33122: अध्यायन्यायोद्यावसंहाराधारावायाश्च

Padacheda: अध्याय-न्याय-उद्याव-संहार-आधार-आवयाः | S | 1 | 3 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

And the words 1. अध्याय 2. न्याय 3. उद्याव 4. संहार 5. आधारा 6. आवयाः are anomalous.

Vasu English Translation

And the words 1. अध्याय 2. न्याय 3. उद्याव 4. संहार 5. आधारा 6. आवयाः are anomalous. These words are formed by adding the affix घञ् to the exclusion of घ which would have come by rule (3.3.118). All these words are derived from roots which end in vowels. Thus अधि + इ + घञ् = अध्यायः ‘a chapter or book’ (lit. that in which they read); नी–न्यायः ‘logic, justice’, (lit. that by which men are lead); उत्-यु–उद्यावः ‘mixture’ (lit. that in which they blend); सम्-हृ–संहारः ‘destruction’ (lit. by which they are destroyed); आ-धृ-आधारः ‘support’ (lit. in which anything is held); आ-वि–आवायः = आवयन्ति अस्मिन् ।

The force of च is to include others not enumerated above; as, अवहारः ।

Kashika

अध्यायादयः शब्दा घञन्ता निपात्यन्ते। पुंसि संज्ञायां० (३.३.११८) घे प्राप्ते घञ् विधीयते। अहलन्तार्थ आरम्भः। अधीयतेऽस्मिन्नित्यध्यायः। नीयतेऽनेनेति न्यायः। उद्युवन्त्यस्मिन्नित्युद्यावः। संह्रियन्तेऽनेनेति संहारः। आध्रियन्तेऽस्मिन्नित्याधारः। आवयन्त्यस्मिन्नित्यावायः। चकारोऽनुक्तसमुच्चयार्थः। अवहारः॥

Siddhanta Kaumudi

अधीयतेऽस्मिन् अध्यायः । नियन्ति उद्यवन्ति संहरन्त्यनेनेति विग्रहः ॥<!अवहाराधारावायानामुपसङ्ख्यानम् !> (वार्तिकम्) ॥

Tattvabodhini

अध्यायन्यायोद्यावसंहारा(धारावया)श्च - अवहारेत्यादि । वृत्तिकारस्त्वाधारावायशब्दौ सूत्रे प्रक्षिप्य चकारेणाऽवहारशब्दं संजग्राह, तदसंबद्धमिति स्पष्टमेव ।

Padamanjari

आवयन्तीति । एत्यावयन्तीत्यर्थः । चकारोऽनुक्तसमुच्चयार्थ इति ।’घञ्विधाववहारावायानामुपसंख्यानम्’ वार्तिकम् । वृत्तिकारस्तु आधारावायशब्दौ सूत्रे प्रक्षिप्य चकारेणावहारशब्दं साधयति स्म, विचित्रा हि वृतेः कृतिर्वृत्तिकारेण ॥

Nyaas

`अहलन्तार्थ आरम्भः`इति। हलन्तेभ्यः पूर्वसूत्रेणैव सिद्धत्वात्॥

Prakriyasarvasvam

अजन्तत्वेऽपि नाम्नि घञन्ता एते । न्येति निश्चिनोत्यनेनेति शास्त्रयुक्त्यादिरत्र न्यायः, न अभ्रेषः । युता भवन्त्यत्रेत्युद्याव उत्सवः । संहारः समूहः । आवाय- स्तन्तुवानस्थानम् ॥

Sutra Prayogas

  • यदिहाऽन्यायादनेनाऽत्स्यामहे (भट्टिकाव्यम्): अध्याय-न्याय इति नीयते अनेनेति निपूर्वादिणः निपातनात् घञ्।