33123: उदङ्कोऽनुदके¶
Padacheda: उदङ्कः | S | 1 | 1 |
अनुदके | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The word उदङ्क is anomalous when the sense of the root refers to subjects other than ‘water’.
Vasu English Translation¶
The word उदङ्क is anomalous when the sense of the root refers to subjects other than ‘water’. The word is thus formed: उत् + अञ्च + घञ् = उदङ्कः ‘a vessel’.
Would not the affix घञ् have come by sutra (3.3.121), why then this aphorism? This is made a separate aphorism in order to prohibit the application of the affix, where the word to be formed means ‘water’.
Thus तैलोदङ्कः ‘a leathern vessel for oil’.
Why do we say ‘when not referring to ‘water’? Observe उदकोदञ्चनः ‘a bucket for drawing water’ (उद् + अञ्च + ल्युट्).
Why do not we give the counter-example by adding the affix घ to the root उदञ्च्? Because the form evolved by applying घ, would be the same in every respect as that evolved by घञ्; even the accent would be the same. For by sutra (6.2.144), the udatta accent, in the case of घञ्, will fall on the final.
Bhashya¶
उदङ्कोनुदके (1108) (566 घञ्ञ्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 1 आदृ 35) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते। न हलश्च इत्येव सिद्धम्। (समाधानभाष्यम्) अनुदक इति वक्ष्यामीति। इह मा भूत् - उदकोदञ्ञ्चनः॥ (4076 प्रत्याख्यानवार्तिकम्॥ 1 ॥) - उदङ्कोनुदकग्रहमानर्थक्यं च प्रायवचनाद्यथा गोदोहनः प्रसाधन इति- (भाष्यम्) उदङ्कोनुदकग्रहणं चानर्थकम्॥ घञ्ञ् कस्मान्न भवति? प्रायवचनाद् घञ्ञ् न भवति। यथा गोदोहनः प्रसाधन इति॥ उदङ्कोऽनु॥ 123 ॥
Kashika¶
उदङ्क इति निपात्यते, अनुदकविषयश्चेद् धात्वर्थो भवति। उत्पूर्वादञ्चतेर्घञ् निपात्यते। ननु च हलश्च (३.३.१२१) इति सिद्ध एव घञ्? उदके प्रतिषेधार्थमिदं वचनम्। तैलोदङ्कः। अनुदक इति किम्? उदकोदञ्चनः। घः कस्माद् न प्रत्युदाह्रियते? विशेषाभावात्। घञ्यपि थाथादिस्वरेणान्तोदात्त एव॥
Siddhanta Kaumudi¶
उत्पूर्वादञ्चतेर्घञ् स्यात् न तूदके । घृतमुदच्यते उद्ध्रियतेऽस्मिन्निति घृतोदङ्कश्चर्ममयं भाण्डम् । अनुदके किम् । उदकोदञ्चनः ॥
Tattvabodhini¶
उदङ्कोऽनुदके - उदङ्को ।हलश्चे॑त्येव सिद्दे उदकप्रतिषेदार्थमिदम् । उदकोदञ्चन इति ।पुंसि संज्ञाया॑मिति घे प्राप्ते घञ्विहितः । उदके तु घञि प्रतिषिद्धे घ एव स्यान्न तु ल्युडिति चेन्मैवम् । प्रतिषेधसामर्थ्याद्धस्याऽप्यप्रवृत्तेः । नहि इह घे घञि वा रूपे विशेषोऽस्ति । नच स्वरे विशेषः, घे सति कृदुत्तरपदप्रकृतिस्वरेणाऽन्तोदात्तता, घञ्यपि थाथादिस्वरेण तथैवेति ।
Padamanjari¶
तैलमुदयच्यते, उद्ध्रियतेऽस्मिन्निति तैलोदकमुचर्ममयं भजनम् ॥ घः कस्मादिति ।’पुंसि संज्ञायाम्’ इत्यादिना घे प्राप्ते घञ्विहितः, ततश्च तेन मुक्ते घ एव भवितुमर्हतीति भावः । विशेषाभावादिति । ननु घे सति प्रत्ययस्वरः घञि ञित्स्वरेणाद्यौदातः, तत्कथं विशेषाभावः ? स्तत्राह - घञ्यापहीत्यादि ॥
Nyaas¶
ननु च इत्यादि चोद्यम्। उदकप्रतिषेधार्थं वचनम्िति परिहारः। यद्येतन्नारभ्येत तदोदकेऽपि पूर्वेण स्यादित्यर्थः। `तैलोदङ्कः`इति। षष्ठीसमासः। षष्ठी पुनः कर्मणि कृद्योगलक्षणा।`उदकोञ्चनः इति। करमे ल्युट्। घः कस्मात् इत्यादि। एवं मन्यते - पुंसि संज्ञायाम् (3.3.118) इत्यादिना घे प्राप्ते घञ् विहितः, ततश्च तेन मुक्ते विषये घनैव युक्तं भवितुमिति। विशेषाभावात् इति। न ह्यत्राञ्चतेर्घञि घे वा सति विशेषोऽस्ति। तत्र यद्युदकेऽपि घः स्यादनुकप्रतिषेधेनार्थो न स्यादित्यभिप्रायः। ननु च घे सति प्रत्ययस्वरेणान्तोदात्त उदङ्कशब्दो भवति, घञढि सति ञित्स्वरेणाद्युदात्तः स्यात्, तत् किमुच्यते विशेषाभावादित्यत आह - घञ्यपि इत्यादि। `थाथादिस्वरेण**थाथघञ्क्ताजबित्रकाणाम्** (6.2.144) इत्येतद्विहितेन॥
Prakriyasarvasvam¶
तैलादेरुद्धृतिदर्वी सन्दंशश्चोदङ्कः । उदकस्य तूदञ्चनः ॥
Sutra Prayogas¶
हृदयोदङ्क-संस्थानं (भट्टिकाव्यम्): उदङ्को ऽनुदके इति उत्पूर्वादञ्चतेः घञ् निपात्यते।