33128: आतो युच्¶
Padacheda: आतः | S | 5 | 1 |
युच् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix युच् comes after the roots ending in long आ (when ईषद् and दुर् and सु are combined as उपपद-sūtras, in the sense of easily or with difficulty).
Vasu English Translation¶
The affix युच् comes after the roots ending in long आ (when ईषद् and दुर् and सु are combined as उपपद-sūtras, in the sense of easily or with difficulty). The word ईषद् &c. are to be read into this sutra, not so the words कर्तृकर्मणा &c. This supersedes the affix खल्. Thus ईषत्पानः सोमो भवता ‘the soma juice can be lightly drunk by you’; दुष्पानः ‘difficult to be drunk’; सुपानः ‘easy to be drunk’. ईषद्दानो गौर्भवता ‘the cow can be given with ease by you’; दुर्दानः सुदानः &c.
Kashika¶
ईषदादयोऽनुवर्तन्ते। कर्तृकर्मणोरिति न स्वर्यते। कृच्छ्राकृच्छ्रार्थेषु ईषदादिषूपपदेष्वाकारान्तेभ्यो धातुभ्यो युच् प्रत्ययो भवति। खलोऽपवादः। ईषत्पानः सोमो भवता। दुष्पानः। सुपानः। ईषद्दानो गौर्भवता। दुर्दानः। सुदानः॥
Siddhanta Kaumudi¶
खलोऽपवादः । ईषत्पानः सोमो भवता । दुष्पानः । सुपानः ।<!भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वाच्यः !> (वार्तिकम्) ॥ दुःशासनः । दुर्योधन इत्यादि ॥
Laghu Siddhanta Kaumudi¶
खलोऽपवादः। ईषत्पानः सोमो भवता। दुष्पानः। सुपानः॥
Tattvabodhini¶
आतो युच् - इत्यादीति । आदिशब्देन दुर्दर्शनः । दुर्धर्षणः । दुर्मर्षणः ।
Prakriyasarvasvam¶
आदन्तात् खल्विषये युच् स्यात् । दुर्ज्ञानः । सुज्ञानः । ईषत्पानः । शासियुधि- दृशिधृषिमृषिभ्यो युज् वाच्यः । दुश्शासनः सुशासन इत्यादि ॥
Sutra Prayogas¶
दुरुपस्थाने (भट्टिकाव्यम्): आतो युच् इति ईषदादयोऽनुवर्तन्ते युच् च।
दुष्पानः (भट्टिकाव्यम्): आतो युच् इति दुःखेन पास्यत इति युच्प्रत्ययः ।