33126: ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्

Padacheda: ईषत्-दुस्-सुषु | S | 7 | 3 |

कृच्छ्र-अकृच्छ्र-अर्थेषु | S | 7 | 3 |

खल् | S | 1 | 1 |

Sutrartha


Vasu English Summary

In the sense of ‘hard and difficult’ or ‘light and easy’ the affix खल् is added to a verb when ईषद् and दुर् and सु are combined with it as उपपद-s.

Vasu English Translation

In the sense of ‘hard and difficult’ or ‘light and easy’ the affix खल् is added to a verb when ईषद् and दुर् and सु are combined with it as उपपद-s. The anuvritti of the phrase ‘when related as instrument or location’ ceases with this aphorism. The word कृच्छ्र means heavy, and दुर् has the force of conveying that sense. The word अकृच्छ्र means ‘light, easy’; and the words ईषत् and सु convey that sense. Thus ईषत्करो भवता कटः ‘a mat is made easily by you’; so also दुष्करः ‘made with difficulty’; सुकरः ‘made with ease’. Similarly ईषद्भोजः ‘eating pleasantly’; दुर्भोजः and सुभोजः ।

Why do we say ‘after ईषत् &c’.? See कृच्छ्रेण कार्यः कटः ‘the mat which is made with difficulty’.

Why do we say ‘when meaning ‘hard or light’? Observe ईषत्कार्यं ‘a small work’.

Of the affix खल्, the letter ख and ल् are indicatory; ख causing the insertion of a nasal (technically called मुम् augment, (6.3.67)); and ल् regulates the accent (6.1.196). The augment मुम् will be added in the subsequent sutra, the ख thus having no work in this sutra.

Bhashya

इर्षद्दुः सुषु कृच्छ्राकृच्छ्रार्थेषु खल् (1111) (खलर्थप्रकरणम्) (568 खल्प्रत्ययविधिसूत्रम् ॥ 3 । 3 । 1 आ.37) (4075 वार्तिकम् ॥ 1 ॥) - अजब्भ्यां स्त्रीखलनाः- (भाष्यम्) अजब्भ्यां स्त्रीखलना भवन्ति विप्रतिषेधेन। अजपोरवकाशः - चयः। लवः ॥ स्त्रीप्रत्ययनानमवकाशः - कृतिः। हृतिः ॥ इहोभयं प्राप्नोति - चितिः स्तुतिः ॥ खलोवकाशः - इर्षद्भेदः। सुभेदः ॥ अजपोः स एव ॥ इहोभयं प्राप्नोति - इर्षच्चयः। सुचयः। इर्षल्लवः। सुलवः ॥ अनस्यावकाशः - -इध्मप्रव्रश्चनः। अजपोः स एव ॥ इहोभयं प्राप्नोति - पलाशचयनः। अविलवनः ॥ स्त्रीखलना भवन्ति विप्रतिषेधेन ॥ (4076 वार्तिकम् ॥ 2 ॥) - स्त्रियाः खलनौ विप्रतिषेधेन- (भाष्यम्) स्त्रियाः खलनौ भवतो विप्रतिषेधेन। स्त्रीप्रत्ययानामवकाशः - कृतिः। हृतिः। खलोवकाशः - इर्षद्भेदः। सुभेदः। इहोभयं प्राप्नोति - इर्षद्भेदा। सुभेदा ॥ अनस्यावकाशः - इध्मप्रव्रश्चनः ॥ स्त्रीप्रत्ययानां स एव ॥ इहोभयं प्राप्नोति - सक्तुधानी। तिलपीडनी ॥ खलनौ भवतो विप्रतिषेधेन ॥ इर्षद्दुः - सुषु ॥ 126 ॥

Kashika

करणाधिकरणयोरिति निवृत्तम्। ईषत् दुर् सु इत्येतेषूपपदेषु कृच्छ्राकृच्छ्रार्थेषु धातोः खल् प्रत्ययो भवति। कृच्छ्रं दुःखम्। तद् दुरो विशेषणम्। अकृच्छ्रं सुखम्। तदितरयोर्विशेषणम्, संभवात्। ईषत्करो भवता कटः। दुष्करः। सुकरः। ईषद्भोजः। दुर्भोजः। सुभोजः। ईषदादिष्विति किम्? कृच्छ्रेण कार्यः कटः। कृच्छ्राकृच्छ्रार्थेष्विति किम्? ईषत्कार्यः। लकारः स्वरार्थः। खित्करणमुत्तरत्र मुमर्थम्॥

Siddhanta Kaumudi

करणाधिकरणयोरिति निवृत्तम् । एषु दुःखसुखार्थेषूपपदेषु खल् स्यात् । तयोरेव-(SK2833) इति भावे कर्मणि च । कृच्छ्रे । दुष्करः कटो भवता । अकृच्छ्रे । ईषत्करः । सुकरः ॥<!निमिमीलियां खलचोरात्वं नेति वाच्यम् !> (वार्तिकम्) ॥ ईषन्निमयः । दुष्प्रमयः । सुविलयः । निमयः । मयः । लयः ॥

Laghu Siddhanta Kaumudi

करणाधिकरणयोरिति निवृत्तम्। एषु दुःखसुखार्थेषूपपदेषु खल् तयोरेवेति भावे कर्मणि च। कृच्छ्रे - दुष्करः कटो भवता। अकृच्छ्रे - ईषत्करः। सुकरः॥

Tattvabodhini

ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् - ईषद्दुःसुषु । इह सामान्योक्तावपि योग्यताबलाद्विशेषणस्य विषयविभागो लभ्यते । दुरिति कृच्छ्रार्थे,इतरौ त्वकृच्छ्रार्थे ।तदेतद्दर्शयति — कृच्छ्रे दुष्कर इत्यादिना । भवतेति ।न लोके॑ति षष्ठीनिषेधात्कर्तरि तृतीया । कच्छ्रेत्यादि किम् । ईषत्कार्यम् । स्वल्पं कार्यमित्यर्थः । खलिति । लकारः स्वरार्थः, खित्करणं तूत्तरत्र मुमर्थम् । निमिमीति ।मीनातिमिनोतिदीङां ल्यपि च ॑विभाषा लीयतेः इति प्राप्तं निषिध्यते । निमय इत्यादि ।एरच् । उपसर्गात्खल्घञोः ।लभेश्चे॑त्यनेनैव सिद्धे नियमार्थमिदमित्याह — उपसर्गादेवति ।

Padamanjari

तद्दुर इति ।’सुदुरोरधिकरणे’ इतिनिर्देशाद् दुः शब्दो रेफान्तोऽप्यस्ति । साम्भवादिति । दुर एव कृच्छ्रे सम्भवः इतरयोरेवाकृच्छ्रे, अतः सामान्येनोक्तावपि विशेषणस्य विषयविभागो लभ्यत इति भावः । ईषत्कार्यमिति । मनागित्यर्थे ईषच्छब्दः ॥ कर्तृकर्मणेश्च भूकृञोः ॥ कर्तरि कर्मणि चोपपदे इति । प्रत्ययार्थत्वं तु कर्तृकर्मणोर्न भवति; चकारस्योपपदसमुच्चयार्थत्वात् । किं च, यदि तयोः प्रत्ययार्थत्वं स्याद् ईषदादिष्वेवोपपदेषु प्रत्ययः स्यात्, तश्च खित्करणमनर्थंकंस्याद्; अनव्ययस्य हि नुम् विधीयते । तस्मात्सुष्ठूअक्तम् - कर्तरि कर्मणि चोपपदे इति । अत्र चकारः सन्नियोगार्थः क्रियते, यदा कर्तृकर्मणेरीषदादीनां च युगपदुपपदत्वं तदा प्रत्ययो भवति, समासस्तु युगपत्पर्यायेण वा भवति । किं पुनरत्र परमुपपदम् ? कर्तृकर्मणी । कुत एतत् ? खलः खित्करणात् । तद्धिमुमर्थम्, मुमागमश्चानव्ययस्य । तत्रेषदादीनां धातोश्चानन्तर्ये खित्करणमनर्थकंस्यात् । ननु मा भूदीषदो धातोश्चानन्तर्यम्, यत्रैतन्नास्ति - ते प्राग्धातोरिति, यत्र त्वस्ति सुदुरोः, तत्र तयोरेव प्राक् प्रयोगो युक्तः, खित्करणं त्वीषदाढ।ल्म्भवन्तीम् इत्यादौ मुमर्थं स्यात्, सुदुरोरपि’कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्’ इति तत्रापि मुमर्थं स्यात्, यथा ठुदिकूले रुजिवहोःऽ कूलमुद्रुज इति ? वक्तव्योऽत्र परिहारः - कृत्यल्युटो बहुलमिति । बहुलग्रहणं वाऽत्राश्रयणीयम् । ईषदाढ।ल्म्भवमिति । अनअढ।लेन भवता सुखेनाढ।लेन भूयत इत्यर्थः । ईवदाढ।ल्ङ्कर इति । अनाठ।ले देवदतः सुखेनाढयः क्रियत इत्यर्थः । स्वाढ।लेन भूयत इति । प्रमाद पाठोऽयम् । अत्र हि खलभावात्सुशब्दस्य धातोः प्राक् प्रयोगेण भाव्यम्, तस्मादाढ।लेन सुभूयते इति पाठः ॥

Nyaas

तदितरयोः`इति। सुशब्देषच्छब्दयोः। कथं पुनः सामान्योक्तेनापि विशेषो लभ्यते? इत्याह - सम्भवात्िति। यत्र यस्य सम्भवस्तत्र तस्य विशेषणं भवति। कृच्छ्रमेव दुःशब्दस्यार्थे वर्तते, नाकृच्छ्रम्। इतरयोस्त्वर्थेऽकृच्छ्रमेव वर्त्तैते न कृच्छ्रम्। तस्मात् कृच्छ्रं दुर एव विशेषणम्, अकृच्छ्र त्वितरयोरेव। `ईषात्करः कटो भवता इति। अकृच्छ्रेणायत्नेन क्रियते भवता कट इत्यर्थः। ईषत्कार्यः`इति। `ऋहलोण्र्यत् (3.1.124) इति ण्यत्। ईषच्छब्दोऽत्र मनागित्यस्यार्थे वर्ततेत।लकारः स्वरार्थः इति। लिति प्रत्ययात् पूर्वस्योदात्तत्वं यथा स्यात्। ननु च ह्रस्वादिकं खित्कार्यं खित्यनव्ययस्य (6.3.66) इत्येवमादिशास्त्रेणानव्ययस्य विधीयते; ईषदादयश्चाव्ययसंसज्ञाः; तत्किमर्थं खलः, खित्करणमित्याह - खित्करणमुत्तरत्र मुमर्थम् इति।उत्तरत्रानव्ययेऽप्युपपदे खल् विधास्यते, तत्र अरुर्द्विषदजन्तस्य मुम् (6.3.67) इति मुम् यथा स्यादित्येवमर्थं खित्करणम्॥

Prakriyasarvasvam

कृछ्रार्थे दुश्शब्दे अकृच्छ्रार्थयोरीषत्सुशब्द्योरुपपदयोः धातोः खल् । भावकर्मणो- श्चायमुक्तः । भावे दुरासं त्वया, ईषदासं, स्वासम् । कर्मणि दुष्करः । ईषत्करः । सुकरः । दुर्लभः सुलभ इत्यत्र ‘न सुदुभ्यां केवलाभ्याम्’ (७-१-६८) इति लभेर्न नुम् । अन्योपसर्गयोगे तु ‘उपसर्गात् खल्घञोः’ (७-१-६७) इति नुमेव । सूपलम्भः । अतिसुलम्भः । सुदुर्लभ इत्यादौ पुनः प्रादिसमासः । बाहुलकात् कृत्योऽपि । दुर्लम्भ्यः । ‘मिमीलिषामि’ति खल्यात्वनिषेधः । सुखनिक्षेप्यम् ईषन्निमयः । दुष्प्रमयो रिपुः । सुलयमनेन ॥

Sutra Prayogas

  • दुस्तरं (रघुवंशम्): ईषद्दुःसुषु- इत्यादिना खल्प्रत्ययः।

  • निसर्गदुर्बोधम् (किरातार्जुनीयम्): ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् इति खल्प्रत्ययः।

  • दुर्विभावं (किरातार्जुनीयम्): ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् इति खल्प्रत्ययः।

  • स्वानमा (शिशुपालवधम्): ईषद्दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल् इत्यादिना खल्प्रत्ययः।

  • दुरापम् (शिशुपालवधम्): ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् इति खल्प्रत्ययः।

  • सुबन्धताम् (शिशुपालवधम्): ईषदुःसुषु- इत्यादिना खल्प्रत्ययः।

  • दुरापे (भट्टिकाव्यम्): ईष- हुःसुषु इत्यादिना खल्।

  • सदुर्लभम् (भट्टिकाव्यम्): ईषद् इत्यादिना खल्।

  • दुःसहा (भट्टिकाव्यम्): ईषद इत्यादिना खल्।

  • दुर्हणे (भट्टिकाव्यम्): ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् इति खल्।