33124: जालमानायः

Padacheda: जालम् | S | 1 | 1 |

आनायः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The word आनाय is irregularly formed when the meaning is ‘a net’.

Vasu English Translation

The word आनाय is irregularly formed when the meaning is ‘a net’. The word is thus formed in the sense of instrument. आ + नो + घञ् = आनायः ‘a net’ (by which they are caught); as आनायो मत्स्यानां ‘a net for fish’; आनायो मृगाणाम् ‘a net for wild deer &c’.

Kashika

आनाय इति निपात्यते, जालं चेत् तद् भवति। आङ्पूर्वाद् नयतेः करणे घञ् निपात्यते। आनायो मत्स्यानाम्। आनायो मृगाणाम्॥

Siddhanta Kaumudi

आनीयन्ते मत्स्यादयोऽनेनेत्यानायः । जालमिति किम् । आनयनः ॥

Tattvabodhini

जालमानायः - जालमा । जल धातने [धान्ये] ज्वलितिकसन्तेभ्यो णः॑ इति णप्रत्यये जालमाशब्दः सिद्धः । तेन जालशब्दोऽत्र निपात्यतैति न भ्रमितव्यम् ।

Padamanjari

‘जल घात्ये’ इत्यतः’ज्वलितिकसन्तेभ्यो णः’ इति णे कृते जालमिति भवति । आनीयन्ते मत्स्यादयोऽनेनेत्यानायः ॥

Prakriyasarvasvam

करणे घञयम् ॥

Sutra Prayogas

  • कृतान्ताऽऽनाय-सन्निभम् (भट्टिकाव्यम्): जालमानायः इति नयतेराङ्पूर्वात्करणे घञ् निपात्यते।