33090: यजयाचयतविच्छप्रच्छरक्षो नङ्¶
Padacheda: यज-याच-यत-विच्छ-प्रच्छ-रक्षः | S | 5 | 1 |
नङ् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
After the verbs 1. यज् ‘to worship’ 2. याच् ‘to ask for’ 3. यत् ‘to strive’ 4. विच्छ् ‘to shine’ 5. प्रच्छ् ‘to ask’ 6. रक्ष् ‘to preserve’, comes the affix नङ् with the force of denoting mere action etc.
Vasu English Translation¶
After the verbs 1. यज् ‘to worship’ 2. याच् ‘to ask for’ 3. यत् ‘to strive’ 4. विच्छ् ‘to shine’ 5. प्रच्छ् ‘to ask’ 6. रक्ष् ‘to preserve’, comes the affix नङ् with the force of denoting mere action etc. The conditions of sutras 18 and 19 are understood here also. The ङ् of नङ् is for the sake of prohibiting guna or vriddhi (1.1.5); as यज्ञः ‘sacrifice’; याच्ञा ‘solicitation’; यत्नः ‘effort’; विश्नः (6.4.19) ‘lustre’; प्रश्नः ‘a question’; रक्ष्णः ‘protection.
The root प्रच्छ, by (6.1.16), ought to have changed its र into ॠ before the ङित् affix नङ्. Its not doing so must be taken to be an irregularity countenanced by Panini, as we know from the fact that Panini himself uses the form प्रश्नः in (III.2. II7).
Bhashya¶
यजयाचयतविच्छप्रच्छरक्षो नङ् (1065) (444 नङ्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 1 आ.23 सू.) (4041 वार्तिकम्॥ 1 ॥) - यजादिभ्यो नस्य ङित्त्वे संप्रसारणप्रतिषेधः- (भाष्यम्) यजादिभ्यो नस्य ङित्त्वे संप्रसारणप्रतिषेधो वक्तव्यः। प्रश्न इति॥ (ङ्कारप्रत्याख्यानभाष्यम्) एवं तर्हि अङित्करिष्यते। (4042 दूषणवार्तिकम्॥ 2 ॥) - अङिति गुणप्रतिषेधः- (भाष्यम्) यद्यङिद् गुणस्य प्रतिषेधो वक्तव्यः - विश्न इति॥ (दूषणभाष्यम्) सूत्रं च भिद्यते। (समाधानभाष्यम्) यथान्यासमेवास्तु। (दूषणस्मारणभाष्यम्) ननु चोक्तं यजादिभ्यो नस्य ङित्त्वे संप्रसारणप्रतिषेध इति। (दूषणोद्धारभाष्यम्) नैष दोषः। निपातनादेतत् सिद्धम्॥ किं निपातनम्? प्रश्ने चासन्नकाले इति॥ यजयाच॥ 90 ॥ (स्न्यधिकारोक्तप्रत्ययाः)
Kashika¶
भावेऽकर्तरि च कारक इति वर्तते। यजादिभ्यो धातुभ्यो नङ् प्रत्ययो भवति। ङकारो गुणप्रतिषेधार्थः। यज्ञः। याच्ञा। यत्नः। विश्नः। प्रश्नः। रक्ष्णः। प्रच्छेरसंप्रसारणं ज्ञापकात् प्रश्ने चासन्नकाले (३.२.११७) इति॥
Siddhanta Kaumudi¶
यज्ञः । याच्ञा । यत्नः । विश्नः । प्रश्नः । प्रश्नेचासन्नकाले (SK2777) इति ज्ञापकान्न सम्प्रसारणम् । ङित्वं तु विश्न इत्यत्र गुणनिषेधाय । रक्ष्णः ॥
Laghu Siddhanta Kaumudi¶
यज्ञः। याच्ञा। यत्नः। विश्नः। प्रश्नः। रक्ष्णः॥
Tattvabodhini¶
यजयाचयतविच्छप्रच्छरक्षो नङ् - यजयाच । भावेऽकर्तरि कारके चेति वर्तते । अत एवयज्ञेन यज्ञमयजन्त देवाः॑ इत्यत्र इज्यते इति यज्ञ इति व्याचक्षते । [विश्न इति ।च्छ्वोः शूडनुनासिके चे॑ति शः] ।
Padamanjari¶
नङे ङ्कारो विच्छेर्गुणप्रतिषेधार्थः, अन्यथान्तरङ्गत्वातुकि’चछवोः शूडनुनासिके च’ इति सतुक्कस्य च्छस्यादेशे कृते लघूपधत्वाद् गुणः स्यात् । नङ्न्ताः सर्वे पुंल्लिङ्गाः । याचिस्तु स्त्रीलिङ्गः । वासरूपविधिश्च यथाभिधानं भवति । प्रश्न इति । अत्र ग्रहिज्यादिसूत्रेण सम्प्रसारणं कस्मान्न भवतीत्याह - प्रच्छेरिति ॥
Nyaas¶
यज देवपूजादौ (धातुपाठः-1002), टुयाच् याच्ञायाम् (धातुपाठः-863), {यती प्रयत्ने-धा।पा} यत प्रयत्ने`(धातुपाठः-30), `विच्छ गतौ (धातुपाठः-1423), प्रच्छ ज्ञीप्सायाम् (धातुपाठः-1413), रक्ष {पालने - धातुपाठः-}रक्षणे (धातुपाठः-658) -अत्र स्वाभाविकत्वाद्याचेरन्येषां नङ्प्रत्ययान्तानां पुंसि वृत्तिरिति तेभ्यो नङ् न घञपवादो भवति। यथादर्शनञ्च वासरूपविधना घञपि भवति- याग इति। याचेस्तु नङन्तसय स्वभावात् स्त्रियां वृत्तिरिति ततो नङ् गुरोश्च हलः (3.3.103) इति प्राप्तस्याकारप्रत्ययस्यापवादः। कृत्यल्युटो बहुलम् (3.3.113) इति वचनाद्वासरूपविधिर्न भवति। ङकारो गुणप्रतिषेधः इति। विच्छेर्लघूपधगुणो मा भूदित्येवमर्थः। ननु चान्तरङ्गत्वात् छे च (6.1.71) इति तुकैव विच्छेस्तावद्भवितव्यम्, तत्रालघूपधत्वादेव गुणो न भविष्यति, तत्क तत्प्रतिषेधार्थो ङकारः कर्तव्यः। अनित्यमागमशासनम्`(व्या।प।99) इत्यस्य चैदेव नङो ङिकरणं ज्ञापकम्। यदा तह्र्रनित्यत्वात्, तुङ्न, तदा **च्छ्वोः शूडनुनासिके च** (6.4.19) इति सतुक्कस्य च्छकारस्य शादेशो विधीयमानः केवलस्य न प्राप्नोति? नैष दोषः; यस्मात् `च्छ्वोः`इति द्विच्छकारो निर्देशः। तत्रैकः सतुक्कः, द्वितीयः केवल एव, तेन केवलस्यापि शादेशो भविष्यति। यदि तु द्विच्छकारो निर्देशः `च्छ्वोः इति द्विवचनं न प्राप्नोति,बहुत्वात् स्थानिनाम्? सौत्रत्वनान्निर्देशस्य बहुवचनस्य व्यत्ययेन द्विवचनं भविष्यतीत्यदोषः। अवश्यं द्विच्छकारो निर्देशः कर्तव्यः; अन्यथा राल्लोपः (6.4.21) इत्यत्र केवलस्य लोपो न स्यात्, केवलस्य च्छकारस्याप्रकृत्वात्। वचनं तु वकारलोपार्थमेव स्यात्। यज्ञः, याच्ञा इति। स्तोः श्चुना श्चुः (8.4.40) इति श्चुत्वेन नकारस्य ञकारः। यत्नः इति। नेड् वशि कृति (7.2.8) इतीट्प्रतिषेधः। विश्नः, प्रश्नः इति। च्छ्वोः (6.4.19) इत्यादिना च्छकारस्य शकारादेशः। रक्ष्णः`इति। **ष्टुना ष्टुः** (8.4.41) इति नकारस्य णकारः। अथ प्रच्छेः ग्रहिज्यादिसूत्रेण (6.1.16) सम्प्रसारणं `प्रश्नः इत्यत्र कस्मान्न भवतीत्यत आह - प्रच्छेः इत्यादि। किं ज्ञापकमित्याह - प्रश्ने च इत्यादि॥
Prakriyasarvasvam¶
एभ्यो भावे नङ् स्यात् । चुत्वम् । यज्ञः । याच्ञा । स्वभावात् स्त्रीत्वम् । यत्नः । ‘च्छ्वोः शूड्—’ (६-४-१९) इति च्छस्य शः । ङित्त्वादगुणः । विश्नो गमनम् । प्रश्नः । ष्टुत्वम् । रक्षणः । तृषेश्च वाच्यम् । तृष्णा । स्त्रीत्वं प्राग्वत् । ‘प्रश्ने चासन्नकाले’ (३-२-११७) इति निपातनादिह प्रच्छेर्ग्रहिज्यादिना प्रसारणं न ॥
Sutra Prayogas¶
रक्ष्णं (भट्टिकाव्यम्): यज-याच इति नङ्।