34025: कर्मण्याक्रोशे कृञः खमुञ्¶
Padacheda: कर्मणि | S | 7 | 1 |
आक्रोशे | S | 7 | 1 |
कृञः | S | 5 | 1 |
खमुञ् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix खमुञ् is added to the verb कृ ‘to make’, when a word in the Accusative -2nd case is in construction with it, if the sense intended implies ‘abuse’.
Vasu English Translation¶
The affix खमुञ् is added to the verb कृ ‘to make’, when a word in the Accusative -2nd case is in construction with it, if the sense intended implies ‘abuse’. Of the affix खमुञ्, the efficient portion is अम्; the indicatory ख introduces the augment मुम् (6.3.67). Thus चोरं कारमाक्रोशति ‘he reviles him as thief, i. e. he calls out in abuse ‘thou art a thief., thou art a robber, &c.’ The person is not really made a thief, but making him a thief is to express one’s indignation.
Kashika¶
कर्मण्युपपदे कृञो धातोः खमुञ् प्रत्ययो भवत्याक्रोशे गम्यमाने। चोरंकारमाक्रोशति। चोरोऽसि दस्युरसीत्याक्रोशति। चोरकरणमाक्रोशसंपादनार्थमेव, न त्वसौ चोरः क्रियते॥
Siddhanta Kaumudi¶
कर्मण्युपपदे आक्रोशे गम्ये । चौरङ्कारमाक्रोशति । करोतिरुच्चारणे । चोरशब्दमुच्चार्येत्यर्थः ॥
Padamanjari¶
उदाहरणेषु करोतिरुच्चारणे वर्तते, तस्य शब्दात्मकमेव कर्म भवति । तत्र चोरादिशब्दाः शब्दप्रधानाः । चोरङ्कारम् । कोऽथेः ? चोरशब्दमुच्चार्येत्यर्थः, तदाह - चोरोऽसीत्यादि । चोरकरणमिति । चोरशब्दोच्चारणम् । आक्रोशसम्पादनार्थमिति । निन्दितशब्दोच्चारणमन्तरेण तस्य सम्पादयितुशक्यत्वात् । न त्वसाविति । न हि चोरोऽसीति वचनेन चोरः क्रियते ॥
Nyaas¶
चौराङ्कारम् इति। अरुर्द्विषदजन्तस्य मुम् (6.3.67) इति मुम्। चौरकरणम् इत्यादि। करोतिरत्रोच्चारणक्रियः। चौरोऽसि`इत्याक्रोशवाक्ये चौरशब्दस्य यत् करणमुच्चारणं तदाक्रोशस्यैव सम्पादनार्थम्। न हि तेनविनाऽऽक्रोशः शक्यते प्रतिपादयितुम्। `न त्वसौ चौरः क्रियते इति। अशक्यत्वात्। न च `चौरोऽसीति शतकृत्वोऽपि ब्राउवता पुरुषस्य शक्यते चौरत्वमुत्पादयितुम्॥
Prakriyasarvasvam¶
क्षेपे द्योत्ये कर्मपूर्वात् कृञः खमुञ् स्यात् । अमन्तत्वावुपपदसमासः । खित्त्वान्मुम् । चोरङ्कारमाक्रोशति । चोरशब्दमुक्तेवेत्यर्थः । एवं वधिरङ्कारमा ह्वयति ॥
Sutra Prayogas¶
तंभीतं-कारम् (भट्टिकाव्यम्): क्रोशे इति कृञः खमुन्।