33111: पर्यायार्हर्णोत्पत्तिषु ण्वुच् ===================================== **Padacheda:** पर्याय-अर्ह-ऋण-उत्पत्तिषु | S | 7 | 3 | ण्वुच् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ण्वुच् comes optionally after a root in the sense of succession, merit, debt or production. Vasu English Translation ------------------------ The affix ण्वुच् comes optionally after a root in the sense of succession, merit, debt or production. The word पर्याय means turn or order of succession; अर्ह means worthy of respect; ॠणं means debt owed to another; and उत्पत्ति means birth or production. This rule supersedes क्तिन् and other affixes. Thus: (1) भवतः शयिका 'your turn of sleeping'; भवतोऽग्रग्रासिका 'your turn of eating first'. (2) अर्हति भवानिक्षुभक्षिकाम् 'you deserve to have a meal of sugar and molasses'. (3) इक्षुभक्षिकां मे धारयसि 'thou owest me a meal of sugar and molasses'; ओदनभोजिकां 'a meal of rice'; पयः पायिकां 'a drink of milk'. (4) इक्षुभक्षिका मे उदपादि । The word 'optionally' is understood in this *sutra* also; as चिकीर्षोत्पद्यते । The forms given by ण्वुल् and ण्वुच् are the same, the difference is only in the accent. (6.1.193) and (6.1.163). Kashika ------- पर्यायः परिपाटी क्रमः। अर्हणमर्हः, तद्योग्यता। ऋणं तत्, यत् परस्य धार्यते। उत्पत्तिर्जन्म। एतेष्वर्थेषु धातोर्ण्वुच् प्रत्ययो भवति। क्तिन्नादीनामपवादः। पर्याये तावत् — भवतः शायिका। भवतोऽग्रग्रासिका। अर्हे — अर्हति भवानिक्षुभक्षिकाम्। ऋणे — इक्षुभक्षिकां मे धारयसि। ओदनभोजिकाम्। पयःपायिकाम्। उत्पत्तौ — इक्षुभक्षिका मे उदपादि। ओदनभोजिका। पयःपायिका। विभाषेत्येव — चिकीर्षोत्पद्यते। ण्वुलि प्रकृते प्रत्ययान्तरकरणं स्वरार्थम्॥ Siddhanta Kaumudi ----------------- पर्यायः परिपाटीक्रमः । अर्हणमर्हः योग्यता । पर्यायादिषु द्योत्येषु ण्वुच् वा स्यात् । भवत आसिका । शायिका । अग्रगामिका । भवानिक्षुकामर्हति । ऋणे । इक्षुभक्षिकां मे धारयति । उत्पत्तौ । उक्षुभक्षिका उपपादि ॥ Tattvabodhini ------------- **पर्यायार्हणोत्पत्तिषु ण्वुच्** - परिपाटीति । पट गतौ परिपूर्वः ।इणजादिभ्यः॑ इतीण् ।कृदिकारा॑दिति ङीष् । Padamanjari ----------- परिपाटीति । पटेः परिपूर्वात् ठिणजादिभ्यःऽ इति इण् तदन्तात्'कृदिकाराक्तिनः' इति ङीष् । तद्योरयतेति । तच्छब्देन धात्वर्थ उच्यते । परस्मै इति ।'धारेरुतमर्णः' इति सम्प्रदानसंज्ञा । परस्येति तु पाठे परस्य विस्त्वित्यर्थः । धार्यतेउबाध्यते । ग्राममामिकेति । कर्मणि षष्ठयाः समासः । उदपादीति ।'चिण् ते पदः' इति कर्तरि चिण् । स्वरार्थमिति ।'चितः' इत्यन्तोदातत्वं यथा स्यात् । ण्वुलि तु'लिति' इति प्रत्ययात्पूर्वमुदातं स्यात् ॥ Nyaas ----- `क्तिन्नादीनामपवादः`इति। आदिशब्देनाकारादीनाम्। `अग्रगामिका` इति। अग्रस्य गामिका। कृद्योगलक्षणायाः कर्मणि षष्ठ्याः समासः। `स्वरार्थम्` इति। अन्तोदात्तत्वं यथा स्यादित्येवमर्थम्। ण्वुलि हि सति प्रत्ययात् पूर्वमुदात्तः स्यात्॥ Prakriyasarvasvam ----------------- एषु चतुर्षु द्योत्येषु भावे ण्वुच् स्यात् । चित्त्वात् स्वरे भेदः । शायिकाद्य तव प्रापदर्हसि क्षीरपायिकाम् । पाचिका मे त्वया देया प्रोत्पन्ना मेऽन्नभोजिका ॥ १६० ॥ Sutra Prayogas -------------- * **प्रायोपवेशिकाम्** (भट्टिकाव्यम्): `पर्यायार्हण` इति इत्यादिना ण्वुल्। * **तवोपशायिका** (भट्टिकाव्यम्): `पर्यायार्हणोत्पत्तिपु ण्वच्` इति ण्वुच् प्रत्ययः।