33082: करणेऽयोविद्रुषु¶
Padacheda: करणे | S | 7 | 1 |
अयस्-वि-द्रुषु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
The affix अप् comes after the verb हन् ‘to kill’ when the words अयस् , वि or द्रु are in composition with it, when the word so formed is related to the verb as an instrument and घन् is the substitute.
Vasu English Translation¶
The affix अप् comes after the verb हन् ‘to kill’ when the words अयस् , वि or द्रु are in composition with it, when the word so formed is related to the verb as an instrument and घन् is the substitute. As अयोघनः ‘a forge-hammer’ (whereby the iron is destroyed); विघनः ‘a mallet’; द्रुघनः ‘an axe’. Some write द्रुघणः, the न being changed into ण either by rule (8.4.3) or by including this word in the class of आरोहणादि (4.2.80).
Kashika¶
हन इति वर्तते। अयस् वि द्रु इत्येतेषूपपदेषु हन्तेर्धातोः करणे कारकेऽप् प्रत्ययो भवति, घनादेशश्च। अयो हन्यतेऽनेनेत्ययोघनः। विघनः। द्रुघनः। द्रुघण इति केचिदुदाहरन्ति। कथं णत्वम्? अरीहणादिषु पाठात्। पूर्वपदात् संज्ञायामगः (८.४.३) इति वा॥
Siddhanta Kaumudi¶
एषु हन्तेः करणेऽप् स्याद्घनादेशश्च । अयो हन्यतेऽनेनेत्ययोघनः । विघनः । द्रुघनः । द्रुघण इत्येके । पूर्वपदात्सञ्ज्ञायां (SK857) इति णत्वम् । सञ्ज्ञैषा कुठारस्य । द्रुर्वृक्षः ॥
Padamanjari¶
द्रुघन इति । द्रुरिति वनस्पतिनाम्,’वनस्पतयो वै द्रवः’ इति निगमो भवति । पूर्वपदात्संज्ञायामग इति वेति । संज्ञा चैषा कुठारविशेषस्य ॥
Prakriyasarvasvam¶
एषु पूर्वेषु हनेः करणेऽप् घनादेशश्च । अयोहननसाधनमयोघनः । विघनः समीकरणसाधनम् ॥
Sutra Prayogas¶
विघनेन्दु-सम-द्युतिः (भट्टिकाव्यम्): करणे- ऽयोविद्धुषु इत्यप् घनादेशश्च।