33081: अपघनोऽङ्गम्

Padacheda: अपघनः | S | 1 | 1 |

अङ्गम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The word अपघन is irregularly formed meaning ‘a member of the body’.

Vasu English Translation

The word अपघन is irregularly formed meaning ‘a member of the body’. This is formed irregularly from अप + हन्. Thus अपघनः ‘a limb or member of the body’. The word अङ्गम् means a portion of the body, such as hand or foot, and not the whole body. Otherwise we have अपघातः ।

Kashika

अपपूर्वस्य हन्तेरपघन इति निपात्यते, अङ्गं चेत् तद् भवति। अपघनः अङ्गम्। अवयवः, एकदेशो न सर्वः। किं तर्हि? पाणिः पादश्चाभिधीयते। अपघातोऽन्यः॥

Siddhanta Kaumudi

अङ्गं शरीरावयवः । स चेह न सर्वः किन्तु पाणिः पादश्चेत्याहुः । करणेऽप् । अपघातोऽन्यः ॥

Padamanjari

अपघन इति । करणेऽप् ॥

Nyaas

`अपघनः`इति। अपहन्यतेऽनेनेति करणेऽप्॥