33086: संघोद्घौ गणप्रशंसयोः¶
Padacheda: संघ-उद्घौ | S | 1 | 2 |
गण-प्रशंसयोः | S | 7 | 2 |
Sutrartha¶
Vasu English Summary¶
The words संघ and उद्घ are irregularly formed in the sense of ‘a collection’ and ‘a praise’ respectively.
Vasu English Translation¶
The words संघ and उद्घ are irregularly formed in the sense of ‘a collection’ and ‘a praise’ respectively. These words are thus formed; सम् + हन् + अप् = सं + ह् + अ = सं + घ् + अ = सङ्घः। Thus सङ्घः पशूनाम् ‘a herd of cattle’; so also उद्घो मनुष्यः ‘an excellent man’. The word ‘respectively’ is inserted from (1.3.10). When not used in these senses, we have सङ्घातः ‘union’.
Kashika¶
समुदोरुपपदयोर्हन्तेर्धातोरप् प्रत्ययो भवति, टिलोपो घत्वं च निपात्यते, यथासंख्यं गणेऽभिधेये, प्रशंसायां गम्यमानायाम्। संघः पशूनाम्। उद्घो मनुष्याणाम्। गणप्रशंसयोरिति किम्? संघातः॥
Siddhanta Kaumudi¶
संहननं सङ्घः । भावेऽप् । उद्धन्यते उत्कृष्टो ज्ञायते इत्युद्धः । कर्मण्यप् । गत्यर्थानां बुध्यर्थत्वाद्धन्तिर्ज्ञाने ॥
Tattvabodhini¶
संघोद्घौ गणप्रशंसयोः - सङ्घोद्धौ ।मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवचकान्यमूनि॑ इत्यमरः ।
Padamanjari¶
संहननं सङ्घः, भावेऽप् । उद्घन्यतेऊत्कृष्टे ज्ञायत इति कर्मण्यप् । गत्यर्था बुद्ध्यर्था इति हन्तिर्ज्ञाने वर्तते । उद्घो मनुष्याणामिति । मनुष्याणां मध्ये प्रशस्त इत्यर्थः ॥
Nyaas¶
सङ्घोद्घौ इति। संहननं सङ्घः। उत्कटं हन्यते ज्ञायत इति उद्घः। कर्मण्यप्। कथं पुनर्हन्तिज्र्ञाने वर्तते? गत्यर्थत्वात्। सर्वेषां गत्यर्थानां धातूनां ज्ञानार्थत्वात्॥
Prakriyasarvasvam¶
उद्घः प्रशस्तवाची ॥
Sutra Prayogas¶
उद्घान्संघसमागतान् (भट्टिकाव्यम्): संघोद्यौ गण- प्रशंसयोः इति समुदोरुपपदयोः हन्तेरपि टिलोपश्च निपात्यते।