33127: कर्तृकर्मणोश्च भूकृञोः

Padacheda: कर्तृ-कर्मणोः | S | 7 | 2 |

च | S | 0 | 0 |

भू-कृञोः | S | 6 | 2 |

Sutrartha


Vasu English Summary

The affix खल् comes after the verbs भू ‘to be’ and कृ when the उपपद-s in composition with them are ‘agent’ and ‘object’ respectively, preceded by the words ईषद् etc. in combination with them, meaning ‘hard or light’.

Vasu English Translation

The affix खल् comes after the verbs भू ‘to be’ and कृ when the उपपद-s in composition with them are ‘agent’ and ‘object’ respectively, preceded by the words ईषद् etc. in combination with them, meaning ‘hard or light’. Thus ईषदाढ्यं भवं ‘being enriched easily’; दुराढ्यं भवम् ‘to be enriched with difficulty’; स्वाढ्यङ्करो देवदत्तो भवता ‘Devadatta can be made rich by you easily’.

Vart:- It should be stated that the agent and object in composition should be, as if they ended in the affix च्वि (5.4.50). Compare (3.2.56) and (3.2.57) &c. Therefore we do not have it here स्वाढ्येन भूयते or आढ्येन सुभूयते ॥

Bhashya

कर्तृकर्मणोश्च भूकृञ्ञोः (1112) (569 खल्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 1 आ.38) (4077 वार्तिकम्॥ 1 ॥) ॥ खल् कर्तृकर्मणोश्च्व्यर्थयोः- (भाष्यम्) खल् कर्तृकर्मणोः च्व्यर्थयोरिति वक्तव्यम्। अनाढ्येन भवता इर्षदाढ्येन शक्यं भवितुम् इर्षदाढ्यंभवं भवता। दुराढ्यंभवम्। स्वाढ्यंभवम्॥ (4078 वार्तिकम्॥ 2 ॥) - कर्तृकर्मग्रहणं चोपपदसंज्ञार्थम्- (भाष्यम्) कर्तृकर्मग्रहणं चोपपदसंज्ञार्थे द्रष्टव्यम्। तद् द्वेष्यं विजानीयाद् अभिधेययोरिति। तदाचार्यः सुहृद् भूत्वान्वाचष्टे - कर्तृकर्मग्रहणं चोपपदसंज्ञार्थमिति॥ कर्तृकंर्म॥ 127 ॥

Kashika

भवतेः करोतेश्च धातोर्यथासंख्यं कर्तरि कर्मणि चोपपदे चकारादीषदादिषु च खल् प्रत्ययो भवति। ईषदाढ्यंभवं भवता। दुराढ्यंभवम्। ईषदाढ्यंकरः। स्वाढ्यंकरो देवदत्तो भवता॥ कर्तृकर्मणोश्च्व्यर्थयोरिति वक्तव्यम्॥ इह मा भूत् — स्वाढ्येन भूयते॥

Siddhanta Kaumudi

कर्तृकर्मणोरीषदादिषु चोपपदेषु भूकृञोः खल् स्यात् । यथासङ्ख्यं नेष्यते । कर्तृकर्मणी च धातोरव्यवधानेन प्रयोज्ये ईषदादयस्तु ततः प्राक् ।<!कर्तृकर्मणोश्च्व्यर्थयोरिति वाच्यम् !> (वार्तिकम्) ॥ खित्त्वान्मुम् । अनाढ्येनाढ्येन दुःखेन भूयते दुराढ्यम्भवम् । ईषदाढ्यम्भवम् । स्वाढ्यम्भवम् । ईषदाढ्यङ्करः । दुराढ्यङ्करः । स्वाढ्यङ्करः । च्व्यर्थयोः किम् । आढ्येन सुभूयते ॥

Tattvabodhini

कर्तृकर्मणोश्च भूकृञोः - कर्तृकर्मणोः । चकारः संनियोगार्थः । यदा कर्तृकर्मणोरीषदादीनां च युगपत्प्रयोगस्तदैव प्रत्ययो यथा स्यात् । न च कर्तृकर्मणोः प्रत्ययार्थत्वमेवास्तु न तूपपदत्वमिति वाच्यम्, ईषदादीनामेवोपपदत्वे तु खलः खित्त्वस्य वैयथ्र्यापत्तेः । मुमर्थं हि तत् । मुम् चानव्यस्य विधीयते । तस्मात्कर्तृकर्मणोरिति उपपदत्वमेव । तदेतदाह — ईषदादिषु चेति । कर्तृकर्मणी द्वे, भूकृञौ च द्वौ, तयोर्यथासङ्ख्यं प्राप्तम्, स्वीकृतं च काशिकाकृता, कन्यासकारहरदत्तादिभिश्च, प्राचापि तथैवोक्तं, तद्वयाख्यातृभिश्चानुमोदितं, तत्सर्वं नादर्तव्यम्,यथासङ्ख्यसूत्रस्थभाष्यविरोधादिति ध्वनयन्नाह — यथासङ्ख्यं नेष्यत इति । ननूपपदयोर्मध्ये पूर्वापरीभावव्यवस्था न सिध्यति, भूकृञोरवयवहितत्वं क्रतृकर्मणोरेवेष्यते न त्वीषदादीनाम् । एवं च कथमत्रेष्टव्यवस्था सिध्यतीति चेदत्राहुः — बहुलग्रहणानुवृत्त्या दुराढम्भव इति भाष्योदाहरणाच्चेष्टव्यवस्था सिध्यतीति । तदेतदभिप्रेत्याह - कर्तृकर्मणि चेति । भवतेः कर्तर्युदाहरति - अनाढएनाढएनेति । कर्मणि त्वनाढ आढओ भूयते इति विग्रहः । भाव्यते इति तदर्थः । एवमग्रेऽपि विग्रहद्वयमुन्नेयम् । अनाढएनाढएन स्वयमेव क्रियते, अनाढ आढ्यः क्रयत इति ।

Nyaas

कर्त्तृकर्मणोरुपपदत्वं भवति, न तु प्रत्ययार्थम्। यदि च तयोः प्रत्ययार्थत्वं स्यादीषदादिष्वेवोपपदेषु प्रत्ययः स्यात्, ततश्च खित्करणमनर्थकं स्यात्; अनव्ययस्य खित्कार्यविधानात्। ईषादादीनाञ्चाव्ययत्वात्; तस्मादतोऽपि खित्करणम्। उपपदे कर्त्तृकर्मणी, न तु प्रत्ययार्थावेतावित्यवसीयते। अत्र च कर्त्तृकर्मणी ईषदादयश्च न प्रत्येकं प्रत्ययस्य निमित्तम्, किं तर्हि? तत्समुदायः। चकारेण ह्रतर् सन्नियोगः क्रियते, तेन कर्त्तृकर्मणोरीषदादीनाञ्च युगपदुपपदत्वं भवति; नान्यथा। यद्येवम्, कथं द्वयोरुपपदयोर्युगपत् समासः? कः पुनराह - युगपत् समास इति? पूर्वं हि परस्योपपदस्य समासं कृत्वा पश्चात् पूर्वस्य समासो भवति। किं पुनरत्र परमुपपदम्? कर्त्तृकर्मणी। कुत एतत्? खित्करणसामर्थ्यात्। खित्करणं हि मुमर्थम्, मुमागमश्चानव्ययस्य विधीयते। तत्रेषदादीनां धातोश्चानन्तर्ये खित्करणमनर्थकं स्यात्। ईषदाढम्भवं भवता इति। अकृच्छ्रमाढएन भयते भवतेत्यर्थः। ईषदाढङ्करो देवदत्तो भवता इति। अकृच्छ्रमाढ्यः क्रियते देवदत्तो भवतेत्यर्थः।कर्त्तृकर्मणोः`इत्यादि। च्व्यर्थोऽभूततद्भावः। तदर्थयोः कर्त्तृकर्मणोरुपपदयोः खल भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - प्रायग्रहणं मण्डूकप्लुतिन्यायेनानुवर्तते, तेन यदा कर्त्तृकर्मणी च्व्यर्थे भवतस्तदैव प्रत्ययो भवति, नान्यदेति। `स्वाढएन भूयते इति। अत्र च्व्यर्थस्याविवक्षितत्वात् प्रत्ययो न भवति॥

Prakriyasarvasvam

कर्तृपूर्वाद् भुवः कर्मपूर्वात् कृञश्चेषद्दुस्सुयोगे खल् स्यात् ॥ <karika>अकर्मत्वाद् भुवो भावे कृञः कर्मार्थ एव तत् । च्व्यर्थयोगश्च वाच्योऽत्र भवतेपटुम्भवम् ॥ १६४ ॥</karika> <karika>अपटोस्ते पटुत्वेन भवनं लघ्वितीर्यते । एवं स्वाढ्यम्भवं तेन तथा दुस्सुन्दरिम्भवम् ॥ १६५ ॥</karika> <karika>ईषन्मालङ्करं पुष्पं सुपिण्डङ्कर ओदनः । दुस्सेनानिङ्करो भीरुः खित्वाद्ध्रस्वमुमागमौ ॥ १६६ ॥</karika>

Vartika

कर्तृृकर्मणोश्च्व्यर्थयोरिति वाच्यम् ।

Sutra Prayogas

  • सुराजंभवम् (शिशुपालवधम्): कर्तृकर्मणोश्च भूकृञोः इति कर्तरीषदादौ चोपपदे भवतेः खल्प्रत्यये नलोपमुमागमौ।

  • ईषदाढ्यङ्करो (भट्टिकाव्यम्): कर्तृ-कर्मणोश्च भु-कृनोः इति व्यर्थे कर्मोपपदात्करोतेः खल्।