात् । सिद्धोऽप्रयोगोऽस्य एवम्भूतश्चेत् कृञ् । व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः । अन्यथाकारम् । एवङ्कारम् । कथङ्कारम् । इत्थङ्कारं भुङ्क्ते । सिद्धेति किम्? शिरोऽन्यथा कृत्वा भुङ्क्ते ॥ इत्युत्तरकृदन्तम् ॥ इति कृदन्तम् ॥
Tattvabodhini¶
अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् - व्यर्थत्वादिति । निष्प्रयोजनत्वादित्यर्थः । तदेतद्दर्शयति — इत्थं भुङ्क्त इत्यर्थ इति । इह शाब्दबोधे विशेषसत्त्वेऽपि फलितार्थः । कथनपरतया कारमिति णमुलन्तस्य निष्फलत्वमुक्तम्, अनतिप्रयोजनत्वात् । विस्तरस्तु मनोरमादावनुसन्धेयः । शिरोऽन्यतेति । इह शिरोऽन्यथा कृत्वौदनादिकं भुङ्क्त इत्यर्थलाभाय करोतेः प्रयोग आवश्यकः । तदभावे तु भुजिक्रियागत एव प्रकारो गम्येत न तु शिरसोऽन्यथाकरणम्, अतः करोतेः प्रयोगार्हत्वमस्तीति णमुलन्तः करोतिरिह न प्रयुज्यत इति भावः ।
Padamanjari¶
कथं पुनरसौ सिद्धाप्रयोग इति । सिद्ध ओदन इत्यादौ सिद्धशब्दो निष्पन्नवचनः, ततश्च सिद्धश्चेदप्रयोगः कथमप्रयुज्यमानाततो णमुल्विधिरिति प्रश्नः ।’सिद्धे सत्यारम्भोनियमार्थः’ इतिवत्प्राप्तवचनः सिद्धशब्द इत्युतरम् । निर्थकत्वादिति । निष्प्रयोजनत्वात् । एवमेवेति । निरर्थक एव सन्नित्यर्थः । एतदेव स्फोरयति - अन्यथा भुङ्क्त इति । यावानर्थ इति । उदाहरणेष्वनुप्रयोगेषु या क्रिया तत्प्रकारवचना अत्रान्यथादयः । अन्यथा कृत्वा शिरो भुङ्क्त इति । अत्र तु विना करोतिना शिरसोऽन्यथाकरणं न प्रतीयते, भुजिक्रियागत एव प्रकारे गम्यते, अतोऽवश्यं प्रयोज्यः करोतिः ॥
Nyaas¶
सिद्धाप्रयोगः इति। सिद्धोऽप्रयोगो यस्य स तथोक्तः। निरर्थकत्वात् इत्यादि। अभिधेयाभावात् प्रयोजनाभावाद्वा निरर्थकत्वम्। एवमेव इति। निरर्थकत्वमेवेत्यर्थः। अन्यथा भुङ्क्ते इत्यादिना तदेवानर्थकत्वं चेतसि कृत्वा सिद्धाप्रयोगतां दर्शयति। अन्यथा भुङ्क्ते इति यावानेवार्थः करोतावप्रयुज्यमाने गम्यते तावानेवार्थः करोतावप्रयुज्यमाने गम्यते तावानेवार्थोऽन्यथाकारं भुङ्क्त इति करोतौ प्रयुज्यमानेऽपि। तस्मादनर्थकः करोतिः। कथं पुनः प्रयुज्यमान एवानर्थको भवति? अन्यथादयएते प्रकारवचनाः, ते यदानुप्रयोगधातोरर्थस् प्रकारमाचक्षते तदा कृञपि तैर्विशेष्यमाणस्तदीयप्रकारमाचष्टे, गचान्यत एवावगत इत्यनर्थको भवति। यद्येवम्, अवगतार्थत्वात् तस्य प्रयोगो न प्राप्नोति? नैवम्; अवगतार्थमपि प्रयोगो दृश्यते - अपूपौ द्वावानय, पचाम्यहमिति।अन्यथा कृत्वा शिरो भुङ्क्ते इत्यत्रान्यथाशब्देन पदान्तरस्य शिरसः प्रकारमाख्यायते। स विना करोतिना नावगम्यते। यदि हि करोतिर्न प्रयुज्येत, भुजिक्रियागत एव प्रकारोऽन्यथालक्षणः प्रतीयतेत, न शिरोगतः। शिरसस्तु भुज्यमानतैवावगम्येत। तस्मान्नात्र करोतिः शिद्धाप्रयोगः॥
Prakriyasarvasvam¶
एषु पूर्वेषु निरर्थकत्वात् प्राप्ताप्रयोगस्य कृञो णमुल् स्यात् । अन्यथाकारं वदति । अन्यथा वदतीत्येवार्थः । एवंकारमित्यादि । कृञः सार्थकत्वे तु न । कार्याण्यन्यथा कृत्वा गतः ॥
Sutra Prayogas¶
कथङ्कारम् (शिशुपालवधम्): अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् इति अनर्थकादेव करोतेः कथंपूर्वाण्णमुल्।