33086: संघोद्घौ गणप्रशंसयोः =========================== **Padacheda:** संघ-उद्घौ | S | 1 | 2 | गण-प्रशंसयोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The words संघ and उद्घ are irregularly formed in the sense of 'a collection' and 'a praise' respectively. Vasu English Translation ------------------------ The words संघ and उद्घ are irregularly formed in the sense of 'a collection' and 'a praise' respectively. These words are thus formed; सम् + हन् + अप् = सं + ह् + अ = सं + घ् + अ = सङ्घः। Thus सङ्घः पशूनाम् 'a herd of cattle'; so also उद्घो मनुष्यः 'an excellent man'. The word 'respectively' is inserted from (1.3.10). When not used in these senses, we have सङ्घातः 'union'. Kashika ------- समुदोरुपपदयोर्हन्तेर्धातोरप् प्रत्ययो भवति, टिलोपो घत्वं च निपात्यते, यथासंख्यं गणेऽभिधेये, प्रशंसायां गम्यमानायाम्। संघः पशूनाम्। उद्घो मनुष्याणाम्। गणप्रशंसयोरिति किम्? संघातः॥ Siddhanta Kaumudi ----------------- संहननं सङ्घः । भावेऽप् । उद्धन्यते उत्कृष्टो ज्ञायते इत्युद्धः । कर्मण्यप् । गत्यर्थानां बुध्यर्थत्वाद्धन्तिर्ज्ञाने ॥ Tattvabodhini ------------- **संघोद्घौ गणप्रशंसयोः** - सङ्घोद्धौ ।मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवचकान्यमूनि॑ इत्यमरः । Padamanjari ----------- संहननं सङ्घः, भावेऽप् । उद्घन्यतेऊत्कृष्टे ज्ञायत इति कर्मण्यप् । गत्यर्था बुद्ध्यर्था इति हन्तिर्ज्ञाने वर्तते । उद्घो मनुष्याणामिति । मनुष्याणां मध्ये प्रशस्त इत्यर्थः ॥ Nyaas ----- `सङ्घोद्घौ` इति। संहननं सङ्घः। उत्कटं हन्यते ज्ञायत इति उद्घः। कर्मण्यप्। कथं पुनर्हन्तिज्र्ञाने वर्तते? गत्यर्थत्वात्। सर्वेषां गत्यर्थानां धातूनां ज्ञानार्थत्वात्॥ Prakriyasarvasvam ----------------- उद्घः प्रशस्तवाची ॥ Sutra Prayogas -------------- * **उद्घान्संघसमागतान्** (भट्टिकाव्यम्): `संघोद्यौ गण- प्रशंसयोः` इति समुदोरुपपदयोः हन्तेरपि टिलोपश्च निपात्यते।