33089: ट्वितोऽथुच्¶
Padacheda: ट्वितः | S | 5 | 1 |
अथुच् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
After that verb that has an indicatory टु , the affix अथुच् comes with the force of denoting mere action etc.
Vasu English Translation¶
After that verb that has an indicatory टु , the affix अथुच् comes with the force of denoting mere action etc. As टुवेपृ–वेपथुः ‘a trembling’; टुओश्वि–श्वयथुः ‘swelling’; टुक्षुः–क्षवथुः ‘sneezing’; टुदु–दवथुः ‘burning’.
Kashika¶
टु इद् यस्य, तस्माट् ट्वितो धातोरथुच् प्रत्ययो भवति भावादौ। टुवेपृ कम्पने — वेपथुः। टुओश्वि गतिवृद्ध्योः — श्वयथुः। टुक्षु शब्दे — क्षवथुः॥
Siddhanta Kaumudi¶
अयमपि स्वभावाद् भाव एव । टुवेपृ । वेपथुः । श्वयथुः ॥
Laghu Siddhanta Kaumudi¶
टुवेपृ कम्पने, वेपथः ॥
Padamanjari¶
अयमपि स्वभावाद्भाव एव भवति । घञादेरपवादः । वासरूपविधना सोऽपि भवत्येव ॥
Nyaas¶
वेपथुः इति। वेपनम् = वेपथुः। स्वभावत एवैतदुभयं भावे भवतीति घञोऽपवादो विज्ञायते। घञ् तु वासरूपविधिनापि न भवति; अनभिधानात्। अथुचश्चकारः।अथुचश्चकारः स्वराथः॥
Prakriyasarvasvam¶
णजकारलोपः ॥ ट्वितो धातोर्भावेऽथुच् स्यात् टुवेपृ, वेपथुः ॥
Sutra Prayogas¶
महोर्मिविस्फूर्जथुनिर्विशेषाः (रघुवंशम्): ट्वितोऽथुच् इत्यथुच्प्रत्ययः।
सवेपथूनि (कुमारसम्भवम्): ट्वितोऽथुच् इत्यथुच्प्रत्ययः।
वेपथुः (किरातार्जुनीयम्): ट्वितोऽथुच् इत्यथुच्प्रत्ययः।
कृतवेपथुः (शिशुपालवधम्): द्वितोऽथुच् इत्यथुच्प्रत्ययः।
तनुरोमराजिपथवेपथवे (शिशुपालवधम्): ट्वितोऽथुच् इत्यथुच् प्रत्ययः।
नन्दथुम् (शिशुपालवधम्): ट्वितोऽथुच् इत्यथुच्प्रत्ययः।
विलोलसदवथुवपुर्वचोविषम् (शिशुपालवधम्): ट्वितोऽथुच् इति दवथुशब्दे अथुच्-प्रत्ययः।
वेपथुमासेदुरन्ये (भट्टिकाव्यम्): सर्वत्र द्वितो - ऽथुच् इति ।
नन्दथुः (भट्टिकाव्यम्): सर्वत्र द्वितो- ऽथुच् इति अथुच्-प्रत्ययः।
विस्फूर्जथु-प्रख्यं (भट्टिकाव्यम्): द्वितोऽथुच् इति।
भ्राजथु-मतीं (भट्टिकाव्यम्): द्वितो ऽथुच् इति तदन्तान्मतुप्।