33115: ल्युट् च

Padacheda: ल्युट् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affix ल्युट् is added to the root when the name of an action is expressed, in the neuter gender.

Vasu English Translation

The affix ल्युट् is added to the root when the name of an action is expressed, in the neuter gender. Thus हसनं छात्रस्य ‘the laughter of the student’; शोभनं ‘beauty’; जल्पनं ‘speech’; शयनं ‘sleep’; आसनम् ‘seat’.

The separation of this sutra from the last, in which it might well have been included, is for the sake of the subsequent aphorisms, in which the anuvritti of lyut only runs, and not that of क्त ।

Kashika

नपुंसकलिङ्गे भावे धातोर्ल्युट् प्रत्ययो भवति। हसनं छात्रस्य। शोभनम्। जल्पनम्। शयनम्। आसनम्। योगविभाग उत्तरार्थः॥

Siddhanta Kaumudi

हसितम् । हसनम् । योगविभागः उत्तरार्थः ॥

Laghu Siddhanta Kaumudi

हसितम्, हसनम्॥

Padamanjari

योगविभाग उतरार्थ इति । उतरत्र ल्युट एवानुवृत्तिर्यथा स्यात्, क्तस्य मा भूदित्येवमर्थम् ॥

Nyaas

`योगविभाग उत्तरार्थः`इति। उत्तरत्र ल्युट एवानुवृत्तिर्यथा स्यात्, क्तस्य मा भूत्॥

Prakriyasarvasvam

नपुंसके भावे ल्युट् स्यात् । योरनः । पचनम् । सवर्णदीर्घः । यानम् । मानम् । <karika>महाभाष्यकृता कोऽसावनुमान इतीरणात् । ल्युडन्तोऽपि न पुंल्लिङ्गो मानशब्दः प्रदुष्यति ॥ १६१ ॥</karika> इति भोजः । गॄ । गुणः । णत्वम् । निगरणम् । ‘अचि विभाषा (८-२-२१) इति लत्वे निगलनम् । ‘टुवम उद्गिरण’ इति धातुपाठे निपातनादित्वमपीति केचित् । गिरणं गिलनम् । कुचेः कुटादित्वेऽपि ‘कुच सङ्कोचन’ इति धातूक्तेर्ल्युटि गुणः । नुम्व्यवाये णत्वम् । बृहि । बृंहणम् । अनुम्यनुस्वारमात्रेऽपि । ‘तृहू हिंसायाम्’ । तृहणम् ॥

Sutra Prayogas

  • प्रायोपवेशनम् (भट्टिकाव्यम्): ल्युट् च इति भावे ल्युट्।