33085: उपघ्न आश्रये

Padacheda: उपघ्नः | S | 1 | 1 |

आश्रये | S | 7 | 1 |

Sutrartha


Vasu English Summary

The word उपघ्न is irregularly formed meaning ‘an inclined place for leaning or support’.

Vasu English Translation

The word उपघ्न is irregularly formed meaning ‘an inclined place for leaning or support’. It is formed by adding अप् (3.3.76) to the verb हन् preceded by the upasarga उप, then eliding the penultimate अ of ह; this is the irregularity. Then by sandhi rules हन् is changed into घ्नः । This form would have been given by the affix क also, without any irregularity.

The word आश्रय refers to ‘proximity, contiguity’. Thus पर्वतोघ्नः ‘the declivity of the mountain’; so also ग्रामोपघ्नः ‘bordering the village’.

Why do we say ‘when meaning support’? Observe पर्वतोपघातः ।

Kashika

उपपूर्वस्य हन्तेरप् प्रत्यय उपधालोपश्च निपात्यत आश्रयेऽभिधेये। आश्रयशब्दः सामीप्यं प्रत्यासत्तिं लक्षयति। पर्वतोपघ्नः। ग्रामोपघ्नः। आश्रय इति किम्? पर्वतोपघात एवान्यः॥

Siddhanta Kaumudi

उपपूर्वाद्धन्तेरप् स्यादुपधालोपश्च । आश्रयशब्देन सामीप्यं लक्ष्यते । पर्वतेनोपहन्यते सामीप्येन गम्यते इति पर्वतोपघ्नः ॥

Padamanjari

आश्रयशब्द इत्यादि । आश्रयणमाश्रयः, स प्रत्यासत्याऽविनाभावीत्येतल्लक्षणहेतुः । पर्वतोपघ्न इति । पर्वतेनोपहन्यतेउसामीप्येन गम्यत इति कर्मण्यम् ॥

Nyaas

आश्रयशब्दः इत्यादि। आश्रयणमाश्रयः = सेवा। सा च यत्र प्रत्यासत्तिस्तत्र भवतीत्याश्रयः प्रत्यासत्तिसहचरः।तस्मादाश्रयशब्दः सामीप्यं प्रत्यासत्तिमुपलक्षयति; तदर्थस्य प्रत्यासत्तिसाहचर्यात्। पर्वतोपघ्नः इति। पर्वतसमीपभूतोऽर्थ उच्यते॥

Prakriyasarvasvam

लताया उपघ्नस्तरुः । आश्रयः समीपमित्येवान्ये । शैलुपघ्नो देशः ॥

Sutra Prayogas

  • गुणवदुपघ्नकाम्ययेव (शिशुपालवधम्): उपघ्न आश्रये इति हन्तेः अप्-प्रत्ययान्तः निपात्यते।