33121: हलश्च

Padacheda: हलः | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

And after a verb ending in a consonant, comes the affix घञ् (when the word to be formed is masculine and related to the verb as an instrument or a location and thereby the palatal is changed into guttural).

Vasu English Translation

And after a verb ending in a consonant, comes the affix घञ् (when the word to be formed is masculine and related to the verb as an instrument or a location and thereby the palatal is changed into guttural). The whole of the phrase within brackets is to be read into this sutra from sutra (3.3.118). This excludes घ. Thus लेखः ‘a writing’ (that in which something is inscribed); वेदः ‘the Veda’ (that by which all is known); वेषः ‘dress’ (that which is entered into); बन्धः ‘obstruction’; मार्गः ‘a way’ (that on which they seek); अपामार्गः ‘a plant’ (that by which disease or the like is cleared away); रामः ‘Rama’ (i. e. in which the devout delight).

Bhashya

हलश्च (1106) (565 घञ्ञ्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 1 । आ.34) (4072 वार्तिकम्॥ 1 ॥) - घञ्ञ्विधाववहाराधारावायानामुपसंख्यानम्- (भाष्यम्) घञ्ञ्विधौ अवहाराधारावायानामुपसंख्यानं कर्तव्यम्। अवह्रियन्ते अस्मिन्नवहारः। आध्रियन्तेऽस्मिन्नाधारः। एत्यैतस्मिन्वयन्त्यावावायः॥ हलश्च॥ 121॥

Kashika

पुंसि संज्ञायां करणाधिकरणयोश्चेति सर्वमनुवर्तते। हलन्ताद् धातोः करणाधिकरणयोर्घञ् प्रत्ययो भवति। घस्यापवादः। लेखः। वेदः। वेष्टः। बन्धः। मार्गः। अपामार्गः। वीमार्गः॥

Siddhanta Kaumudi

हलन्ताद्घञ् स्यात् । घापवादः । रमन्ते योगिनोऽस्मिन्निति रामः । अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः । विमार्गः समूहनी ॥

Laghu Siddhanta Kaumudi

हलन्ताद् घञ्। घापवादः। रमन्ते योगिनोऽस्मिन्निति रामः। अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः॥

Padamanjari

लेखःउलेखनी । वेष्टःउ वस्त्रादिः ।’विष्ट वेष्टने’ । विद्येते ज्ञायेते अनेन धर्माधर्माविति वेदः । अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गःउ वीरुद्विशेषः । वीमार्गःउ समूहनी, पूर्ववत्कुत्वदीर्घत्वे ॥

Nyaas

वेष्टः इति। वेष्ट वेष्टने (धातुपाठः-255)। मार्गोऽपामार्गः इति। {मृजू-धातुपाठः-} (धातुपाठः-1066)। `चजोः (7.3.52) इत्यादिना कुत्वम्, मृजेर्वृद्धिः, (7.2.114) `उपसर्गस्य घञि (6.3.121) इति दीर्घः॥

Prakriyasarvasvam

<karika>हलन्तेभ्यस्तु संज्ञायां घञेवोक्तार्थयोर्न घः । वेदश्च लेख इत्यादि तेनाजन्तेभ्य एव घः ॥ १६३ ॥</karika>

Vartika

घञ्विधाववहाराधारावायानामुपसंख्यानम् ।