33082: करणेऽयोविद्रुषु ====================== **Padacheda:** करणे | S | 7 | 1 | अयस्-वि-द्रुषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The affix अप् comes after the verb हन् 'to kill' when the words अयस् , वि or द्रु are in composition with it, when the word so formed is related to the verb as an instrument and घन् is the substitute. Vasu English Translation ------------------------ The affix अप् comes after the verb हन् 'to kill' when the words अयस् , वि or द्रु are in composition with it, when the word so formed is related to the verb as an instrument and घन् is the substitute. As अयोघनः 'a forge-hammer' (whereby the iron is destroyed); विघनः 'a mallet'; द्रुघनः 'an axe'. Some write द्रुघणः, the न being changed into ण either by rule (8.4.3) or by including this word in the class of आरोहणादि (4.2.80). Kashika ------- हन इति वर्तते। अयस् वि द्रु इत्येतेषूपपदेषु हन्तेर्धातोः करणे कारकेऽप् प्रत्ययो भवति, घनादेशश्च। अयो हन्यतेऽनेनेत्ययोघनः। विघनः। द्रुघनः। द्रुघण इति केचिदुदाहरन्ति। कथं णत्वम्? अरीहणादिषु पाठात्। **पूर्वपदात् संज्ञायामगः** (८.४.३) इति वा॥ Siddhanta Kaumudi ----------------- एषु हन्तेः करणेऽप् स्याद्घनादेशश्च । अयो हन्यतेऽनेनेत्ययोघनः । विघनः । द्रुघनः । द्रुघण इत्येके । पूर्वपदात्सञ्ज्ञायां (SK857) इति णत्वम् । सञ्ज्ञैषा कुठारस्य । द्रुर्वृक्षः ॥ Padamanjari ----------- द्रुघन इति । द्रुरिति वनस्पतिनाम्,'वनस्पतयो वै द्रवः' इति निगमो भवति । पूर्वपदात्संज्ञायामग इति वेति । संज्ञा चैषा कुठारविशेषस्य ॥ Prakriyasarvasvam ----------------- एषु पूर्वेषु हनेः करणेऽप् घनादेशश्च । अयोहननसाधनमयोघनः । विघनः समीकरणसाधनम् ॥ Sutra Prayogas -------------- * **विघनेन्दु-सम-द्युतिः** (भट्टिकाव्यम्): `करणे- ऽयोविद्धुषु` इत्यप् घनादेशश्च।